________________ केवलव्यतिरेक्यनुमाननिरूपणम् 267 श्रयादिदूषणं न भवत्येव / कथम् ? जलत्वात्यन्ताभावज्ञाने जलत्वत्वप्रकारकं जलत्वज्ञानं कारणं भवतु जलत्वत्वमपि जलेतरावृत्तित्वगर्भं भवतु परं जलेतरत्वं जलान्योन्याभावस्तद्ज्ञानं तु न जलत्वत्वप्रकारकजलत्वज्ञानमपेक्षते किन्तु जलत्वप्रकारकजलज्ञानमेवापेक्षते, अतोऽत्र जलत्वत्वज्ञानापेक्षाभावात् नात्माश्रयो न वाऽनवस्था / एतदेवाह - केवलेनापीति टीका / यथा घटत्वत्वमध्ये प्रविष्टो यो घटान्योन्याभावस्तद्ज्ञानं केवलं घटत्वप्रकारकघटज्ञानेनैव जायते न तु तत्र[132B] घटत्वत्वज्ञानं कारणम्। अयमर्थः - घटान्योन्याभावज्ञानं तुन घटत्वत्वज्ञानमपेक्षते केवलं घटत्वप्रकारकघटज्ञानादेव जायते, घटत्वात्यन्ताभावत्वप्रकारकज्ञानं तु घटत्वत्वज्ञानमपेक्षते प्रतियोगितावच्छेदकप्रकारकप्रतियोगिज्ञानत्वेन तदपेक्षणात् / अत्राशङ्कते - न चेति टीका / यथा त्वयोक्तं घटप्रागभावस्य प्रतियोगी घटः तथा घटध्वंसोऽपि / यद्यप्येवं दो प्रतियोगिनौ भवतस्तथापि यत्किञ्चितप्रतियोगिनो घटस्यैव ज्ञानं कारणं न तु घटध्वंसरूपप्रतियोगिनोऽपि ज्ञानं कारणम् / इदं तदा स्यात् यदि घटप्रागभावस्यापि घटध्वंसः प्रतियोगी स्यात्. न चैवमस्ति घटप्रागभावस्य प्रतियोगी घटध्वंस एव न भवतीति शङ्कार्थः / समाधत्ते - अन्येतरेति टीका / तथा च प्रागभावप्रध्वंसयोः परस्परविरहरूपत्वं यदि नास्ति यथा घटघटाभावयोः परस्परविरहरूपं नास्ति / तथा घटप्रागभावघटध्वंसयोः परस्परविरहरूपत्वमस्त्येवेति प्रतियोग्यनुयोगिभाव इति तदा घटपटयोः परस्परविरहरूपत्वाभावेन घटकालेऽपिपटसत्त्ववत् घटप्रागभावकालेऽपि घटध्वंससत्त्वापत्तिस्तथा च घटप्रागभावस्य यथा घटः प्रतियोगी तथा घटध्वंसोऽपि घटप्रागभावस्य प्रतियोगी एवं घटध्वंसस्यापि घटप्रागभावः प्रतियोगी।एवं घटप्रागभावस्य नानाप्रतियोगित्वेऽपि घटप्रागभावो घटेनैव निरूप्यते तद्वत् जलभेदस्य जलत्वं प्रतियोगि तथा जलमपीति तेन जलभेदोऽपि यत्किञ्चित्प्रतियोगि जलं तेन निरूप्य एव न तु नानाप्रतियोगिनिरूप्यः। एतदेवाह - अन्यतरोन्मजनेति टीका। यदिघटप्रागभावस्याभावो घटध्वंसो न भवति तदा घटध्वंसकाले घटप्रागभावोन्मजनं स्यात्. अथ घटध्वंसस्याप्यभावो यदि घटप्रागभावो न भवति तदा घटप्रागभावकाले घटध्वंसनोन्मज्जनापत्तिर्घटध्वंस एव तदा स्यात्, तथा चानयोरपि परस्परप्रतियोगित्वमेव / ततः प्रकृते किमागतमित्यत आह - तथा चेति टीका। तथा च तस्य जलादिभेदस्योभयप्रतियोगित्वे उभयं जलत्वं जलं च एतदुभयप्रतियोगित्वेऽपि जलभेदस्तु पूर्वोक्तरीत्या जलेनैव निरूप्यते / कोऽर्थः ? जलभेदज्ञाने जलत्वप्रकारकं जलज्ञानमेव कारणं न तु जलत्वत्वप्रकारकं जलत्वज्ञानं कारणं येन जलत्वत्वस्य जलभेदर्घाटततया जलभेदस्यापि जलत्वात्यन्ताभावरूपतया पुनर्जलत्वात्यन्ताभावज्ञानेऽपि जलत्वत्वप्रकारकजलत्वज्ञानस्य कारणतयाऽऽत्माश्रयानवस्थादिकं स्यात्। तथा च जलभेदस्तु [133 A] जलत्वप्रकारकजलज्ञानेनैव निरूप्यते न तु जलत्वात्वाप्रकारकजलत्वज्ञानेन निरूप्यते इति कृत्वा नानवस्था / ततः सिद्धं जलान्योन्याभावो जलत्वात्यन्ताभावश्चैक एवेति। एतन्मतं दूषयति - अत्रेदं चिन्त्यमिति टीका। चिन्त्यत्वं दर्शयति - अन्योन्या