________________ 288 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका मस्तीति न गृहाभावसन्देहोऽनुपपन्नः, तथा च सन्देहनिराकरणार्थं मूलकृता यदुक्तं गृहाभावसंशयनिराकरणार्थं तद् युक्तमेव / टीकायां यद् देवदत्तेति धृतं देवतद(तद् देवदत्ता)वयवेत्यत्र ग्रन्थस्थं ज्ञेयम् / ननु जीवनबाधे बहुतरव्याप्तिबाधः कथमित्यत आह - जीवनबाध इति / तथा च यदि जीवित्वं बाधितं तदा जीवित्वघटिता वर्षक्षणलवादिघाटिताः सर्वा व्याप्तयो बाधिता इत्यर्थः / इदमेवाह - तासामपीति टीका / तर्कान्तरमिति टीका / पूर्वमुक्तो यास्तार्को यथा देवदत्तगृहसत्त्वतदवयवव्याप्तिरल्पा, शतवर्षजीवनव्याप्तिर्बह्वीति तद्बाधो न युक्त इत्येकस्तर्कः / तस्मिन् तर्केऽभावरूपमरणापेक्षेत्यनुपयुक्तमित्यतस्तर्कान्तरमाहेत्यर्थः / ननु ततोऽर्थापत्तिकल्पितं जीवित्वमुपजीव्यानुमानाद् बहिःसत्त्वज्ञानमिति ग्रन्थेन प्राभाकरस्योक्तिर्नैयायिकं प्रति। तत्र एतावत्तर्कसहकृत उपसंहारोऽनुचितः / किञ्च बहिःसत्त्वज्ञानार्थमेवार्थापत्तिः स्वीक्रियते न तु जीवित्वज्ञानार्थम्, तथा च जीवित्वज्ञानार्थमर्थापत्तिस्वीकारोपवर्णने प्राभाकरस्यापसिद्धान्तो यतो जीवित्वज्ञानं ज्योतिःशास्त्रादेवेत्यतो व्याचष्टे - मरणेति टीका / एतावत्तर्कसहकृतेत्यस्य ग्रन्थस्य ततोऽर्थापत्तिकल्पितजीवित्वमिति नोपक्रमो येन पूर्वोक्तं दूषणं स्यात् / किन्तु योग्यानुपलिब्धनिश्चितो गृहाभाव इत्यारभ्य बहिःसत्त्वज्ञानं भविष्यतीतिपर्यन्तं तर्कशरीरमेव, तत्तर्कस्वरूपमेवैतावच्छब्देन परामृश्यते, एतदेवाह - तेनेति टीका / तथा च एतावतर्कसहकृतः संशयो बहिःसत्त्वं कल्पयतीति नोपक्रमोपसंहारविरोधः / अत्र देवदत्तेति टीका / ननु जीवननियमग्राहकमानयोरन्यतराभासत्वेन चेत् बहिःसत्त्वज्ञानमाभासरूपं तदा बहिःसत्त्वप्रमा कुत्रापि न स्यात् / यत्र शतवर्षजीवी बहिःस्थितो वर्तते तत्र गृहनियमग्राहकस्याभासरूपत्वात् बहिःसत्त्वज्ञानं प्रमा न स्यादित्यतो व्याचष्टे - अत्रेति टीका / अत्र जीवननियमग्राहकप्रमाणयोर्मध्ये यन्नियमग्राहकं प्रमाणं [144 A] तत् गृहे नास्तीत्येवं रूपं न तु गृह एवेत्यादिरूपम् / अत एव वस्तुगत्या जीवी गृहे वर्तते तत्र गृहाभावज्ञानानन्तरं यद् बहिःसत्त्वज्ञानं तद् भ्रमरूपमेव, न तु गृह एवेति नियमग्राहकस्य भ्रमरूपत्वे बहिःसत्त्वज्ञानस्य भ्रमरूपत्वं सम्भवति / यदि गृह एवेति ज्ञानं भ्रमरूपं तदा बहिःसत्त्वज्ञानं प्रमारूपमेवोत्पद्यते इति कृत्वा गृहे देवदत्ताभावग्राहकं यत् प्रमाणं तदेव नियमग्राहकम् एतदेवाह - तथा सतीति टीका / यदि गृहनियमग्राहकस्याभासत्वेन बहिःसत्त्वज्ञानस्याभासत्वं तदा बहिःसत्त्वप्रमा कुत्रापि न स्यात् येन यत्र बहिःसत्त्वप्रमा तत्र गृहसत्त्वग्राहकस्याभासत्वम्, तस्मानियमग्राहकशब्देन गृहेऽभावग्राहकं यत् प्रमाणं तदेव विवक्षितम् / तस्याभासत्वेन बहिःसत्त्वज्ञानमपि भ्रमरूपमेवेत्यर्थः / अथ यद्वेतीति ग्रन्थेन पूर्वापेक्षया भेदमाह - पूर्वमिति टीका / तथा च पूर्वं प्रमा प्रति दोषाभावो न कारणं किन्तु अतिरोहितप्रमाजनकशक्तिकस्य प्रमाकरणस्य प्रमाहेतुत्वमित्युक्तम्, यत्र गृहाभावग्राहकमाभासरूपं तत्र बहिःसत्त्वप्रमा प्रति करणस्य शक्तितिरोधानमेवेति प्रागुक्तम्, इदानीं तु दोषाभावस्यैव प्रमां प्रति हेतुत्वं यद्वेत्यादिना ग्रन्थेनाह / यद्विरहादिति टीका / दोषाभावविरहात् प्रमाविरह