________________ 282 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका एव जीवनसंशयः करणं कल्पनीयमित्यत आह - एवं चेति मूलम् / तथा च न जीवनसंशयः करणमनुमानेनैव बहिःसत्त्वकल्पनं भविष्यतीति भावः / अनुमानमाह - देवदत्त इति मूलम् / देवदत्तः पक्षः, बहिःसत्त्वमिति साध्यम्, जीवित्वे सतीति विशेषणम्, मृतदशायामपि गृहनिष्ठात्यन्ताभावप्रतियोगित्वाभावः / यथा मृते बहिःसत्त्वाभावोऽपि वर्तते [तथा] जीवित्वविशिष्ट(ष्टे) गृहा(ह)सत्त्वाभावोऽपि वर्तते इति व्यतिरेकिणैव बहिःसत्त्वज्ञानं भविष्यति नार्थापत्त्या / ननु लिङ्गविशेषणं यज्जीवित्वं तन्निश्चयविरहदशायामपि बहिःसत्त्वज्ञानं वर्तते इति कृत्वा बहिःसत्त्वज्ञानं प्रति नानुमानं प्रमाणं लिङ्गस्य सन्दिग्धत्वात् इत्यत आह - जीवित्वसंशय इति मूलम् / तथा च जीवित्वसंशयदशायां बहिःसत्त्वनिश्चयो नास्ति यदा च जीवित्वनिश्चयस्तदैव 'बहिःसत्त्वकल्पनेति बहिःसत्त्वज्ञानं प्रत्यनुमानमेव प्रमाणम् / अर्थापत्तौ दूषणान्तरमाह- किञ्चेति मूलम् / यदि च गृहाभावनिश्चयः करणं तदापि बहिःसत्त्वज्ञानं प्रति करणत्वं तस्यानुपपन्नमित्याह- प्रमाणद्वयेति मूलम् / तथा च गृहाभावनिश्चयेन प्रमाणद्वयविषयकः संशयो जनयितव्यः, प्रमाणद्वयविषयकसंशयेन जीवनसंशयः कर्तव्यः, ततस्तत्संशयानन्तरं बहिःसत्त्वकल्पनं तच्चायुक्तमित्याह - न हीति मूलम् / यत एव निश्चितात् गृहाभावात् पश्चात् प्रमाणद्वयविषयकसंशयात् जीवी न वा गृहे बहिर्वा इति जीवनबहिःसत्त्वविषयकः संशयो जायते / तथा च बहिःसत्त्वे संशयकारणीभूतस्य गृहाभावनिश्चयस्य संशयजनकत्वे न बहिःसत्त्वरूपनिश्चयजनकत्वं यतः संशयसामग्रीतो निश्चयजनिका काचित् सामा यधिका वक्तव्या, न हि यया सामा या संशयस्तयैव तनिश्चयः, अन्यथा निश्चयस्य संशयात्मकतैव स्यादित्यर्थः / अन्यथाऽतिप्रसङ्गादिति मूलम् / यदि संशयसामग्रीत एव निश्चयः स्यात् तदा विशेषदर्शनविरहेऽपि स्थाणुपुरुषसंशयसामग्रीतोऽपि स्थाणुपुरुषयोरेकतरनिश्चयः स्यादित्यतिप्रसङ्ग इत्यर्थः / प्राभाकरः समाधत्ते - मैवमिति / मया केवलं संशयमात्रान्न निश्चय इत्युच्यते किन्तु तर्कसहकारिवशात् संशयेन बहिःसत्त्वनिश्चयो जन्यते / एतदेवाह - यथोक्तेति मूलम् / यादृशतर्कसहकारिवशात् संशयेन बहिःसत्त्वनिश्चयो जन्यते तादृशं तर्कमुदाहरति योग्यानुपलब्धीत्यारभ्य न भविष्यतीत्यन्तेन ग्रन्थेन / अत एव अग्रे वदिष्यति - एतावत् तर्कसहकृत इति / तथा च यथोक्तसंशये सति यत्र बहिःसत्त्वनिश्चयो जायते तत्र कीदृशस्तर्को यस्य बहिःसत्त्वनिश्चयो [140 B] जायते, तस्यावतरति योग्यानुपलब्ध्यादि / अस्ति इदं च प्रमाणद्वयं विरुद्धम्, ततो विरुद्धयोः प्रमाणत्वं नास्तीत्येकस्याप्रमाणत्वं वक्तव्यम् / तत्र किमप्रमाणमित्याह - तदिहेति मूलम् / पुरुषस्य तर्कस्फुरणमाह - योग्यानुपलब्ध्येति / यथोक्तसंशयानन्तरं पुरुषस्य मनस्येवं विचारो भवति / यथाहि गृहाभावस्तु मया निश्चितो मरणं कल्पयित्वा जीवनग्राहकं ज्योतिःशास्त्रं बाध्यतां किं वा बहिःसत्त्वं कल्पयित्वा गृहसत्त्वनियमग्राहकं यत् 5. ज्योतिःप्रामाण्यावधारणे एव इति प्रतौ टिप्पणी।