________________ / अथ अर्थापत्तिः। व्यतिरेक्यनुमानसिद्धावर्धापत्तिर्न मानान्तरं तेनैव तदर्थसिद्धेः स्यादेतत् ज्योति:शास्त्रात् तत्कथितलिङ्गात् वा देवदत्तस्य शतवर्षजीवित्वमवगतं चरमं शतवर्षजीवी गृह एवेति नियमे प्रत्यक्षेणावगते पश्चाद् योग्यानुपलब्ध्या निश्चितो गृहाभावो जीवननियमग्राहकप्रमाणयोर्बलाबलानिरूपणात् बहिःसत्त्वकल्पनं विना नियमद्वयविषयकसंशयं जनयित्वा जीवति न वेति संशयमापाद्य जीवनसंशयापनुत्तये जीवनोपपादकं बहिःसत्त्वं कल्पयतीति यथोक्तसामर यनन्तरं बहिरस्तीति प्रतीते: तत्रान्वयव्यतिरेकाभ्यां संशयद्वारा गृहाभावः तदुत्पादितनियमद्वयविषयकसंशयो वा करणं जीवनसंशय एव वा, करणे सव्यापारकत्वानियमात् / प्रमाणयोर्विरोधज्ञानं तदाहितसंशयद्वारा करणमिति कश्चित् / तदा जीवित्वस्य लिङ्गविशेषणस्य सन्दिग्धत्वेनानुमानासम्भवादापत्तिर्मानान्तरम् / ननु संशयस्य कल्पकत्वे स्थाणुपुरुषसंशयादपि तदेककोटिनिर्वाहकल्पनापत्तिः, न च प्रमितसंशयः कल्पनाङ्गम्, जीवनस्य तदानीं प्रमितत्वे संशयाभावप्रसङ्गात् जीवित्वनिश्चयेऽनुमानादेव बहिःसत्त्वनिश्चयाच्च, कदाचित् प्रमितत्वे च प्राक्प्रमितपुरुषत्वस्यान्तरा तत्संशये कल्पना स्यात्। किञ्च जीवनसंशयस्य मृतेऽपि दृष्टत्वान्न व्यभिचारेण बहिःसत्त्वगमकमिति चेत् / न / यथोक्तसामग्रीप्रभवसंशयस्य कल्पनाङ्गत्वात्, अत एव मृत-जनिष्यमाणयोर्गृहाभावनिश्चयो न यथोक्तसंशयमापादयतीति न बहिःसत्त्वकल्पकः / गृहाभावश्च योग्यानुपलब्धिनिश्चितो न संशय इति / अथ जीवननियमग्राहकप्रमाणयोर्यदि च तुल्यबलत्वमवगतं क्व तर्हि बहिःसत्त्वकल्पना विशेषदर्शनविरहात्, कल्पने वा प्रमितजीवननिर्वाहकबहिःसत्त्ववत् गृहनियमनिर्वाहकमरणस्याप्युचितत्वेन तत्कल्पनापि स्यात् जीवनमरणयोः संशयाविशेषात् / अथ तयोरेकं बलीयोऽपरमबलं तदैकेनापरस्य बाध एवेति न संशयः, तस्मात् यत्र शतवर्षजीवित्वमवधारितं गृहाभावश्च निश्चित: तत्र बहिःसत्त्वकल्पनं न तु जीवनसंशये, एवं च देवदत्तो बहिः सन् जीवित्वे