________________ अर्थापत्तिनिरूपणम् 283 प्रत्यक्षप्रमाणं तत् बाध्यताम्, अनयोर्बाधने कुत्र लाघवं कुत्र गौरवमिति विमर्श तत्रैव बाधकल्पनमुचितं यस्मिन् कल्पिते सति उभयोर्बाधो न भवति किन्तु एकस्यैव बाधः, उभयबाधकल्पनापेक्षया एकत्र बाधकल्पने लाघवमुभयत्र बाधकल्पने गौरवमिति, एवं बहिःसत्त्वे कल्पिते गृहसत्त्वनियमग्राहकं यत् प्रत्यक्षप्रमाणं तस्यैव बाधो भवेत्, मरणकल्पने तु शतवर्षजीवी देवदत्तः शतवर्षजीवी गृह एवेति नियमद्वयं बाधितं स्यात् / एको नियमः शतवर्षजीव्येवेति रूपो द्वितीयस्तु नियमः शतवर्षजीवी गृह एवेति रूपः, अतो यदि मरणं कल्पितं तदा शतवर्षजीव्येवेति नियमो भग्नः शतवर्षजीवी गृह एवेत्यपि द्वितीयोऽपि नियमो भग्नः यतः शतवर्षजीवित्वस्योभयत्रापि प्रवेशः, तथा च नियमद्वयं मरणकल्पने बाधितं स्यादिति / तदिहेत्यारभ्य नियमद्वयस्यापि बाधः स्यादित्येतावत्पर्यन्तं ग्रन्थार्थः सम्पन्नः / अत्रार्थे संमतिमाह - तदुक्तमिति मूलम् / जीवनबाधेति मूलम् / तथा च मरणकल्पने नियमद्वयस्य बाधः स्यात्, शतवर्षजीव्येवेति एको नियमः शतवर्षजीवित्वविशिष्टो गृह एवेति द्वितीयो नियमः, इति नियमद्वयस्यापि बाध: स्यादित्यर्थः / मरणकल्पने दूषणान्तरमाह - किञ्चेति / अद्य जीवतीत्यादिना मरणकल्पने बहूनां व्याप्तीनां बाधः स्यादित्याह - अद्येति मूलम् / अद्य जीवतीत्यत्र अद्यतनो दिवसः / श्वो जीविष्यतीत्यनेन श्वस्तनो दिवसः / एवं प्रहर-काल-घटिका-मेष-निमेषादिबहुतरक्षणलव-मुहूर्तसमयोपाधिव्याप्त्या जीवनमुपलब्धम् / तथा च ज्योतिःशास्त्रादेतादृशी व्याप्तिर्गृहीतास्ति / यदा यदाऽद्यतनो दिवसस्तदा तदा देवदत्तस्य जीवित्वम्, यदा यदा श्वस्तनो दिवसस्तदा तदा देवदत्तस्य जीवित्वमित्यादि बोद्धव्यम् / तथा च जीवनबाधे मरणकल्पने तावतीनां व्याप्तीनां बाधः स्यादिति बहुव्याप्तिबाधः / एतदेवाह - तद्बाधे इति / जीवनबाधे इत्यर्थः / अद्यतनेत्यादिबहुतरव्याप्तिबाधः स्यादित्यर्थः / जीवनग्राहकप्रमाणबाधापेक्षया गृहसत्त्वग्राहकप्रमाणबाधे [141 A] लाघवमाह - देवदत्तेति मूलम् / तथा च जीवनग्राहकप्रमाणबाधे शतवत्सरपर्यन्तं तावत्कालोपाध्याद्यगणितजीवनव्याप्तिबाधः स्यात् / गृहसत्त्वनियमप्रमाणबाधे तु देवदत्तगृहसत्त्वनियमो देवदत्तावयवगृहसत्त्वनियमश्चेति द्वयमेव बाधितं न त्वगणितव्याप्तिबाधः, तथा च यदा यदा देवदत्तस्तदा तदा गृह एवेत्येकः, यदा यदा देवदत्तावयवा हस्तादयस्तदा तदा गृह एवेति द्वितीयो नियमः इति लाघवम् / युक्त्यन्तरमप्याह - तथेति / तथाऽभावरूपमरणापेक्षया भावरूपं बहिःसत्त्वमेव लघु / अभावस्य प्रतियोगीज्ञानाधीनज्ञानत्वेन विलम्बोपस्थितिकत्वादितिभावः / अत्राशङ्कते - यदि चेति मूलम् / बहिःसत्त्वनिर्वचनं यथा गृहेति / गृहस्यान्योन्याभावो यथा आपणादि गृहं नेति / बहिरिति स्वरूपकथनमात्रम् / वस्तुगत्याऽन्योन्याभावाश्रया ये पदार्थास्ते सर्वेऽपि बहिःशब्दवाच्याः / गृहशब्देन गृहान्तर्वति यावत् तावत् विवक्षितम् / तथा च प्रतियोगिको योऽन्योन्याभावस्तदाश्रया ये पदार्थास्तवृत्तिः संयोगोऽर्थात् पुरुषादेस्तदाश्रयत्वं बहिःसत्त्वं तद् गुरुभूतम् अनेकपदार्थतावत्संयोगाश्रयघोटतत्वात् / तदपेक्षया प्रतियोगि