________________ 272 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका जलतादात्म्यं तत्रपृथिवीत्वाभावसम्बन्ध इति सम्बन्धयोः सामानाधिकरण्यमेव व्याप्तिः / प्रकृते उपसंहरति - तथा चेति टीका।यत्रजलतादात्म्यं तत्रपृथिवीत्वाभाव इति सम्बन्धसामानाधिकरण्यमेव जलपृथिवीत्वाभावयोर्व्याप्तिः, [135 B] तेन न पूर्वोक्तो दोष इति भावः / शङ्कते - नन्विति टीका / तादात्म्यमपि सम्बन्धो भवतु / तथा च तादात्म्यसम्बन्धो यस्तादात्म्यसामानाधिकरण्यं जलपृथिवीत्वाभावयोर्व्याप्तिः / ततश्च किमागतमित्यत आह - तथापीति टीका। यदभावव्यापकतया गृहीतो हेत्वभावस्तदभावाभावेन हेतुना तदत्यन्ताभावः सिद्धयतीत्युक्तनियामकात् यल(जला)दिव्यापकतया गृहीतस्य पृथिवीत्वाभावस्याभावेन पृथिवीत्वेन जलाद्यत्यन्ताभाव एव पृथिव्यां सिद्धयेत् न तु जलान्योन्याभावः, तथा च पृथिव्यां जलं नास्तीति अत्यन्ताभावः एव सिद्धयेत् न तु पृथिवी जलं नेत्यन्योन्याभावः सिद्धयेत् / कुतोऽत्यन्ताभाव एव पूर्वोक्तनियामके सिद्धयेदिति चेत् / अन्यथा यत्र वन्यभावस्तत्र धूमाभाव इत्यत्रापि धूमाभावाभावेन धूमेन वह्नयभावस्यात्यन्ताभावो वह्निरेवं न सिद्धयेत् किन्तु वन्यभावान्योन्याभाव एव सिद्धयेत् / पर्वतो वह्नयभावो न भवतीति सिद्धिर्नास्ति किन्तु पर्वतो वढ्यभावाभाववान् वह्रिमान् इत्येव बुद्धिरस्तीति नान्योन्याभावसिद्धिरित्याशङ्कार्थः / समाधत्ते - जलादीति / जलाद्यन्योन्याभावो नाम तादात्म्यावच्छिन्नो जलादिविरहो जलाद्यभाव एव। ततः प्रकृते किमायातमित्यत आहयत्सम्बन्धेति टीका। तथा च यत्सम्बन्धसामानाधिकरण्यं व्याप्तिस्तत्सम्बन्धावच्छिन्नव्याप्याभावस्य व्यापकाभावात् सिद्धिः / यथा यत्पदेन जलम्, तस्य सम्बन्धो जलतादात्म्यम्, तथा च यत्र जलतादात्म्यं तत्र पृथिवीत्वाभावसम्बन्ध इति सम्बन्धयोः सामानाधिकरण्यं व्याप्तिः, तथा च जलतादात्म्यलक्षणसम्बन्धस्य यत्सामानाधिकरण्यं सैव जलपृथिवीत्वाभावयोर्व्याप्तिः, तेन पूर्वोक्तनियामकात् तत्पदेन तादात्म्यलक्षणः सम्बन्धस्तदवच्छिन्नो व्याप्यस्य जलादेर्योऽभावः स एव जलान्योन्याभावः, तथा च पृथिवी जलं न भवतीति प्रतीतिरपि भवति, अयमेव जलान्योन्याभावः / तथा च तादात्म्यसम्बन्धावच्छिन्नो जलादिविरहः स एव जलान्योन्याभावः न तु स जलात्यन्ताभावः / कथम् ? जलात्यन्ताभावे तादात्म्यसम्बन्धोऽवच्छेदको न भवति किन्तु अत्यन्ताभावावच्छेदकः संयोगादिरेव। तथा च यत्र वढ्यभावस्तत्रधूमाभाव इति व्याप्त्या संयोगसम्बन्धेन वढ्यभावाभावः सिद्धयन्वयत्यन्ताभावस्यात्यन्ताभावो वह्निरेव सिद्धयति न तु वह्नयत्यन्ताभावान्योन्याभावः वह्वेरेवप्रतीतेः न तु पर्वतो वह्नयभाव इतिरूपा प्रतीतिरिति। प्रकृते च तादात्म्यसम्बन्धावच्छिन्नो यो जलादिविरहः स जलान्योन्याभाव एव भवति तादात्म्यस्यान्योन्याभावातिरिक्तस्थले सम्बन्धत्वाभावात् / वन्यभावस्थले तादात्म्यसम्बन्धो न भवतीति कृत्वा वह्नयभावाभावो वह्निरेव सिद्धयति। प्रकृते जलस्य तादात्म्यसम्बन्धावच्छिन्नस्य व्याप्यत्वात् यत्र जलतादात्म्यं तत्र पृथिवीत्वाभावसम्बन्ध इति तादात्म्यसम्बन्धेन यो जलाद्यभावः सिद्धयन् स जलाद्यन्योन्याभाव एव सिद्धयति न तु जलात्यन्ताभावः / इदं दूषयति - चिन्त्यमिति