________________ केवलव्यतिरेक्यनुमाननिरूपणम् 269 केन कस्यान्यथासिद्धिः क्रियते ? किं जलत्वात्यन्ताभावेन जलान्योन्याभावस्यान्यथासिद्धिः क्रियते किं वा जलान्योन्याभावेन जलत्वात्यन्ताभावस्यान्यथासिद्धिः क्रियते? इतरान्योन्याभावो जलान्योन्याभाव इतरात्यन्ताभावोजलत्वात्यन्ताभावः तथा चोभयोर्मध्ये कस्य स्वीकारेण कस्यान्यथासिद्धिकरणम् ? व(अ)तिरिक्तानङ्गीकारे विनिगमनाविरहात्। तथा चोभयोर्भेद एव / अयं निष्कर्षः / त्वया उच्यते - जलत्वात्यन्ताभाव एव जलान्योन्याभावः / मया चोच्यते - जलान्योन्याभाव एव जलत्वात्यन्ताभावः। एवं चैकस्वीकारे विनिगमकं नास्तीत्युभयभेदस्वीकारः / ननु तर्हि घटस्य घटाभावाभावस्यापि भेदोऽस्तु, एकस्वीकारे विनिगमकाभावादित्यत आह - घटादेशेति टीका। तथा च घटस्यैव घटाभावाभावत्वे विनिगमकमस्ति / कथम् ? भावत्वमेव विनिगमकमस्ति यतो घटघटात्यन्ताभावाभावयोरन्यूनानतिरिक्तदेशता तिष्ठति घटाभावाभावज्ञानकाले घटग्राहकसामा या आवश्यकत्वं चतिष्ठति। एवं चघटेनैवघटाभावाभावव्यवहारोपपत्तौ नातिरिक्तघटाभावाभाववस्तुकल्पना।प्रकृते च धर्मिभेदधर्मात्यन्ताभावयो न्यूनानतिरिक्तदेशवृत्तित्वं नापि उभयग्राहकसामग्र योरेक्यं यतो जलान्योन्याभावे जलत्वप्रकारकजलज्ञानसाध्यत्वं यथा नेदं जलमिति जलत्वात्यन्ताभावग्रहे च जलत्वत्वप्रकारकं ज्ञानं कारणम् / ततोऽनयोर्ग्रहणे सामग्रीभेद इति स्पष्ट एवानयोर्भेद इत्यर्थः / धर्मिभेदधर्मात्यन्ताभावयोन्यूनातिरिक्तदेशवृत्तित्वं विवृणोति - अत एवेति। यत एव धर्म्यन्योन्याभावो भिन्नो धर्मात्यन्ताभावो भिन्नः, अत्र जलत्वं नास्ति इदं जलं न भवतीतिप्रतीतेः, अत एव / वृक्षः संयोगीत्यत्रवृक्षे संयोगवदन्योन्याभावस्तु नास्ति। धर्मः संयोगस्तद्वान् संयोगी धर्मी, तदन्योन्याभावो नास्ति।वृक्षे संयोगरूपधर्मात्यन्ताभावस्तु वर्तते इति कृत्वा तयोयूँनातिरिक्तदेशवृत्तित्वाद् भेद इति सिद्धः / तथा चानयोन्यूनाधिकदेशवृत्तित्वात् कथमभेदः स्यादित्यर्थः / प्रत्यक्षाप्रत्यक्षाभ्यामपि भेदमाहपिशाचेति / तथा च पिशाचान्योन्याभावः प्रत्यक्षः पिशाचत्वात्यन्ताभावोऽप्रत्यक्षः / पूर्वोक्तयुक्त्या पिशाचान्योन्याभावप्रत्यक्षत्वे योग्यानुपलब्धिर्वर्तते / यथा [134 A] स्तम्भो यदि पिशाचात्मा स्यात् तदा स्तम्भवदुपलभ्येतेति, यदि स्तम्भः पिशाचात्मा जातस्तदा पिशाचात्मत्वं स्तम्भवृत्ति स्यात् योग्यव्यक्तिवृत्तिजातेोग्यत्वनियमात् इति योग्यानुपलब्धिबलात् पिशाचान्योन्याभावः प्रत्यक्षः पिशाचत्वात्यन्ताभावस्तु न प्रत्यक्षः पिशाचत्वात्यन्ताभावस्य प्रतियोगि पिशाचत्वं प्रतियोगितावच्छेदकं पिशाचत्वत्वं तथा च पिशाचत्वत्वस्य सकलपिशाचवृत्तित्वे सति पिशाचेतरावृत्तित्वं पिशाचत्वत्वस्य जातिरूपत्वाभावेन पिशाचरूपातीन्द्रियघटिक(त)त्वेन च योग्यानुपलब्धेरभावात् इति कृत्वा पिशाचान्योन्याभावः प्रत्यक्षः पिशाचत्वात्यन्ताभावोऽप्रत्यक्ष इति कृत्वा प्रत्यक्षत्वाप्रत्यक्षत्वरूपाभ्यामपि भेदः इत्यर्थः / मतान्तरमाह - अन्ये त्विति। अत्रेति। तथा च भवतु जलत्वात्यन्ताभावजलान्योन्याभावयोर्भेदः तथापि व्यतिरेकव्याप्त्या जलान्योन्याभाव एव सिद्धयति / न तु जलादीनां पृथिवीत्वाभावव्याप्यत्वम्। कथम् ? यथा यत्र जलादौ जलं तत्रपृथिवीत्वाभाव एवं व्याप्तेरभावादित्यत