________________ 266 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका जलत्वत्वमित्यर्थः / जलत्वत्वं नामसकलजलवृत्तित्वे सति जलेतरावृत्तित्वम्।सत्यन्तं करकत्वे तिव्याप्तिवारणार्थं तस्यापि जलेतरावृत्तित्वात्। सकलजलवृत्तित्वं प्रमेयत्वेऽतिव्याप्तिस्तद्वारणार्थं जलेतरेत्यादि। ततोऽपि किमित्यत आह - तदितरत्वमपीति टीका। तदितरत्वं नामजलेतरत्वम्, तथा चजलेतरत्वं नाम जलान्योन्याभावत्वम्, तस्य जलत्वात्यन्ताभावातिरिक्तस्य त्वयाऽनङ्गीकारात् जलान्योन्याभावो हि जलत्वात्यन्ताभाव एव / तथा च तादात्म्य जलस्य जलत्वं तदत्यन्ताभावप्रत्यक्षे जलत्वत्वावच्छिन्नजलत्वज्ञानमपेक्षितम् / तथा च प्रकृते पृथिव्यां जलत्वात्यन्ताभावज्ञाने जलत्वत्वावच्छिन्नजलत्वज्ञानं कारणं जलत्वत्वज्ञाने च जलत्वात्यन्ताभावज्ञानं कारणं यतो जलत्वत्वस्य जलेतरघोटतमूर्तिकत्वात् जलेतरत्वस्य जलत्वात्यन्ताभावरूपत्वात्। तथा चान्योन्याश्रयात्माश्रयानवस्थाभिया पूर्वोक्तरीत्याजलान्योन्याभावजलत्वात्यन्ताभावयोर्भेदो वक्तव्य एवेति शङ्काग्रन्थार्थः। समाधत्ते - अभावस्येति टीका / जलत्वात्यन्ताभावजलान्योन्याभावयोरवश्यं भेदो वक्तव्यः इत्युक्ते. प्राह / न हि प्रतियोगितावच्छेदकप्रकारकयावत्प्रतियोगिज्ञानमभावप्रत्यक्षे कारणं तदा बाधकमाह - अत एवेति टीका / घटप्रागभावघटध्वंसयोः परस्परविरहरूपत्वेन परम्परप्रतियोगित्वनियमात् घटध्वंसवति घटप्रागभावो नास्तीति प्रतीतिर्जायते / घटप्रागभावविरहरूपत्वं वर्तते [132 A] घटध्वंसस्य इति कृत्वा घटप्रागभावप्रतियोगित्वमपि वर्तते घटध्वंसस्य तथा च घटप्रागभावस्यापि घटध्वंसनिरूप्यत्वं स्यात् / वस्तुगत्या सिद्धान्ते घटप्रागभावस्य घटोऽपि प्रतियोगी घटध्वंसोऽपि प्रतियोगी यथा घटवति कपाले घटप्रागभावो नास्ति तथा घटध्वंसवत्यापि कपाले घटप्रागभावो नास्तीति प्रतीतिः, एवं च इह कपाले घटो भविष्यतीति घटप्रागभावप्रत्यक्षे घटज्ञानवत् घटध्वंसलक्षणप्रतियोगिनोऽपिज्ञानं कारणं स्यात्।यावत्प्रतियोगिज्ञानमभावप्रत्यक्षे कारणं तदा घटप्रागभावप्रत्यक्षे घटज्ञानवत् घटध्वंसज्ञानमपि कारणं स्यात् घटध्वंसस्याप्युक्तरीत्या घटप्रागभावस्य प्रतियोगित्वात् / न चैवमिष्टापत्तिरिति वाच्यम्, घटध्वंसाज्ञानदशायामपि केवलं घटत्वप्रकारकघटज्ञानादेव घटो भविष्यतीति घटप्रागभावनिरूपणात् / तथा च यावत्प्रतियोगिज्ञानमभावप्रत्यक्षे न कारणम्, तथा च प्रतियोगितावच्छेदकप्रकारकयत्किञ्चित्प्रतियोगिज्ञानं कारणम् प्रतियोगिज्ञानमात्रस्य कारणत्वे प्रतियोगिज्ञानं घटज्ञानं [तानिर्विकल्पकज्ञानादपि घटाभावप्रत्यक्षापत्तिः / अतः प्रतियोगितावच्छेदकप्रकारकं प्रतियोगिज्ञानं कारणम् / तथा च प्रकृते जलान्योन्याभावजलत्वात्यन्ताभावयोरैक्यमेवेति / यदा जलत्वात्यन्ताभावत्वप्रकारकं ज्ञानं जलान्योन्याभावस्य जायते इह जलत्वं नास्तीतिरूपं तदा जलत्वलक्षणप्रतियोगिनो ज्ञानमपेक्षितम्, यदा तु तस्यैव जलत्वात्यन्ताभावलक्षणस्य जलान्योन्याभावस्य ज्ञानं जायते यथा इदं जलं न भवतीति रूपं तदा जललक्षणप्रतियोगिज्ञानं कारणं न तु अत्र जलत्वत्वप्रकारकं जलत्वज्ञानमपि कारणम् अभाज्ञानस्य यावन्तः प्रतियोगिनस्तद्ज्ञानजन्यत्वानभ्युपगमात् / एवं च सति जलान्योन्याभावजलत्वात्यन्ताभावावेक एव परं पूर्वोक्तात्मा