________________ 268 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका भावेति टीका। तथा च घटपटयोर्भेदे यथा घटत्वप्रकारकप्रतीतिविषयत्वं घटस्य पटत्वप्रकारकप्रतीतिविषयत्वं पटस्येति प्रतीतिवैचित्र्यात् यथा घटपटयोर्भेदस्तथा प्रकृतेऽपि जलान्योन्याभावत्वप्रकारकप्रतीतिविषयत्वं जलान्योन्याभावस्य यथेदं जलंनभवतीति तद्वत् अत्र जलत्वंनास्तीतिप्रतीतिविषयत्वं जलत्वात्यन्ताभावस्यापीति प्रतीतिवैचित्र्यमेव जलान्योन्याभावजलत्वात्यन्ताभावयोर्भेदे मानमित्यर्थः / ननु भिन्नप्रकारकप्रतीतिवैचित्र्यं न वस्तुभेदे मानं यतः एकस्यैव घटस्य घटात्यन्ताभावाभावात्मकस्यापि कदाचित् घटत्वप्रकारिका प्रतीतिः कदाचिच्च घटाभावाभावत्वप्रकारिका प्रतीतिः, न चैतादृशप्रतीतिवैचित्र्यमात्रेण घटघटात्यन्ताभावाभावयोर्भेदः, तथा प्रकृतेऽपि उक्तप्रतीतिवैचित्र्येण वस्तुगत्या न भेदोऽनयोरित्यस्वरसादाह - प्रतियोगिभेदादिति टीका। तथा च यथा घटात्यन्ताभावपटात्यन्ताभावयोर्भिन्नभिन्नप्रतियोगिनिरूप्यत्वात् भेदस्तद्वत् जलान्योन्याभावजलत्वात्यन्ताभावयोरपि जलजलत्वरूपभिन्नभिन्नप्रतियोगिनिरूप्यत्वनियमात् भेद एवेत्यर्थः / ननु यदि भिन्नप्रतियोगिनिरूप्यत्वमेवा(व) भेदसाधकं तदा घटप्रागभावघटध्वंसघटात्यन्ताभावानामपपि भेदो न सिद्धयेत् / कुतः ? भिन्नभिन्नप्रतियोगिनिरूप्यत्वाभावादित्यत आह - अपि चेति टीका / जलान्योन्याभावजलत्वात्यन्ताभावयोर्विरुद्धधर्माध्यासादवश्यं भेदो यथा घटपटयोर्घटत्वपटत्वरूपविरुद्धधर्माध्यासात् भेदोऽवश्यं तथाऽत्रापि विरुद्धधर्मो जलत्वात्यन्ताभावत्वं जलान्योन्याभावत्वं च, न चैतयोधर्मयोरप्यैक्यमेवेति वाच्यम् / भिन्नभिन्नपदार्थघटितमूर्तिकत्वेन भेदाद् यथा कम्बुग्रीवत्वं भिन्नो धर्मः कपालजन्यद्रव्यत्वं च भिन्नो धर्मस्तद्वत् प्रकृतेऽपि जलत्वात्यन्ताभावत्वं भिन्नो धर्मो जलान्योन्याभावत्वमपि भिन्नः तथा चानयोविरुद्धधर्माध्यासाढ़ेद इत्यर्थः / आशङ्कते - नन्विति। तथा च यथा एक एव घटो भावव्यवहारेऽपि हेतुर्घटाभावाभावव्यवहारेऽपि हेतुस्तथा च घटाभावाभावत्वं घटत्वं चैकवस्तुवृत्त्येव न चैतौ धर्मो विरुद्धौ / एतदेवाह - न चैतावतेति टीका / घटत्वप्रकारकप्रतीतिरथ चघटाभावाभावत्वप्रकारिका प्रतीतिः एतावत्प्रतीतिवैचित्र्यमात्रेण न विरुद्धधर्माध्यासः / कुत इत्यत आह - वस्तुत इति टीका / वस्तुनो ह्येकस्यैव भावस्य घटत्वप्रकारकप्रतीतिविषयता घटाभावाभावत्वप्रकारकप्रतीतिविषयताऽपि, ततो भिन्नप्रकारकप्रतीतिविषयत्वेऽपि घटत्वं घटाभावाभावत्वं चैकवृत्त्येव वस्तुतोऽभिन्नयोर्घटघटात्यन्ताभावाभावयोरेकत्वमेवेति न विरुद्धधर्माध्यास इत्यर्थः / ततः प्रकृते किमित्यत आह - वस्तुत इति टीका / तथा च वस्तुत एकस्यैव जलत्वात्यन्ताभावस्य [133 B] जलान्योन्याभावस्य वा उभयव्यवहाराहेतुात्वं जलान्योन्याभावव्यवहारहेतुत्वं जलत्वात्यन्ताभावव्यवहारहेतुत्वं च भवतु / तथा च न विरुद्धधर्माध्यास इत्यत आह - न चैतावतेति। एकस्य वस्तुनो भिन्नप्रकारकप्रतीतिवैचित्र्यमात्रेण न विरुद्धधर्मः, एकस्यैव घटादेर्नानाप्रकारकप्रतीतिविषयत्ववत् एकस्यैव जलत्वात्यन्ताभावस्य जलत्वात्यन्ताभावत्वप्रकारकप्रतीतिजलान्योन्याभावत्वप्रकारकप्रतीतिवैचित्र्यविषयकत्वेऽप्यैक्यमित्याशङ्कार्थः / समाधत्ते - इतरेति टीका /