________________ अर्थापत्तिनिरूपणम् 281 अस्ति तदा भ्रमरूपं बहिःसत्त्वकल्पनमपत्त्यैव / एतेन स्थाणुपुरुषसंशयस्याप्येकतरनिश्चायकत्वं संशयत्वाविशेषादित्यपास्तम् / स्थाणुपुरुषसंशयस्य संशयत्वाविशेषेऽपि पूर्वोक्तयथोक्तसंशयत्वाभावान्नैकतरकल्पकत्वमित्यग्रे वक्ष्यमाणत्वात् / एतदेवाह - न यथोक्तेति मूलम् / तथा च मृतस्थले यथोक्तः तादृशसामग्रीप्रभवः संशयो नास्तीति न बहिःसत्त्वकल्पनम् / उपलक्षणमेतत् / यदि च नियमद्वयसामग्रीप्रभवः संशयो वर्तते तदा लाघवाख्यतर्कसहकारिवशात् बहिःसत्त्वज्ञानं भ्रमरूपं भवत्येवेति / ननु गृहाभावः करणम्, संशयो व्यापारः, बहिःसत्त्वज्ञानं फलमिति त्वयोक्तं तर्हि निश्चितो गृहाभावः करणम्; गृहाभावस्य निश्चय एव नास्ति यतो नियमद्वयग्राहकविरोधेन [139 B] गृहाभाव एव सन्दिग्धो यथा ज्योतिःशास्त्रेण मया शतवर्षजीवित्वमेव निर्णीतं प्रत्यक्षेण प्रमाणेन च गृहसत्त्वमपि निर्णीतं तथा च विरोधिद्वयस्य विद्यमानत्वात् गृहाभावनिश्चयो भवितुं नाहतीत्याशझ्याह - गृहाभावश्चेति मूलम् / तथा च योग्यानुपलब्धिरूपबलवत्सहकारिवशात् गृहाभावनिश्चयो भवत्येव / नियमद्वयज्ञानं प्रतिबन्धकमेव न भवतीति भावः / शङ्कते - अथेति मूलम् / जीवनग्राहकं ज्योतिःशास्त्रं नियमग्राहकं च प्रत्यक्षम् अनयोस्तुल्यबलत्वमवगतम्, यदि तुल्यबलत्वमवगतं तदा बहिःसत्त्वकल्पनैव न स्यात् / पूर्वोक्तोभयोर्मध्ये एकतरस्मिन् विशेषदर्शनविरहात् / यथा एकस्मिन् धर्मिणि पुरोवर्तिनि स्थाणुत्वव्याप्यवक्रकोटरादिदर्शनत्वमपि जातं पुरुषत्वव्याप्यकरादिमत्त्वदर्शनमपि भ्रमरूपं जातं तदोभयोस्तुल्यबलत्वज्ञाने एकतरनिर्णयो न भवति तद्वत् प्रकृते उभयोस्तुल्यबलत्वज्ञाने विशेषदर्शनविरहात् एकतरनिश्चयो न जायते, तथा च बहिःसत्त्वकल्पनं न भवतीति / अथ यदि विशेषदर्शनविरहेऽपि उभयोः ज्योतिःशास्त्रनियमग्राहकप्रमाणयोरेकतरस्य बलवत्त्वरूपविशेषदर्शनाभावे चेत् बहिःसत्त्वकल्पना तदा जीवननिर्वाहकबहिःसत्त्वकल्पनवत् गृहसत्त्वनियमनिर्वाहकमरणस्याप्युचितत्वेन ज्योतिःशास्त्रस्याप्रमाणत्वेन मरणकल्पनापि स्यादित्युभयोरविशेषात् कथं बहिःसत्त्वं कल्पनीयमिति भावः / अत्रैवानुकूलतर्कमाह - जीवनेति मूलम् / बहिःसत्त्वमरणयोः संशयस्य कल्पकत्वेनाविशेषादित्यर्थः / तथा च शतवर्षजीवी न वा शतवर्षजीवी गृहे न वेति संशयात् यथा बहिःसत्त्वं कल्प्यते तथा मरणमेव कुतो न कल्प्यते, तथा च ज्योतिःशास्त्रमपि बाध्यं स्यादित्यर्थः / एवमनयोस्तुल्यबलत्वं नावगतं किञ्चैकत्र प्रबलत्वमपरत्र दुर्बलत्वमिति पक्षं दूषयति - अथेति मूलम् / एकं बलवत् द्वयोर्मध्येऽपरं दुर्बलं तदा तु संशय एव न भवत्येकस्य निश्चयात् / तदा च संशय एव चेन्नास्ति संशयस्य बहिःसत्त्वकल्पकत्वं गतम् / एतदेवोपसंहरति - तस्मादिति मूलम् / ज्योतिःशास्त्रेण शतवर्षजीविता यदि निश्चिता गृहाभावश्च प्रत्यक्षेण निश्चितः तत्रैव बहिःसत्त्वकल्पनं वक्तव्यम्, तत्र बहिःसत्त्वज्ञाने संशयः करणं भवितुं नार्हति / कुतः ? एकेन ज्योतिःशास्त्रेण बलवत्प्रमाणेन जीवित्वस्य निश्चयात् जीवनसंशय एव नास्तीति संशयाभावे संशयस्य प्रमाणता एव न भवतीति / ननु बहिःसत्त्वज्ञानान्यथानुपपत्त्या [140 A]