________________ अर्थापत्तिनिरूपणम् 287 तथा च लाघवाख्यतर्कसहकारात् [143 A] या बाध्यत्वानुमितिः सामान्यरूपा सा गृहनियमग्राहकमेव प्रमाणं विषयीकरोति / तथा चानयोरेकं बाध्यमित्यनुमित्या नियमग्राहकबाधे विषयीकृते सति जीवित्वे निश्चिते योग्यानुपलब्ध्या च गृहाभावे निश्चिते सति अनुमानादेव बहिःसत्त्वज्ञानं जायते / अनुमानं यथा देवदत्तो बहिरस्ति जीवित्वे सति गृहनिष्ठात्यन्ताभावप्रतियोगित्वात् / अत्र गृहनिष्ठात्यन्ताभावस्तु योग्यानुपलब्धिसहकृतादेव निश्चितः, जीवित्वं तु नियमग्राहकप्रमाणबाधे सति ज्योतिःशास्त्रादेवेति हेतुमध्ये विशेषणविशेष्ययोनिर्णये सति हेतुर्निश्चित एवेति। अथ टीकाव्याख्या। ज्योतिरिति टीका / ज्योतिःशास्त्रात् देवदत्तस्य चैत्रेण शतवर्षजीवित्वमवधारितम् / अत्रानुपपत्तिर्यथा न हि ज्योतिःशास्त्रे देवदत्तनामपुरस्कारेण शतवर्षजीवित्वमुक्तमस्ति किन्तु तादृशग्रहविशेषा यजन्मनि स शतवर्षजीवीति व्याप्तिग्रहमात्रमित्यनुपपत्तिमाह - यद्यपीति / समाधत्ते - तथापीति / ज्योतिःशास्त्रवित्पुरुषो ज्योतिःशास्त्रपदेन कथं लब्ध इत्यत आह - ज्योतिःशास्त्रं ज्ञेयतया यस्येत्यर्थात् / तथा चायमर्थात् तादृशात् पुरुषाच्चैत्रेण देवदत्तस्य शतवर्षजीवित्वमवधारितमित्यर्थः / मतान्तरमाह - एतदस्वरसादिति / योग्यानुपलब्धेः गृहाभावं प्रति करणत्वानुपपत्तिः किन्तु गृहाभावनिश्चयं प्रत्येव तस्याः करणत्वमिति यथाश्रुतेऽनुपपत्त्याऽन्यथा व्याचष्टे - गृहाभावनिश्चयेति टीका / नियमद्वयेति टीका / शतवर्षजीवीत्येको नियमो जीवी गृह एवेत्यपरो नियम इत्यर्थः / मतान्तरमाह - तत्कथितेति टीका / देवदत्तः शतवर्षजीवी एवेत्येको नियमो ज्योतिःशास्त्रात् द्वितीयस्तु जीवी गृह एवेति नियमः प्रत्यक्षादिति पूर्वमते व्याख्यातम् / अत्र मते तु तत्कथितेत्यत्र ज्योतिःशास्त्रकथितं लिङ्गं रेखोपरेखादिकम्, तत्र शतवर्षजीवित्वस्य व्याप्तिरूपो नियमो यथा यस्य हस्ते तादृशरेखोपरेखादिकं स शतवर्षजीवीत्येको नियमः, प्रत्यक्षप्रमाणेन गृह एवेत्यपरो नियम इत्यर्थः / अयं भावः - पूर्वमतव्याख्याने एतद्देवदत्तस्य शतवर्षजीवित्वस्य नियमो विज्ञपुरुषादवगतः, एतद्व्याख्याने तु शतवर्षजीवित्वव्याप्यं यद् रेखोपरेखादिकं तेन सह देवदत्तस्य नियमो यथाऽयं देवदत्तः स शतवर्षजीवित्वव्याप्यरेखोपरेखादिमानेवेति व्याप्तिरूपः / ननु स्थाणुपुरुषसंशयादपि एककोटिनिश्चयः स्यादिति मूलमनुपपन्नम् / न हि संशयसामान्यस्य कल्पकत्वमुच्यते किन्तु यथोक्तसंशयस्यैव, तथा च स्थाणुपुरुषसंशयात् कथमेकतरकोटिनिश्चय इति [न] मूलमनुपपन्नमित्यत [143 B] आह - आशयमविद्वानिति टीका। तथा पूर्वोक्तयथोक्तसंशयस्यैव येन कल्पकत्वं नावधारितं तस्यैवेयमाशङ्केत्यर्थः / आशयमिति स्पष्टम् / ननु गृहाभावस्य विरोधिग्राहकाभावेन सन्देहप्रसक्तिरेव नास्ति यथा यदा स्थाणुत्वग्राहकं पुरुषत्वग्राहकं च यत्र, तत्र स्थाणुत्वसंशयविरोधिग्राहकसमवधानात् / तथा प्रकृतेऽपि गृहाभावविरोधिग्राहकाभावात् कथं गृहाभावसंशय इत्यतोऽन्यथा व्याचष्टे - न त्विति टीका। तथा चात्र गृहाभावस्य विरोधी गृहसत्त्वनियमग्राहकं प्रत्यक्षम्, तदेव विरोधिग्राहक