________________ केवलव्यतिरेक्यनुमाननिरूपणम् 275 व्याप्यं व्यापकंपृथिवीत्वाभावस्तथा चव्यापकाभावेन पृथिवीत्वेनव्याप्यावच्छिन्नान्योन्याभावस्य सिद्धिमुक्त्वाऽनेनैव प्रकारेण सर्वत्र व्यापकाभावेन व्याप्याभावो व्यतिरेकिणा सिद्धयतीत्युदाहरति - एवमितीति टीका / प्रामाण्यसाधकमूले व्याख्यायां प्राग् व्याख्यातम् / यस्येति टीका। सुखस्य दुःखाभावात्मकतया गृहीतस्य दुःखविशिष्टानुमितिसिद्धयर्थं व्याचष्टे - यदात्मकतयेति। तथा च यदात्मकतया गृह्यमाणस्य पदार्थस्य व्यापकतया गृहीतो योऽभावस्तदभावेन यदात्मतया गृहीतं तस्याभावः सिद्धयति / यत्र सुखं तत्र संसार्यात्मत्वाभावः / अत्र सुखमेव दुःखाभावात्मतया यदि गृहीतं तदा दुःखाभावाभावस्य दुःखस्यानुमिति: संसर्यात्मत्वाभावेन यथा शुक्तिर्यदि रजतत्वेन गृहीता तदा इदं रजतंगृहे नास्तीत्युच्यमानेऽयं रजतत्वाभाव एवन तुशुक्तित्वावच्छिन्नाभावः, तद्वत् प्रकृतं सुखं यदि दुःखाभावाभिन्नतया गृहीतं तदा यत्र यत्र संसार्यात्मत्वाभावो यथा घटे इति यतः तन्मते सुखं दुःखाभावरूपत्वेन गृहीतं तथा च यत्र सुखं तत्र संसार्यात्माभावो यथा घटे / यद्यपि घटे सुखं नास्ति तथा सुखं दुःखाभावात्मतया गृहीतमिति कृत्वा दुःखाभावो घटे वर्तते एव तत्र संसर्यात्मत्वाभावोऽपि वर्ततेऽपि / तथा च दुःखाभावाभावस्य दुःखस्यैवानुमितिर्न तु सुखस्येति यदात्मतयेति व्याख्यानेन लब्धम्। अयं [137 B] चेतीति टीका / तस्याभिप्रायं वर्णयन्ति - एतेनेति टीका / यदि अप्रसिद्धसाध्यकव्यतिरेकी स्वार्थानुमानस्थल एव तदा परार्थानुमानस्थले तु व्यतिरेक्यनुमितिप्रकारो निरधिकरणिकैव साध्यप्रसिद्धिरित्यस्मदुक्त एव प्रकारोऽनुसर्तव्यः / तथा चास्मदुक्तः प्रकारः परार्थानुमानसाधारणः स्वार्थानुमानेऽपि द्रष्टव्यः तत् निरधिकरणसाध्यप्रसिद्धचैव पूर्वोक्तरीत्या ज्ञेयम् / अनुशयान्तरमपीति / यथाऽस्वरसान्तरं तथा च व्यतिरेकिणि अभावसाध्य इत्यनुपपन्नम्, भावसाध्ये वयादौ यत्र वह्नयभावस्तत्र धूमाभाव इति व्यतिरेकव्याप्त्या यत्र धूमाभावाभावो धूमस्तत्र वह्नयभावाभावो वहिरिति भावसाध्यकेऽपि व्यतिरेक्यनुमानं सुग्रहाम्] इत्येकोऽस्वरसः, द्वितीयश्च यः परार्थानुमानसाधारणः प्रकारोऽस्मदुक्तो निरधिकरणकसाध्यप्रसिद्धिरित्यादिना स एव स्वार्थानुमानेऽप्यस्तु किं व्यतिरेकिण्यभावसाध्यकाप्रसिद्धसाध्यकानुमितिरिति, एतदेवाह - परार्थेति टीका। नन्वन्वयी निरूपितो व्यतिरेकी च निरूपितोऽन्वयव्यतिरेकी तुन निरूपित इति कथम् ?, तच्चानुमानं त्रिविधमिति प्रतिज्ञेत्यत आह - अन्वयिनि व्यतिरेकिणिचेति। तथा चययैव रीत्याऽन्वयी निरूपितो व्यतिरेकी चनिरीपितस्तन्निरूपणरीत्यैवान्वयव्यतिरेक्यपि निरूपितप्राय इति न प्रतिज्ञाविरोध इत्याशयेनाह - तमुपेक्ष्येति टीका / व्यतिरेक्यनुमाननिरूपणफलमाह - अर्थापत्तीति टीका / तथा च व्यतिरेक्यनुमानेनैवार्थापत्तिरप्यन्यथासिद्धेत्यर्थः / / इति व्यतिरेकिग्रन्थः सम्पूर्णः।