________________ 286 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका ना(वा)नुगृहीतस्य सहकृतस्य यदि बहिःसत्त्वप्रमाजनकत्वं तदा दूषणमाह - मृत इति / वस्तुगत्या मृतोऽस्ति गृहस्थितो वाऽस्ति, योग्यानुपलब्ध्या चं तस्य गृहाभावो निश्चितस्तदा संशये पूर्वोक्ते सति पूर्वोक्ततर्कसहकारिवशात् बहिःसत्त्वकल्पना वर्तते साऽपि प्रमा स्यात् सामग्रीतुल्यत्वात् / तदा मृते गृहस्थिते वा बहिःसत्त्वज्ञानं प्रमा स्यात् इत्याशङ्कार्थः / [142 B] समाधत्ते - यथेति / चक्षुरिन्द्रियात् घटज्ञानं प्रमा जायते, यदा दोषो नास्ति तदा तज्ज्ञानं प्रमारूपम्, दोषसद्भावे तु तज्ज्ञानं भ्रमरूपम्, तद्वत् अत्रापि यदा दोषो नास्ति बहिःसत्त्वज्ञानं प्रमारूपं जायते, सति दोषे तु भ्रमरूपम् / यस्तु मृतो गृहस्थितो वा तस्य बहिःसत्त्वज्ञानं येन दोषेण मृते शतवर्षजीवित्वज्ञानं भ्रमरूपं जातमस्ति तेनैव दोषेण बहिःसत्त्वज्ञानं संशयरूपार्थापत्तिसहकारिणा भ्रमरूपं जन्यते / एतदेवाह - प्रमापकस्येति / प्रमापकस्येति प्रमाजनकस्येन्द्रियस्य यथा दोषेण कृत्वा प्रमाजनकशक्तितिरोधानं . जायते ततश्चैन्द्रियको भ्रमो जायते तथाऽर्थापत्तिरूपो यो यथोक्तसंशयः तस्मात् संशयात् दोषसहकृतात् बहिःसत्त्वज्ञानं प्रमाजनकशक्तितिरोधानात् भ्रमरूपं जायत इत्यर्थः / ननु बहिःसत्त्वज्ञानं कथं भ्रमरूपं तन्मते भ्रमाभावादित्यत आह - अग्रहेति / तथा च यद्यपि प्राभाकरमते व्यधिकरणप्रकारको भ्रमो नास्ति तथापि असंसर्गाग्रहरूपो भ्रमस्तन्मतेऽपि तिष्ठत्येव / यथेदं रजतमित्यत्र चक्षुरिन्द्रियेण सारूप्यं वा शुक्तित्वाग्रहो वा दोषस्तत्सहकारिवशात् शुक्तौ रजतविषयको भ्रमो जन्यते। यत्र चासंसर्गाग्रहो यथा शुक्तौ रजतत्वस्यासंसर्गोऽस्ति तस्याग्रहोऽज्ञानम् अयमेव भ्रमः स यदा नास्ति तत्र रजते रजतप्रमा जायते / तेषां मते विद्यमानासंसर्गाग्रहस्यैव भ्रमत्वात् / शुक्तौ रजतत्वासंसर्गो विद्यमानोऽस्ति तस्याग्रह एव भ्रमः / यदा दोषो नास्ति तदा भ्रमो नास्ति किन्तु 'प्रमैवार्थाद(द्) [शुत्त्या(क्त्या) जायते / यदा तु दोषोऽस्ति तदाऽसंसर्गाग्रह इति / अत्राशङ्कते - परोक्षेति / तथा च परोक्षज्ञानानाम् अनुमित्युपमितिशब्दज्ञानानां जनकज्ञानस्य यथार्थत्वे यथार्थत्वनियमोऽयथार्थत्वे चायथार्थत्वनियमः, तथा च लाघवज्ञानस्य प्रमारूपत्वेन इदं परोक्षज्ञानं यद् वस्तुगत्या मृते बहिःस्थिते वा बहिःसत्त्वज्ञानं तदपि प्रमारूपं स्यादित्याशङ्कार्थः / समाधत्ते - प्रकृतेऽपीति / अत्रापि कारणीभूतज्ञानस्य जीवनग्राहकनियमग्राहकरूपस्यापि भ्रमरूपत्वात् इति कारणीभूतज्ञानस्य भ्रमत्वे कार्याभूतज्ञानस्यापि भ्रमत्वमेव सिद्धम् / यद्वेति / दोषाभावसहकृतः संशयो बहिःसत्त्वप्रमापकः / प्रकृते च मरणाज्ञानरूपो दोषस्तिष्ठतीति न बहिःसत्त्वज्ञानं प्रमेत्यर्थः / सिद्धान्तमाह - अनयोरिति / जीवनग्राहकं प्रमाणं शतवर्षजीवित्वग्राहकं प्रमाणं ज्योतिःशास्त्रं नियमग्राहकं च प्रमाणं प्रत्यक्षम् अनयोर्मध्ये एकं बाध्यं विरुद्धार्थग्राहकत्वात् स्थाणुत्वग्राहकपुरुषत्वग्राहकप्रमाणवत् इति सामान्यतोदृष्टानुमानम् / तथा चानयोर्मध्ये एकं बाध्यम् / अतः परं किं बाध्य तदर्थं तर्कावतारो यथा जीवनग्राहकबाधे उभयोः बाधः, गृहनियमग्राहकबाधे तु एकस्यैव प्रत्यक्षस्य बाधः / 5. प्रमैवार्थाद(प)त्त्या जायते (?) /