________________ 280 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका च जीवित्वं यदि प्रमितं तदा स जीवति न वेति जीवित्वस्य संशय एवानुपपन्नो न हि निश्चितस्य पदार्थस्य संशयः सम्भवति, तथा च जीवितसंशयः प्रति(प्रमित)संशयः स्थाणुपुरुषसंशयोऽप्रति(ऽप्रमित)संशय इत्यनयोर्विशेषात् / दूषणान्तरमप्याह - जीवित्व इति / यदि जीवित्वं प्रमितं निश्चितं तदा देवदत्तो बहिरस्ति जीवित्वे सति गृहेऽसत्त्वादित्यत्रानुमानेनैव बहिःसत्त्वसिद्धेः किमर्थापत्त्या इत्यर्थः / ननु यदाकदाचित् प्रमितत्वमपेक्षितं न तु तस्मिन् काले इति चेत् तदा पुरुषत्वमपि यदाकदाचित् प्रमितं वर्तते एवेति तस्यापि पुरुषत्वसंशायस्याप्येककोटिनिश्चायकत्वं स्यात्, तथा च प्रमितसंशयः कल्पनाङ्गं न भवतीत्युक्तम् / दूषणान्तरमाह - किञ्चेति मूलम् / यदि शतवर्षजीवी न वेति संशयस्य बहिःसत्त्वनिश्चायकत्वं तदा मृतेऽपि देवदत्ते जीवनसंशयस्य दृष्टत्वात् वस्तुगत्या मृतोऽस्ति तत्रापि जीवति न वेति संशयस्य सत्त्वात् बहिःसत्त्वस्य व्यभिचारीति स संशयः यत्र बहिःसत्त्वं नास्ति / तथा च कल्प्यकल्पकयोरयं व्यभिचारो वक्तव्यः यथा यत्र कल्पकं तत्रावश्यं कल्प्यं यत्र [139 A] धूमस्तत्र वह्निरवश्यं कल्प्यः, तद्वत् प्रकृते मृते जीवनसंशयस्तिष्ठति बहिःसत्त्वं कल्प्यं नास्तीति व्यभिचारः / समाधत्ते प्राभाकरः - यथोक्तेति मूलम् / तथा च न केवलं जीवनसंशयमानं किन्तु यथोक्तसामग्रीप्रभवः संशयः कल्पको बहिःसत्त्वस्य / तथाहि यथोक्तसंशयो नाम नियमद्वया(य)संशयाहितो जीवनसंशयः / नियमद्वयं च शतवर्षजीव्येव देवदत्तः इत्येको नियमः, द्वितीयो यथा जीवी देवदत्तो गृह एवेति रूपः / तद् नियमद्वयं ज्योतिःशास्त्रप्रत्यक्षप्रमाणाभ्यां गृहीतम्, तद्ग्रहणानन्तरं पश्चाद् गृहगतेन योग्यानुपलब्ध्या गृहाभावो निश्चितः / पश्चात् योग्यानुपलब्ध्या गृहाभांवस्तु निश्चितो वर्तते / तथा च गृहनिष्ठात्यन्ताभावप्रतियोगिनो देवदत्तस्य बहिःसत्त्वं यावत्पर्यन्तं कल्पितं नास्ति तावत्पर्यन्तं गृहनिष्ठात्यन्ताभावप्रतियोगिनि देवदत्ते यदि गृहसत्त्वनियमश्चेत् तर्हि शतवर्षजीवीत्वमनुपपन्नं किन्तु मरणमेव, यदि च शतवर्षजीवित्वनियमस्तदा गृहसत्त्वनियमोऽनुपपन्नः किन्तु बहिःसत्त्वमेव भविष्यति इति द्वयोर्विरुद्धत्वज्ञानात् बलाबलत्वज्ञानविरहदशायां शतवर्षजीव्येव न वा जीवी गृह एव न वेति समूहालम्बनरूपः संशयो जायते, तेन संशयेन बहिःसत्त्वं कल्प्यते निश्चीयते / अत एव पूर्वोक्तदोषो मृते जीवनसंशयो बहिःसत्त्वकल्पनव्यभिचारीतिरूपो न लगति इत्याह - अत एवेति मूलम् / अयमाशयः - न हि बहिःसत्त्वाव्यभिचारित्वेन ज्ञातस्य संशयस्य बहिःसत्त्वकल्पनाङ्गत्वं किन्तु यथोक्तसामग्रीप्रभवसंशयस्य बहिःसत्त्वकल्पकत्वं लाघवात् / वस्तुगत्या मृते यथोक्तसंशयो नास्तीति कृत्वा बहिःसत्त्वं न कल्प्यते / यदि च तत्रापि यथोक्तसंशयस्तदा तत्रापि बहिःसत्त्वकल्पना भ्रमरूपा भवत्येव / यथा धूलिपटले व्याप्त्यादिमत्तया धूमत्वप्रकारकज्ञानमेव नास्तीति वह्नयनुमितिस्तेन नोत्पद्यते / यदि च धूलिपटलेऽपि व्याप्त्यादिमत्तया धूमत्वप्रकारकं ज्ञानं तदा भ्रमरूपा वह्नयनुमितिर्जायते / तद्वत् वस्तुगत्या मृते यथोक्तः संशय एव नास्ति तेन न बहिःसत्त्वकल्पनम्, यदि वा