________________ 284 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका ज्ञाना(न)मात्राधीनज्ञानाभावो लघुरेवेत्याशङ्कार्थः / समाधत्ते - तथापीति / मरणापेक्षया जीवनमात्रं लघु इति तस्यैव कल्पना योग्या / कथमिति जीवनकल्पनेऽल्पबाधः मरणकल्पने पूर्वोक्तबहुतरव्याप्तिबाधः / बहिःसत्त्वकल्पने तु व्याप्तिद्वयस्यैव बाध इति भावः / तथा च गृहाभावज्ञानानन्तरं विरोधज्ञाने जाते सति प्रमाणद्वयसन्देहात् नियमद्वयसन्देहे लाघवाख्यतर्कसहकारिवशात् अर्थापत्तिप्रमाणेनैव जीवित्वं कल्पयति / एवं सति स पुरुषो यथा लाघवाख्यतर्कसहकारिवशात् जीवित्वं कल्पयति / एवं सति मया प्राभाकरेण यदि पुरुषस्य बहिःसत्त्वज्ञानं जायते तदपि तादृशार्थापत्त्या लाघवाख्यतर्कसहकारिवशात् जायते इति नैयायिकं प्रत्येवं साध्यते / यत् चैत्रपुरुषस्य बहिःसत्त्वज्ञानं जायते तदर्थापत्त्यैव जायते / इदं यत् तत् तर्कसहकृतयाऽर्थापत्त्यैव जायते। अयमत्राशयः / प्राभाकरेण नैयायिकं प्रत्युच्यते - चैत्रस्य पूर्वोक्तसंशयानन्तरं यद् देवदत्तविषयकं बहिःसत्त्वज्ञानं जायते तदर्थापत्त्यैव जायते। अर्थापत्त्या कथं तज्जायते ? तत्र चैत्रस्य देवदत्तबहिःसत्त्वज्ञाने पूर्वोक्ततर्कसहकृता यादृशी प्रणाली तत्कथनेन, तामेव निरूपयति पूर्वोक्तयोग्यानुपलब्ध्येत्यारभ्य एतावतर्कपर्यन्तम् / अत्र प्रणाली कीदृशी तर्कश्च कीदृश इत्युच्यते / प्रणाली यथा देवदत्तः शतवर्षजीव्येवेत्येको नियमः शतवर्षजीवी गृह एवेत्यपरो नियमः इति नियमद्वयदर्शनानन्तरं पश्चात् योग्यानुपलब्ध्या गृहाभावो निश्चितः [141 B], तदनन्तरमुभयोः प्रमाणयोर्विरोधज्ञाने जाते सति पश्चाद् इदं वा प्रमाणमिदं वेति प्रमाणद्वयविषयकः संशयः, तदनन्तरं शतवर्षजीव्येव न वेति गृह एव न वा इति सन्देहो जायते, सन्देहे जाते सति विरुद्धग्राहकयोरुभयोः स्थाणुत्वग्राहक-पुरुषत्वग्राहकयोरिव विरुद्धयोः प्रमाणत्वं नास्ति इति कृत्वा कस्य बाधः कर्तव्यो जीवनग्राहकस्य वा बाधो गृहसत्त्वग्राहकस्य वा बाधः इत्युभयप्रमाणयोर्बाधे प्रसक्ते तर्कावतार: यदि जीवनग्राहकस्य बाधः कल्प्यते तदा गृहसत्त्वनियमग्राहकस्यापि बाधः स्यात् जीवित्वरूपविशेषणबाधेन विशिष्टस्यापि बाधात् / यदि गृहसत्त्वनियमग्राहकं बाधितं तदा गृहसत्त्वनियमग्राहकस्यैव बाधः न तु जीवनग्राहकस्येति / अथ च जीवनग्राहकप्रमाणस्य विषयो जीवित्वं गृहनियमग्राहकस्य विषयो गृहसत्त्वम्, तथा च बहिःसत्त्वे कल्पिते गृहसत्त्वाग्राहकास्य बाध: मरणे कल्पिते जीवनग्राहकस्य बाधो गृहसत्त्वग्राहकस्यापि बाधः इति गौरवं पूर्वमुक्तम् / अथ च बहिःसत्त्वापेक्षया मरणं गुरुभूतम् अभावघटितत्वात् / मरणकल्पने बहुतरव्याप्तिबाधोऽपि स्यात् / बहिःसत्त्वं कल्पयित्वा संशयोऽपनेतव्यः किं वा जीवित्वं कल्पयित्वा जीवित्वलिङ्गकानुमानेन बहिःसत्त्वं कल्पयेत् / तस्य पुरुषस्य मनस्येवं वर्तते - येन प्रमाणेन लाघवाख्यतर्कसहकारिवशात् जीवित्वं कल्पितं वर्तते तेनैव प्रमाणेन लाघवाख्यतर्कसहकारिवशात् बहिःसत्त्वं कल्पयति, किमर्थं जीवित्वं कल्पयित्वा जीवित्वलिङ्गकानुमानेन बहिःसत्त्वं कल्पनीयम्, तस्मात् लाघवाद् बहिःसत्त्वमेव कल्पयितुमुचितम् / एतावान् यस्तर्कः पुरुषस्यावतरति यस्य बहिःसत्त्वज्ञानं कल्पयितुमुचितम् / एतदेव प्राभाकरो नैयायिकं प्रत्युपसंहरति