________________ केवलव्यतिरेक्यनुमाननिरूपणम् 273 टीका / चिन्त्यं विवृणोति - यत्रेति [136 A] टीका / यत्र धूमसम्बन्ध इति / तथा च पूर्वोक्तवादिमते सम्बन्धसामानाधिकरण्यमेव सम्बन्धिव्याप्तिः / तन्मते धूमसम्बन्धवह्निसम्बन्धसामानाधिकरण्यमेव धूमवह्निव्याप्तिरिति पर्यवसन्नम् / तथा च यत्र धूमसम्बन्धस्तत्र वह्निसम्बन्ध इति सम्बन्धसामानाधिकरण्ये धूमः सम्बन्धी विशेषणमुपलक्षणं वा ? आद्यं दूषयति - आकाशादेरिति टीका। तथा चाकाशादीनामितरभेदो न सिद्धयेत् / यत्र धूमविशिष्टसम्बन्धस्तत्र वह्निविशिष्टसम्बन्ध इतिवत् यत्राकाशविशिष्ट आकाशतादात्म्यलक्षणः सम्बन्धस्तत्र तत्र पृथिवीत्वाभावसम्बन्ध इति वक्तुं न शक्यते यतः आकाशादेरवृत्तितया आकाशविशिष्टमप्रसिद्धम् / यथा धूमादेवृत्तिमत्त्वात् धूमविशिष्टं प्रसिद्धमस्तीति कृत्वा यत्र यत्र धूमविशिष्टः सम्बन्धस्तत्र वह्निसम्बन्ध इति वक्तुं शक्यते। तद्वत् आकाशविशिष्टमेव प्रसिद्धमित्यर्थः / एतदेवाह - न हीति टीका। हेतुगाह - आकाशादेरिति टीका / ननु भवतुआकाशादीनामपिवृत्तिमत्त्वम्वादिमतेनयनाकाशविशिष्टः सम्बन्धस्तत्रपृथिवीत्वाभावसम्बन्धो यथाकाशविशिष्टसम्बन्धः आकाशतादात्म्यलक्षणः सम्बन्धआकाशे तत्र पृथिवीत्वाभावस्तिष्ठत्येवेत्यत आह-पूर्वोक्तेति टीका। पूर्वोक्तलाघवं सम्बन्धिसामानाधिकरण्यापेक्षया सम्बन्ध्यप्रवेशेन सम्बन्धसामानाधिकरण्यमेव व्याप्तिरिति तत् कथं स्यात् / सम्बन्धिविशिष्टसम्बन्धसामानाधिकरण्यं व्याप्तिरिति उक्तं तदा सम्बन्धे विशेषणतया सम्बन्धिप्रवेश आगत एवेति सम्बन्ध्यप्रवेशेन लाघवमित्युक्तं तन्न सम्भवतीत्यर्थः / उपलक्षणपक्षे दूषयति - नापीति / तथा चोपलक्षणपक्षे यथा चैत्रविशिष्टो देवदत्तोऽश्वेनानीत इत्यत्र यथा चैत्रो विशेषणं तदाऽश्वोपरि चैत्रदेवदत्तयोर्भारः, तथा चैत्रोपलक्षित इत्यत्र चैत्रपदमुपलक्षणं चैत्रस्याश्वोपरि भारो नास्ति / अत एव प्रकृतानन्वयि अविद्यमानं व्यावर्तकमुपलक्षणम्, व्यावर्तकमात्रं विशेषणेऽतिव्याप्तम् / यथा दण्डिपुरुषोक्त्या दण्डेन विशेषणेन व्यावृत्तिः क्रियते, अतोऽविद्यमानं पदं दण्डस्तु विद्यमान एव व्यावर्तकः / प्रकृतानन्वयि स्वरूपकथनमात्रम् / वस्तुगत्या यदुपलक्षणं तत् प्रकृतानन्वयि भवति यथा कुरुक्षेत्रमाश्रयते देवदत्त इत्यत्र कुरुषु उपलक्षणेषु देवदत्ताश्रयत्वं नास्ति / यथा देवदत्ताश्रयत्वं क्षत्रे एव वर्तते न तुकुरुषु कुरूणामविद्यमानत्वात्। उपलक्ष्यतावच्छेदकं क्षेत्रसम्बन्धि तडामा(गा)दिकम् / विशेषणं तु प्रकृतक्रियान्वयि भवति / यथा कुण्डलिनमानयेत्यत्र कुण्डलेऽप्यानयनान्वयः / प्रकृते धूमश्चेदुपलक्षणं तदा यथा धूमोपलक्षितः सम्बन्धस्तत्र वह्निसम्बन्ध इत्यत्र यदिधूम उपलक्षणं तदा व्यभिचारी सम्बन्धो भवति / यथा धूमोपलक्षितः सम्बन्धो धूमे तिष्ठति, तत्र वह्निसंयोगो नास्ति वहिसंयोगस्य महानसादौ सत्त्वात् / तथा च यत्र [136 B] धूमोपलक्षितः संयोगस्तत्र वह्निसंयोग इत्येवं नियमो नास्ति। महानसे यद्यपि धूमोपलक्षितः संयोगो वर्तते वह्निसंयोगोऽपि वर्तते परं धूमे नास्ति। न च धूमानुयोगिकः सम्बन्धो यत्र तत्र वह्निसंयोगः इति [वाच्यम्] / धूमप्रतियोगिकः सम्बन्धो धूमे नास्ति किन्तु महानसादाविति वाच्यम् / धूमप्रतियोगित्वमपि विशेषणमुपलक्षणं वा ? नाद्यः, गौरवात् सम्बन्धित्वांशप्रतियोगित्वांशयोः