________________ 278 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका यथाहि प्रमापकस्येन्द्रियस्य दोषेण प्रमाशक्तितिरोधानात् ऐन्द्रियकभ्रमः तथा यथोक्तसंशयस्यापि दोषेण प्रमाशक्तिंतिरोधानात् अग्रहरूपभ्रमसम्भवात् परोक्षज्ञानानां जनकज्ञानाविभ्रमत्वे यथार्थत्वनियम इति चेत्, सत्यं प्रकृतेऽपि जीवनगृहाभावनियमग्राहक- :प्रमाणयोरन्यतराभासत्वनाभासत्वसम्भवात् / यद्वा दोषाभावसहकृतस्य यथोक्तसंशयस्य बहिःसत्त्वप्रमापकत्वमिति / उच्यते अनयोरेकं बाध्यं विरुद्धार्थग्राहकत्वादिति। ।अर्थापत्तिनिरूपणम्। ___प्राभाकरः शङ्कते - स्यादेतदिति मूलम् / अर्थापत्तिसहितानि चत्वारि' इति प्राभाकराः / भाट्टानामभावस्यापि प्रमाणत्वात् षट् प्रमाणानीति / ज्योतिरिति मूलम् / दवदत्तस्य शतवर्षजीवित्वं निर्णीतम् / अथवा ज्योतिःशास्त्रकथितलिङ्गात् ग्रहलग्नादिरूपा]त् रेखोपरेखादिकाद्वा शतवर्षजीवित्वं ज्योतिःशास्त्ररूपप्रमाणेनावगतम्, पश्चात् शतवर्षजीवित्वग्रहानन्तरं गृहे एव तिष्ठतीति प्रत्यक्षेण गृहीतं बहुशः, तथा च ज्योतिःशास्त्रात् शतवर्षजीवित्वं गृहीतं प्रत्यक्षप्रमाणेन जीवित्वविशिष्टस्य गृहसत्त्वनियमोऽप्यवधारित इति स्थिते सति / पशादिति मूलम् / उभाभ्यां प्रमाणाभ्यां तथार्थनिर्णयानन्तरं येनैव निर्णीतः स देवदत्तगृहे गतो देवदत्तश्च गृहे न दृष्ट इति कृत्वा योग्यानुपलब्ध्या निश्चितो गृहाभावः - तदनन्तरं योग्यानुपलब्ध्याऽभावस्तु निश्चित इति, तथा च पूर्वप्रमाणयोर्बहिःसत्त्वकल्पनं विना विरोधज्ञाने जाते सति विचारयति यथोभयमपि पूर्वोक्तं प्रमाणं बलवत् केनापि कस्यापि बाधः कर्तुं न [138 A] शक्यत इत्युभयोर्बलवत्त्वं तथा चै सबलमेकं दुर्बलमिति निर्णयः कर्तुं न शक्यते इति कृत्वा प्रमाणद्वयस्य विषयो नियमद्वयं तद्विषयकः संशयो जायतें यथा देवदत्तः शतवर्षजीवी न वा अथवा जीवी गृहे एव न वा इति नियमद्वयविषयकः संशयो जायते, तदनन्तरं जीवनसंशयं जनयित्वा जीवनसंशयापनोदार्थं जीवनोपपादकं बहिःसत्त्वं कल्पयति, तथा च तस्य पुरुषस्य देवदत्तविषयकं बहिःसत्त्वज्ञानं जायते, तद्वाद्यात् बहिःसत्त्वज्ञानं तदर्थापत्तिप्रमाणफलमिति प्राभाकराः / एतदेवाह - यथोक्तसामर यनन्तरमिति मूलम् / यथोक्तसामग्री यथा पूर्वं ज्योतिःशास्त्रेण शतवर्षजीवित्वमवगतं पश्चात् तन्निर्णयानन्तरं जीवी देवदत्तो गृहे एवेति प्रत्यक्षेण गृहसत्त्वनिर्णयो जातः पश्चाद् योग्यानुपलब्ध्याऽभावो निर्णीत इत्यादि यथोक्तसामग्रीत्यर्थः / एतादृशयथोक्तसामा यनन्तरं बहिरस्तीति प्रतीतिरनुभवसिद्धा भवति तदेव बहिःसत्त्वज्ञानमर्थापत्तिप्रमाणफलमित्यर्थः / अर्थापतिप्रमाणफलं तद् ज्ञानं बहिःसत्त्वज्ञानं चेत् तदा किं करणं को व्यापार इत्यत आह - तत्रेति मूलम् / तत्र बहिःसत्त्वज्ञाने इत्यर्थः / संशयद्वारेति / तथा च संशयो व्यापारः,