________________ केवलव्यतिरेक्यनुमाननिरूपणम् 271 जलादिकंपृथिवीत्वाभावरूपंचेतिरूपंयत्सम्बन्धिद्वयं तत्प्रतियोगिकयोः तन्निरूपितयोः तादात्म्यलक्षणसम्बन्धपृथिवीत्वाभावप्रतियोगिकरूपसम्बन्धयोर्यत्सामानाधिकरण्यं तद् एव पृथिवीत्वाभावजलयोर्व्याप्तिरित्यर्थः / एतावता यदुक्तं पूर्वं यत्र जलं तत्र पृथिवीत्वाभाव इति व्याप्तिर्नास्ति शिलाशकलादौ व्यभिचारात् / भूतले संयोगसम्बन्धेन जलं वर्तते पृथिवीत्वाभावो नास्तीति कथं व्यापकः पृथिवीत्वाभावो व्याप्यं च जलमिति व्याप्यव्यापकभावः सङ्गच्छते इति शङ्का / तत्रेदमुत्तरम् - जलपृथ्वीत्वाभावयोः सामानाधिकरण्यं व्याप्तिर्न विवक्षिता किन्तु [135 A] जलपृथिवीत्वाभावप्रतियोगिकसम्बन्धयोर्यत् सामानाधिकरण्यं - कथम् ?, यत्र यत्र जलतादात्म्यं तत्र पृथिवीत्वाभावसम्बन्ध इति जलतादात्म्यपृथिवीत्वाभावसम्बन्धयोः सामानाधिकरण्यं - तदेव जलपृथिवीत्वाभावयोर्व्याप्तिरिति तु वर्तते, इदमेव जलपृथिवीत्वाभावयोर्व्याप्तिः, तथा च यत्र जलत्वं तत्र पृथिवीत्वाभाव इति कृत्वा पूर्वोक्तदूषणं न लगतीत्यर्थः / शङ्कते - न चेति / तथा च संयोगादिरेव सम्बन्धो न तादात्म्यं सम्बन्ध उभयसम्वन्धिनिष्ठत्वाभावात् सम्बन्धी हीत्यादिन्यायानुपपत्तेः / अतो जलतादात्म्यं सम्बन्धो न भवति / तथा च सम्बन्धसामानाधिरण्यमपि सम्बन्धिनोर्व्याप्तिरिति कथं स्यात् जलतादात्म्यस्य सम्बन्धत्वाभावादित्याशङ्कार्थः / समाधत्ते - अविशिष्टेति टीका / सम्बन्धिभिन्नत्वे सति सम्बन्ध्याश्रितत्वं न सम्बन्धत्वनियामकं तादात्म्यलक्षणसम्बन्धे स्वरूपसम्बन्धे तदभावात् किन्तु सम्बन्धत्वनियामकं यथा अविशिष्टधीव्यावृत्तविशिष्टधीनियामकत्वम्। दण्डी पुरुष इति विशिष्टज्ञानम्, विशिष्टज्ञाननियामकत्वं नाम विशिष्टज्ञानजनकत्वम्, तच्च दण्डी पुरुष इति विशिष्टज्ञानस्य जनकत्वं दण्डपुरुषयोरुभयोरपि तिष्ठतीति दण्डपुरुषयोरपि सम्बन्धत्वं स्यादित्यतोऽविशिष्टधीव्यावृत्तेति पदम् / एतदर्थस्तु विशेषणत्वविशेष्यत्वान(न्व)[यात्वे सति विशिष्टधीनियामकत्वं सम्बन्धत्वं ततो दण्डपुरुषयोर्विशेषणत्वविशेष्यत्वात् तत्र नातिव्याप्तिः / यथा दण्डी पुरुष इत्यत्र संयोगलक्षणसम्बन्धे विशेषणत्वविशेष्यत्वेऽपि न स्त इति संयोगस्य सम्बन्धत्वं विशेषणत्वविशेष्यत्वान्वायात्वमजनके पारिमाण्डल्यादौ वर्ततेऽतो विशिष्टधीनियामकपदम्। अत एवेति टीका। यतस्तादात्म्यमपि सम्बन्धः अत एव न्यायमते तादात्म्यलक्षणसम्बन्धेन यो रजतारोपः स तादात्म्यारोप: एकं विशिष्टज्ञानम्, समवायसम्बन्धेन रजतत्वारोपो द्वितीयं विशिष्टज्ञानम् / यथा पुरोवर्तिनि शुक्तिशकले रजततादात्म्यलक्षणो यो रजताभेदरूपः सम्बन्धो यथा इदं’ पदार्थस्यरजतस्य चाभेदलक्षणेन सम्बन्धेन रजताभेदसम्बन्धस्तेन सम्बन्धेन इदं रजतमित्येकं विशिष्टज्ञानं जायते, द्वितीयं च विशिष्टज्ञानं रजतत्वसमवायलक्षणेन सम्बन्धेन भवति / यद्यपि प्रतीतिरिदं रजतमित्येकविशिष्टज्ञानरूपैव भासते तथापि भिन्नविषयकत्वात् विशिष्टप्रतीत्योर्भेदः / यदि च तादात्म्यं सम्बन्ध एव न स्यात् तदा तादात्म्यलक्षणसम्बन्धेनैकस्तादात्म्यारोपोऽपरश्च रजतत्वरूपसमवायलक्षणसम्बन्धेन रजतत्वसमवायारोप इति भेदः कथं स्यादित्यर्थः / तथा च तादात्म्यसम्बन्धस्य यत् सामानाधिकरण्यं सा व्याप्तिर्यत्र