________________ अर्थापत्तिनिरूपणम् 291 तर्कसहकृताया आपत्तेः प्रबलत्वं तदा सामान्यतोदृष्टानुमानस्यानयोर्मध्ये एकं बाध्यमित्यस्यापि कथं न प्रबलता, तथा च तर्कसहकृतं सामान्यतोदृष्टमेवानुमानं प्रबलं मरणकल्पनापेक्षया जीवनकल्पने लाघवमिति नियमग्राहकं प्रत्यक्ष तर्केण बाधितमिति कथमर्थापत्तिः प्रथममेव बहिःसत्त्वसाधकम् / तस्मात् यथोक्तसंशयदशायां जीवनबाधे तन्नियमबाधस्यावश्यकत्वादिति तर्कानन्तरमेव बहिःसत्त्वज्ञानमित्यविवादम्, तत्र कल्पनीयप्रमाणाभावे यथोक्तसंशये तर्कस्य नसहकारित्वं गौरवात् किन्तु नियमग्राहकबाधद्वारा बहिःसत्त्वपरम्परासाधके सामान्यतोदृष्टे लाघवात् / न च सामान्यतोदृष्टावतार एवात्र नास्तीति वाच्यम् / अनिर्धारितैकबाधप्राप्तौ ोकबाधानुकूलकल्पनायां विनिगमकस्तो भवति, न चैकबाधप्राप्ति: सामान्यतोदृष्टं विना / किञ्च विरोधज्ञानानन्तरमेकमप्रमाणमिति यदि धीर्नास्ति तदा प्रामाण्यसंशयो न स्यात् न स्याच्च जीवनसंशयः द्वयोरपि जीवनमरणनिश्चायकत्वात्। . उपसंहरति - तस्मादिति मूलम् / यथोक्तेति मूलम् / जीवति न वेति संशयदशायामित्यर्थः / तर्कस्वरूपं विवृणोति - जीवनबाधे इति मूलम् / जीवनबाधे प्रत्यक्षप्रमाणबाधस्यावश्यकत्वादिति भावः, विशेषणबाधे विशिष्टबाधादिति / तर्कस्वरूपं विधेयमाह - बहिःसत्त्वज्ञानमिति मूलम् / तथा च नैयायिकप्राभाकरपक्षयोरुभयोरपीदमेव सम्मतम् / जीवति न वेति सन्देहानन्तरमुक्ततर्कावतारे सति तर्कानन्तरमेव बहिःसत्त्वज्ञानमित्यविवादम्, तथा च न केवलं तर्कमात्रादेव बहिःसत्त्वज्ञानं तर्कस्य स्वयमप्रमाणत्वेन प्रमाणसहकारित्वात् / तथा च यस्य सहकारी तर्कः तादृशं प्रमाणं किञ्चिद् वक्तव्यम् / तच्च प्रमाणं न संशयरूपाऽर्थापत्तिः यत उक्तम् - संशयः करणमिति। तत्सहकारी तर्को न भवति संशयस्य तर्कः सहकारी न भवति, यतः क्लृप्तकल्पनीययोमध्ये क्लृप्तस्यैव बलवत्त्वं यतः संशयस्यादावपत्तिरूपप्रमाणत्वं कल्पनीयम् / स यद्यपि स्वयं प्रमा न भवति तथापि प्रमाकरणत्वेन कल्पनीय(यः) त्वयेति कल्पनीयता तस्य, अनुमानस्य तु प्रामाण्यमुभयवादिसिद्धत्वात् क्लृप्तमेव, इति लाघवादनुमानमेव बहिःसत्त्वज्ञाने प्रमाणम् / एतदेवाह - किन्त्विति मूलम् / सामान्यतोदृष्टे एव तर्कस्य सहकारित्वं क्लृप्तत्वादित्यर्थः / हेतुरत्र लाघवादिति ज्ञेयः / मध्ये शङ्कते - न चेति / विरुद्धप्रमाणयोर्जागरूकत्वात् सामान्यतोदृष्टावतार एव नास्ति, कस्य बाधः कर्तव्य उभयोर्जागरूकत्वादित्यर्थः / समाधत्तेअनिर्धारितेति मूलम् / तथा चोभयोर्विरुद्धत्वज्ञानानन्तरमेकबाधत्वप्रसक्तौ सत्यां तर्क एव विनिगमकः / तथा च तर्कसहकारिवशात् प्रबलेन सामान्यतोदृष्टानुमानेनावश्यं मरणज्ञापकं यत् प्रत्यक्षं तस्यैव बाध्यत्वानुमितिर्जायत इत्यर्थः / नन्वेकबाधप्राप्तिरपि कुत इत्यत आह - न चेति मूलम् / तथा च [145 B] सामान्यतोदृष्टानु