________________ 270 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका आह - अत्र मते इति / यस्य मते व्यतिरेकिणि अप्रसिद्धमेव साध्यं सिद्ध्यति तन्मते सम्बन्धिसामानाधिकरण्यं न व्याप्तिः किन्तु सम्बन्धिसम्बन्धयोः सामानाधिकरण्यं सम्बन्धिव्याप्तिः यथा यत्र धूमसम्बन्धस्तत्र वह्निसम्बन्ध इति धूमसम्बन्धवह्निसम्बन्धयोः सामानाधिकरण्यं धूमवहिव्याप्तिः, तथा च यदीयसम्बन्धसमानाधिकरणात्यन्ताभावाप्रतियोगी यदीयः सम्बन्धः तत्सम्बन्धयोः सामानाधिकरण्यं तत्सम्बन्धिनोर्व्याप्तिः यथा धूमसमानाधिकरणात्यन्ताभावाप्रतियोगी वह्निसम्बन्धो भवति वह्निसम्बन्धेन सह धूमसम्बन्धस्य सामानाधिकरण्यं वर्तते यथा एकस्मिन्नधिकरणे महानसादौ धूमसम्बन्धोऽपि तिष्ठति वह्निसम्बन्धोऽपि तिष्ठतीति धूमसम्बन्धवह्निसम्बन्धयोः सामानाधिकरण्यं तदेवधूमवढ्यो-प्तिः / एतदेवाह - अस्तिचेतिटीका / ननुधूमसम्बन्धसमानाधिकरणात्यन्ताभावापेक्षया लाघवात् धूमसमानाधिकरणात्यन्ताभावाप्रतियोगित्वमेव व्याप्तिः अस्तु इत्यत आह - परेणापीति / यस्य मते धूमवह्निसामानाधिकरण्यमेव व्याप्तिः तस्य मतेऽपि धूमसमानाधिकरणात्यन्ताभावाप्रतियोगित्ववह्निसामानाधिकरण्यमानं न व्याप्तिः / कुत: ? यतो व्यभिचारिसाधारण्यापत्तिः / कथम् ? वह्निसमानाधिकरणात्यन्ता[भावा)प्रतियोगी धूमो भवति परम्परासम्बन्धेन / कथम् ? यतो धूमाधिकरणे वह्रिवर्तते तद्वृत्ति वह्नित्वम् अयोगोलकवह्रावपि तिष्ठति तथा चैतादृशपरम्परासम्बन्धेनायोगोलकेऽपि धूमस्तिष्ठत्येवेति [134 B] कृत्वा व्यभिचारिणि वह्निधूमयोरपि व्याप्तिः स्यात् / तद्वारणार्थं हेतुसमानाधिकरणो ग्राह्यसामानाधिकरण्यप्रविष्टो : योऽत्यन्ताभावस्तदप्रतियोगित्वं साध्यस्य विवक्षितम्, तथा ग्राह्यसम्बन्धः संयोगसम्बन्धस्तेन सम्बन्धेन योऽयोगोलकेधूमात्यन्ताभावस्तस्याप्रतियोगित्वंधूमस्य नास्तिसंयोगसम्बन्धेनधूमात्यन्ताभावप्रतियोगित्व(त्वं) धूमस्येति कृत्वा व्यभिचारिणि नातिप्रसङ्गः / ननु तथापि वह्निसमानाधिकरणो योऽत्यन्ताभावः संयोगसम्बन्धेन वह्निसामा या वर्तते तत्सामानाधिकरण्यं धूमवढ्योरपि वह्निसामग्रीद्वारकसम्बन्धेन वर्तते इति कृत्वा वह्रो धूमव्याप्तिः स्यादित्यतस्तद्वारणाय तत्तत्सम्बन्धावच्छिन्नतत्समानाधिकरणत्वेन सम्बन्धेनात्यन्ताभावाप्रतियोगित्वं तेन सम्बन्धेन तयोः सामानाधिकरण्यं व्याप्तिः, तथा च तत्सम्बन्धावच्छिन्नतत्तत्सामानाधिकरण्यं व्याप्तिः परेणापि वक्तव्यैव, तथा च तत्सम्बन्धावच्छिन्नतत्सम्बन्धिसामानाधिकरण्यं व्याप्तिः यथा संयोगसम्बन्धेन धूमसमानाधिकरणात्यन्ताभावाप्रतियोगित्वं वह्नौ वर्तते इति कृत्वा संयोगसम्बन्धावच्छिन्नधूमवयोः सामानाधिकरण्यमेव व्याप्तिस्तथा हेत्वंशे यः सम्बन्धः साध्यांशे च यः सम्बन्धस्तत्तत्सम्बन्धावच्छिन्नौ यौ सम्बन्धिनौ धूमवह्री तयोः सामानाधिकरण्यं व्याप्तिः। ततो लाघवात् तत्तत्सम्बन्धोधूमांशसम्बन्धः वह्नयंशसम्बन्धश्च तयोः सामानाधिकरण्यं व्याप्तिः न तु तत्तत्सम्बन्धिनोरपि गौरवात्। एतदेवाह - तथाच लाघवादिति टीका। ततः प्रकृते किमायातमित्यत आह - तदिहेति टीका / यत्र जलादितादात्म्यं जलत्वमेव तथा च जलत्वलक्षणो यत्र जलसम्बन्धस्तत्र पृथिवीत्वाभावसम्बन्ध इति सम्बन्धयोः सामानाधिकरण्यमेव जलपृथिवीत्वाभावयो-प्तिरित्यर्थः / अयमर्थः -