________________ अर्थापत्तिनिरूपणम् 285 - एतावत्तर्केति मूलम् / तथा च यथोक्तसंशयोऽर्थापत्तिरूपः करणम्, बहिःसत्त्वज्ञानं फलम्, निर्व्यापारस्यापि करणत्वात् इति सिद्धम् / अत्र शङ्कते - न चेति / तर्काश्चेत् विपर्ययापर्यवसायिनः तदाऽसत्ता एव / यथा पर्वतो वह्निमान् धूमात् इत्यत्र धूमोऽस्तु वह्निर्मास्तु इत्यप्रयोजकत्वाशङ्कायां तर्को दीयते यथा वह्नयभावे धूमो न स्यादिति / एतस्य तर्कस्य ह्रदादावधिकरणेऽसत्तर्कत्वम् यदि हृदेऽधिकरणे उच्यते वन्यभावे धूमो न स्यादिति तदा वादिन इष्टापत्तिः / अतस्तस्य विपर्ययापर्यवसायित्वम्, धूमो नास्तीति तर्कस्तस्य विपर्ययो धूमो वर्तते इति रूपः तस्य ह्रदादावधिकरणेऽभावात् विपर्ययापर्यवसायित्वं तर्कस्य वर्तते च। धूम इत्येवं रूपं विपर्ययपर्यवसानं पर्वत एव कर्तुं शक्यते परं हृदे कर्तुं न शक्यते इति ह्रदे स विपर्ययापर्यवसायीति [142 A] असत्तर्कः / एवं प्रकृतेऽपि अयं पूर्वोक्तस्तों यदि विपर्ययापर्यवसायी तदाऽसत्तर्क एव, यदि च विपर्यायापर्यवसायी तदा तदेव व्यतिरेक्यनुमानम्, तस्मादेव बहिःसत्त्वज्ञानं भविष्यति किमर्थापत्त्या / इदमेव विकल्पद्वयेनाह - विपर्ययापर्यवसायित्व इति मूलम् / तदुक्तं व्याप्तिस्तर्काप्रतिहतिरवसानं विपर्यये / व्याप्तिर्याऽस्ति सा तर्कस्याप्रतिहतिस्तया तर्कस्य घातः कर्तुं न शक्यते / तस्य तर्कस्य विपर्यये पर्यवसानं विपर्ययो वर्तते इति / विपर्ययस्य सिद्धवत् कार्य एव पर्यवसानमिति / इदमेवापेक्षितम् / यदि तर्के विपर्ययपर्यवसानं नास्ति तदा सोऽसत्तर्क एव / तथा च विपर्ययापर्यवसायित्वं प्रथमः पक्षः / द्वितीयस्तु विपर्ययपर्यवसायित्वम् / तत्राह - तत्पर्यवसान इति / समाधत्ते - यत इति / यतो विपक्षबाधकतर्कस्यैव विपर्ययपर्यवसानम् / नन्वन्येषां तर्काणां लाघवगौरवतर्काणां विपर्ययापर्यवसायिनामेव सत्तर्कत्वम् / अत्रैव युक्तिमाह - अत एवेति / यतो लाघवगौरवाख्यस्तर्को विपर्ययापर्यवसाय्येव सतर्कः अत एव प्रत्यक्षे कारणताप्रत्यक्षे शब्दे शाब्दबोधस्थलेऽपि यत्र तर्कः सहकारी तत्र विपर्ययापर्यवसाय्येव तर्कः / यथा प्रत्यक्षे कारणताग्रहे दण्डाभावाभावत्वेन दण्डत्वेन वा कारणताग्रहस्तत्र लाघवाख्यतर्कसहकारित्वात्, दण्डत्वेन वा कारणताग्रहस्तत्र साध्यहेत्वाद्यभावात् / कुत्र विपर्ययापर्यवसायित्वं शाब्दबोधे ? गङ्गायां घोष इत्यादौ इति, अत्र सन्निहितस्य घोषस्य गङ्गाधारत्वं वक्तव्यम् असन्निहितस्य वा ? लाघवात् सन्निहितस्यैवेति / विपर्ययापर्यवसायी लाघवाख्यतर्को भिन्न एवेति। तथा च तस्य विपर्ययापर्यवसायित्वेऽपि सत्तर्कत्वं सिद्धम् / एवं प्रकृतेऽपि विपर्ययापर्यवसायिनोऽपि लाघवाख्यस्य तर्कस्य सत्तर्कत्वमेव / ननु एतादृशतर्कसहकृतात् प्रमाणान्तरादेव बहिःसत्त्वज्ञानं भविष्यति किमर्थापत्त्येत्यत आह - न चेति / यदा संशये सति तर्कावतारो भवति तस्यां दशायां प्रमाणान्तरं तु नास्त्येव प्रत्यक्षानुमानाद्यभावात् अर्थापत्तिप्रमाणस्यैव तर्कः सहकारीत्यर्थापत्तिरेव तत्र प्रमाणम् / नैयायिकः शङ्कते - नन्विति / स्वकारणेति / स्वकारणेति स्वशब्देन संशयः, तस्य कारणानि गृहाभावनिश्चयानन्तरं प्रमाणद्वयविरोधज्ञानादीनि, तत्स्वभावविशेषादुत्पन्नस्य संशयस्य तर्केण पूर्वोक्तप्रणालिकारूपेणो[प]क्त(कृत)स्य