________________ अर्थापत्तिनिरूपणम् 279 गृहाभावः करणम् / पूर्वं देवदत्तविषयकं गृहाभावज्ञानं जायते, पश्चात् शतवर्षजीव्येव न वा गृहे एव न वेति संशयः समूहालम्बनरूपो व्यापारः / फलं तु बहिःसत्त्वकल्पनं बहिःसत्त्वनिश्चयः इति / तथा च बहिःसत्त्वप्रमाकरणमर्थापत्तिरूपमेव प्रमाणमित्यर्थः / अथाविलम्बेन क्रियोत्पादकं करणमित्याशयेनाह - नियमद्वयेति / तथा चोक्तनियमद्वयविषयकः संशय एव करणम् / ननु एतस्य व्यापाराभावात् कथं करणत्वमित्यत आह - करण इति मूलम् / तथा च न व्यापारवत्त्वं करणत्वं किन्तु अविलम्बेन क्रियोत्पादकत्वमेव करणत्वम्, तथा च नियमद्वयसंशयस्यापि अविलम्बेन बहिःसत्त्वज्ञानोत्पादकत्वात् करणत्वं सम्भवत्येव / तथा च करणलक्षणमविलम्बेन कार्योत्पादकत्वं न तु व्यापारवत्त्वमिति सिद्धम् / व्यापारवत्करणत्वमिति मताभिप्रायेणाह - प्रमाणयोरिति / ज्योतिःशास्त्रं प्रमाणं नियमग्राहकं च प्रमाणमित्यनयोर्विरोधज्ञानं यद् गृहाभावनिश्चयानन्तरं जायते तदेव करणम्, विरोधज्ञानोत्तरकालीनो यः संशयो नियमद्वयविषयकः स व्यापारः, फलं तु बहिःसत्त्वज्ञानमेवेति व्यापारवत्करणत्वमपि सम्भवति / अत्र मतरीतिरेतादृशी यथा नैयायिकमते 'ज्ञायमानकरणतावादिमते ज्ञायमानं धूमादिकमेव करणम्, केषाञ्चिन्मते व्याप्तिमत्तया धूमज्ञानमेव करणम्, केषाञ्चिच्च मते चरमकारणं परामर्शः [138 B] स एव करणं न तु धूमज्ञानम् / तद्वत् अत्र मतत्रयेऽपि ज्ञायमानकरणतावादिनां मते ज्ञायमानो गृहाभावः करणम्, ज्ञानकरणत्ववादिनां मते प्रमाणयोर्विरोधज्ञानमेव करणम्, चरमकारणत्ववादिनां मते नियमद्वयविषयकः संशयः करणमिति न्यायोक्तमतवदत्रापि व्यवस्था / ननु बहिःसत्त्वज्ञानमनुमानादेव भविष्यति यथा देवदत्तो बहिरस्ति जीवित्वे सति गृहेऽसत्त्वात् यो बहिर्नास्ति स जीवित्वे सति गृहे सन् इति व्यतिरेकी अनेनैव बहिःसत्त्वज्ञानं भविष्यतीत्यत आह - तदेति मूलम् / तथा च व्यतिरेक्यनुमानेनानुमितिस्तदा स्यात् यदि लिङ्गनिश्चयः स्यात् / जीवित्वरूपस्य लिङ्गविशेषणस्य निश्चयो नास्ति। कुतः ? प्रमाणयोर्विरोधज्ञानानन्तरं प्रमाणयोर्वलाबलानिरूपणात् जीवित्वस्यापि सन्देहो गृहसत्त्वस्यापि सन्देहः, तथा च लिङ्गस्य सिन्दग्धत्वात् कथं बहिःसत्त्वानुमितिर्भवतीत्यर्थः / पूर्वोक्तप्रणालीमविद्वान् शङ्कते - नन्विति / संशयस्येति मूलम् / शतवर्षजीवी न वा इति संशयसामान्यमेव यदि कोटिनिश्चायकं तदा, यथा शतवर्षजीव्येव न वा गृह एव न वा इति संशयात् बहिःसत्त्वं निर्णीयते तदा, बहिःसत्त्वनिश्चयप्रमा प्रति संशयः प्रमाणं चेत् तदा, स्थाणुपुरुषसंशयोऽपि प्रमाणं स्यात् संशयत्वाविशेषात् / तस्मादपि संशयात् स्थाणुपुरुषयोरेकतरनिश्चयः स्यात् संशयत्वाविशेषादित्यापाद्यते / मध्ये शङ्कते - न चेति / स्थाणुपुरुषसंशयस्तु प्रमितसंशयो न भवतीति न तस्य प्रमाणत्वमित्याशङ्कार्थः / दूषयति - जीवनस्येति / यदि त्वयोच्यते जीवनसंशयो बहिःसत्त्वनिश्चायकः स चेत् करणं प्रमितसंशयश्च प्रमितस्य जीवित्वस्यैव संशयो वक्तव्यः, तथा 1. स्वरूपसन् धूमः करणं न भवति किन्तु ज्ञायमानः, ज्ञानं तदवच्छेदकम् इति प्रतौ टिप्पणी।