________________ 290 ___ तत्त्वचिन्तामणिटिप्पनिका सुखबोधिंका आह - तर्कसहकृतादिति मूलम् / प्रमाणमाह - सामान्यत इति / अनयोरेकं बाध्यं विरुद्धार्थग्राहकत्वादिति सामान्यतोदृष्टमित्यर्थः / तथा च समान्यतोदृष्टमितीयं [144 B] जायमाना याऽनुमितिः सा परम्परया मरणज्ञापकं विषयीकरोति / परम्परा यथा गृहे एवेत्यादिकं यदि प्रत्यक्षप्रमाणं तदा गृहे एव स्थितस्य गृहादर्शनमनुपपन्नम्, तथा च देवदत्तो मृतो बहिरसत्त्वे सति गृहासत्त्वात् अनेनानुमानेन मरणमनुमीयते / तथा चानयोरेकं बाध्यं विरुद्धार्थत्वात् इति बाध्यत्वानुमितिः परम्परया विषयीक्रियते यतः प्रत्यक्षेणापि मरणं साक्षान्न विषयीक्रियते किन्तु देवदत्तो बहिरमत्त्वे सति गृहासत्त्वादित्यत्र मानद्वारा एव प्रत्यक्षं मरणं विषयीकरोति / एतावता प्रत्यक्षस्य परम्परया मरणज्ञापकतेत्युक्तम् / तथा च बाध्यत्वानुमितिः प्रत्यक्षमेव मरणज्ञापकमेव बाध्यत्वेन साधयति न तु ज्योतिःशास्त्रम् / उक्तमर्थमुपसंहरति - तथा चेति. मूलम् / गृहनियमग्राहकं(क)बाधे सति जीवनग्राहकप्रमाणाज्ज्योतिःशास्त्राल्लिङ्गविशेषणं यजीवित्वं तस्य निश्चये सति, ततः किमित्यत आह. - अनुमानादिति मूलम् / अनुमानं तु अग्रे दर्शयिष्यति / शङ्कते - नन्विति / अनुमानाद् बहिःसत्त्वज्ञानं न भवतीति प्रतिज्ञा / तत्र हेतुर्यथा अनुमानं तदा प्रवर्तते परम्परया मरणज्ञापकं यत् प्रत्यक्षं तस्य बाधे सति अनुमानं भवति देवदत्तो बहिरस्तीत्यादिकम् / प्रत्यक्षस्य मरणज्ञापकस्य यो बाधः स तु बहिःसत्त्वज्ञानेन विना न भवति / कुतः ? यतो जीविनो गृहासत्त्वं बहिःसत्त्वेन विनाऽनुपपन्नमित्यनुपपत्त्या बहिःसत्त्वे निश्चिते ततो बहिःसत्त्वविरोधिगृहनियमग्राहकं प्रत्यक्षं तदेव बाध्यते / अयं भावः - आदौ यद् बहिःसत्त्वज्ञानं तदर्थापत्त्या भवतीत्यर्थापत्तिः प्रमाणं सिद्धमित्यर्थः, प्रथमतः प्रत्यक्षस्य बाधो न भवति विरुद्धयोस्तुल्यत्वेन जागरूकत्वात्, यदा तुल्यबलयोर्जागरूकत्वं तदा चैकस्य प्रत्यक्षस्य बाधो नास्ति, एतद्बाधाभावे कथमनुमानात् पूर्वमेव बहिःसत्त्वज्ञानं भवतीत्यर्थः / एतदेवाह - बहिरित्यारभ्याशक्यत्वादितिपर्यन्तं मूलम् / ततः किमित्यत आह - प्रथममिति / अर्थापत्त्यैवेति शेषः / परमतं निराकरोति - नन्विति मूलम् / ततः किमित्यत आह - येनेति मूलम् / गृहनियमग्राहकप्रत्यक्षप्रमाणबाधानन्तरमनुमानान्न बहिःसत्त्वज्ञानम् उभयप्रमाणयोर्विरुद्धयोर्बलाबलानिरूपणात् प्रत्यक्षस्य बाध एव नास्ति, यतो बहिःसत्त्वज्ञानेनैव प्रत्यक्षस्य बाधः कर्तव्यः प्रथमतो बहिःसत्त्वज्ञानमर्थापत्त्यैवेति भावः / अत्र नैयायिकः शङ्कते - न चेति / तथा चार्थापत्त्यापि बहिःसत्त्वज्ञानं कथं कर्तव्यं विरोधिप्रमाणस्य गृहनियमग्राहकस्य जागरूकत्वात् / एवमर्थापत्त्यापि प्रथममनुमानात् बहिःसत्त्वज्ञानं [145 A] कर्तुं न शक्यते एवेति त्वत्पक्षेऽपि तुल्यो दोष इति वाच्यमित्यन्तेनान्वयः / समाधत्ते - तर्केति मूलम् / यद्यपि विरुद्धे जागरूके प्रमाणे विद्यमानेऽर्थापत्तेः प्रबलत्वं नास्ति तथापि तर्कसहकारेणार्थापत्तेबलवत्त्वम्, तर्को यथा मरणं वा कल्पनीयं बहिःसत्त्वं वा कल्पनीयमित्यादिलाघवरूपः इति। लाघवाख्यतर्कसहकृतयाऽर्थापत्त्या बहिःसत्त्वज्ञानं भविष्यतीत्यर्थापत्तिः प्रमाणमित्याशङ्कार्थः / नैयायिकः समाधत्ते - तर्केति मूलम् / यदि