________________ 274 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिंका प्रवेशेनातिगौरवग्रस्तत्वात् / न द्वितीयः, धूमोपलक्षितः सम्बन्धो धूमेऽपि तिष्ठतीति यथा पाकक्रियोपलक्षितो देवदत्तेऽपचन्नपि देवदत्तो भवत्येव / तद्वत् धूमप्रतियोगित्वोपलक्षितः सम्बन्धो दण्ड एव वर्तते, तत्र उपलक्षणपक्षे कुण्डलसम्बन्धो नास्ति देवदत्त एव तत्र सत्त्वात् / यत्र धूमप्रतियोगित्वं वस्तुगत्या नास्ति धूमत्वावच्छेदेन धूमसंयोगो नास्ति किन्तु महानसत्वावच्छेदेन वर्तते इत्यर्थः / उपलक्षणपक्षे दूषणान्तरमाह - किञ्चेति टीका / दण्डी कुण्डली देवदत्त इत्यत्र यो दण्डो यच्च कुण्डलं देवदत्त एव वर्तते नान्यत्र। तत्र दण्डित्वकुण्डल्(लि)त्वयोर्व्याप्तिर्न स्यात्। कथम् ? दण्डोपलक्षितः सम्बन्धो दण्ड एव वर्तते तत्र कुण्डलसम्बन्धो नास्ति देवदत्त एव सत्त्वात् / ननु उदाहरणान्तरमिदं किमर्थं पूर्वोदाहरणेनाविशेषात्। यथा यत्र धूमोपलक्षितः सम्बन्धस्तत्रवह्निसम्बन्धो नास्ति, धूम एव धूमोपलक्षितसम्बन्धसत्त्वात् / तद्वत् अत्रापि दण्डोपलक्षितः सम्बन्धो दण्ड एवास्ति तत्र च कुण्डलसम्बन्धो नास्तीत्युदाहरणाविशेष इति चेन्न।धूमस्यापि विरलद्रव्यत्वेन प्रशिथिलद्रव्यत्वेनेति यावत् वढेरपि विरलद्रव्यत्वेन धूमेऽपि वह्निसंयोगो भविष्यति / अतो यत्र धूमोपलक्षितः संयोगस्तत्र वहिसंयोग इति न व्यभिचारस्तदर्थमुदाहरणान्तरम् / तथा च दण्डस्यापि निबिडद्रव्यत्वेन कुण्डलस्यापि निबिडद्रव्यत्वेन दण्डे कुण्डलसंयोगः कुत्रापि नास्तीति कृत्वा यत्र दण्डोपलक्षितः संयोगो दण्ड वर्तते तस्य द्विष्ठत्वात् तथा कुण्डलसंयोगो दण्डे नास्तीति उक्तमुदाहरणान्तरम् / ननु दण्डकुण्डलयोर्व्याप्तिर्नास्त्येवेत्यत आह - समानाधिकरणयोरपीति टीका / तथा च व्यभिचाराभाव इति शेषः / यत्र देवस(द) त्ताको दण्डो यश्च कुण्डलव्याप्तः स दण्डपदेन ग्राह्यः, कुण्डलव्याप्तमेव द्रव्यपदेन ग्राह्यम् / उपसंहरति - तस्मादिति टीका / अनन्यगत्येति टीका। पूर्वोक्तदूषणैर्विशेषणोपलक्षणादिविकल्पैरित्यर्थः / हेतुसाध्यसम्बन्धावच्छिन्नसम्बन्धिसामानाधिकरण्यं व्याप्तिः, हेत्वंशेयः सम्बन्धस्तेन सम्बन्धेन हेतौ साध्यांशे च यः सम्बन्धस्तेन सम्बन्धेन साध्यस्य विवक्षणात् / [137 A] तथा च स्वस्वसम्बन्धावच्छिन्नहेतुसाध्ययोः सामानाधिरण्यमेव व्याप्तिः, तेनान्यसम्बन्धावच्छिन्नसामानाधिकरण्य व्याप्तिर्न भवति। अत एव धूमसमानाधिकरणात्यन्ताभावाप्रतियोगिवह्निना सह संयोगसम्बन्धावच्छिन्नवह्नः सामानाधिकरण्यं धूमे व्याप्तिः न तु धूमसमानाधिकरणात्यन्ताभावाप्रतियोगिसामानाधिकरण्यमात्रम्, धूमसमानाधिकरणात्यन्ताभावाप्रतियोगिवह्निना सह सामानाधिकरण्यं यद्भूमे वर्तते तद् रासभेनापि सह व्याप्तिः स्यात्, तथा चान्येन सह सामानाधिकरण्यमन्यस्य व्याप्तिः स्यात्, तन्निरासार्थं येन सह धूमस्य व्याप्तिः स धूमसमानाधिकरणात्यन्ताभावाप्रतियोगिसम्बन्धी विवक्षितः इति कृत्वा रासभस्तुधूमसमानाधिकरणात्यन्ताभावाप्रतियोगिसम्बन्धी न भवतीति न तेन सह व्याप्तिः / तथा धूमसमानाधिकरणात्यन्ताभावाप्रतियोगिवह्निलक्षणसम्बन्धिसामानाधिकरण्यं धूमस्य समवायेनापि व्याप्तिः स्यादित्यापादनं स्यादित्यतो येन सम्बन्धेन अर्थात् संयोगेन व्याप्तिरिति कृत्वा संयोगसम्बन्धावच्छिन्नवह्निसामानाधिकरण्यमेव, संयोगसम्बन्धेन वहिव्याप्तिधूमस्येत्यर्थः / तस्माजलतादात्म्यं जलत्वमेव