________________ अर्थापत्तिनिरूपणम् 277 सति गृहनिष्ठात्यन्ताभावप्रतियोगित्वादिति व्यतिरेकिणा बहिःसत्त्वज्ञानेनार्थपत्त्या लिङ्गविशेषणजीवित्वसंशये बहिःसत्त्वकल्पना च नास्त्येव / किञ्च गृहाभावनिश्चयः प्रमाणद्वयविषयसंशयं जनयित्वा जीवनसंशयमापाद्य बहिःसत्त्वं कल्पयतीति न युक्तम्, न हि यत एव यत्संशयः स एव तन्निश्चयाय प्रभवति, अन्यथा अतिप्रसङ्गात् / मैवम् / यथोक्तसामग्रीजनितसंशयवान् एवं तर्कयति योग्यानुपलब्धिगृहीतो गृहाभाव इति तन्निश्चयः सुदृढ इति जीवननियमग्राहकयोरेकं बाध्यं विरुद्धयोरप्रमाणत्वात् तदिह मरणं कल्पयित्वा जीवनग्राहकं बाध्यतां नो वा बहिःसत्त्वं कल्पयित्वा गृहनियमग्राहकं तत्र बहिःसत्त्वकल्पने गृहनियमग्राहकमात्रबाधा, मरणकल्पने तु शतवर्षजीवी देवदत्तः शतवर्षजीवी गृह एवेति नियमद्वयस्यापि बाधा स्यात्, तदुक्तं जीवनबाधे तन्नियमबाधस्यावश्यकत्वादिति / किञ्च अद्य जीवति श्वो जीविष्यतीत्यादिबहुतरक्षणलवमुहूर्तादिसमयोपाधिनियतं जीवनमुपलब्धमिति तद्बाधे बहुतरव्याप्तिबाधः, देवदत्ततदवयवगृहसत्त्वव्याप्तिश्चाल्पा तथा अभावस्वरूपमरणापेक्षया बहिःसत्त्वस्य भावस्य लघुत्वम्, यदि च गृहान्योन्याभावाश्रयबहिःपदार्थवृत्तिसंयोगाश्रयत्वं बहिःसत्त्वमिति तदपेक्षया मरणमेव लघु, तथापि मरणापेक्षया जीवनमात्रं लध्विति तदेव कल्पयितुमहम् / ततोऽर्थापत्तिकल्पितं जीवित्वमुपजीव्यानुमानादपि बहिःसत्त्वज्ञानं भविष्यतीत्येतावत् तर्कसहकृतो यथोक्तसामग्रीप्रभवः संशयो बहिःसत्त्वं कल्पयति / न च वाच्यं तर्काणां विपर्ययापर्यवसायित्वे आभासत्वम्, तत्पर्यवसाने च तदेवानुमानमेतत्तर्कसहायं बहिःसत्त्वमनुमापयिष्यतीति यतो लाघव-गौरवतर्काणां विपर्ययापर्यवसायिनामेव प्रमाणसहकारित्वम् अत एव प्रत्यक्षशब्दादावपि सहकारी सः / न च तस्यां दशायामेव प्रमाणान्तरमस्ति, ततोऽर्थापत्तिसहकारित्वं तर्कस्य। ननु स्वकारणाधीनस्वभावविशेषात् तर्कानुगृहीतयथोक्तसंशयस्य यदि बहिःसत्त्वप्रमापकत्वं तदा मृते गृहस्थिते वा तादृशसंशयात् यत्र बहिःसत्त्वकल्पना सापि प्रमा स्यादिति चेत् / न /