________________ केवलव्यतिरेक्यनुमाननिरूपणम् 265 घटत्वस्य चेत् तर्हि तस्य घटान्योन्याभावस्यापि घटत्वात्यन्ताभावरूपत्वनियमः / अत्रैवोपष्टम्भकमाह - अत एवेति / तथा चात्यन्ताभावप्रतियोगिनोः परस्परविरहरूपतानियमः / स नियमो घटान्योन्याभावघटत्वयोरपि तिष्ठत्येव / ततो घटान्योन्याभावो घटत्वात्यन्ताभावाभिन्नः घटत्वविरहरूपत्वात् / तथा च घटत्वविरहो घटान्योन्याभावात्यन्ताभावयोरुभयोरपि भवति / तथा च यत्र यत्र घटत्वविरहरूपत्वं तत्र तत्र घटत्वात्यन्ताभावाभिन्नत्वं यथा घटत्वात्यन्ताभावे, एवं जलान्योन्याभावोऽपि जलत्वात्यन्ताभावाभिन्नं जलत्वविरहरूपत्वात् जलत्वात्यन्ताभाववत्। अत्र शङ्कते - नचेति टीका। तथा चजलान्योन्याभावस्यात्यन्ताभावो जलत्वरूपः, तथा च जलत्वविरहरूपत्वं जलान्योन्याभावेऽसिद्धमेव, ततोऽनेनासिद्धेन हेतुना कथं जलत्वात्यन्ताभावाभेदसाधनमित्याशङ्कार्थः / समाधत्ते - अपसिद्धान्तादिति टीका। अपसिद्धान्तमेव विवृणोति - अत एवेति टीका / केवलान्वयिग्रन्थो घटान्योन्याभावात्यन्ताभावस्तु प्रतियोगिवृत्तिरसाधारणो धर्मो घटत्वमेव तथा च घटत्वात्यन्ताभावघटान्योन्याभावयोरेकत्वमेव / अत्रैव साधकान्तरमाह - एकेनैवेति टीका / एकेनैव घटत्वात्यन्ताभावेनैव घटान्योन्याभावव्यवहारोपपत्तौ तदतिरिक्तान्योन्याभावकल्पने प्रमाणाभावात् / एतावतोक्तं घटत्वात्यन्ताभावो घटान्योन्याभावश्चैक एवेति। अत्राशते - नन्विति टीका / अयमाशयः / जलत्वात्यन्ताभावग्राहिका सामग्री भिन्ना जलान्योन्याभावग्राहिका चसामग्री भिन्नाऽवश्यं वक्तव्यैवान्यथायदि जलत्वात्यन्ताभाव एव चेजलान्योन्याभावस्तदा प्रतियोगितावच्छेदकप्रकारकप्रतियोगिज्ञानमभावप्रत्यक्षसामग्री यथा घटत्वप्रकारकघटज्ञानं घटाभावप्रत्यक्षसामग्री तद्वत् / तथा च यदि जलान्योन्याभाव एव जलत्वात्यन्ताभावस्तदाऽत्रापि जलत्वात्यन्ताभावग्रहे जलत्वत्वरूपप्रतियोगितावच्छेदकप्रकारकजलत्वरूपप्रतियोगिज्ञानमभावप्रत्यक्षसामग्री, ततो जलत्वत्वं नाम सकलजलवृत्तित्वे सति जलेतरावृत्तित्वम् / अत्र जलेतरं नाम जलान्योन्याभावः, जलान्योन्याभावो [131 B] नाम जलत्वात्यन्ताभावः, अत्रापि जलत्वात्यन्ताभावज्ञानसमग्री जलत्वत्वप्रकारकं जलत्वज्ञानम्, जलत्वत्वं नामात्रापि सकलजलवृत्तित्वे सति जलेतरावृत्तित्वम्, तथा चात्माश्रयानवस्थे। तथा च जलत्वात्यन्ताभावज्ञाने जलत्वत्वज्ञानमपेक्षितम्, जलत्वत्वं तु जलान्योन्याभावगर्भं न भवति किन्तु जलत्वात्यन्ताभावगर्भमेव, तथा च जलत्वात्यन्ताभावज्ञाने जलत्वात्यन्ताभावज्ञानं कारणमागतमिति कृत्वाऽऽत्माश्रयः / तत्राप्यत्यन्ताभावान्तरज्ञानस्यापि कारणत्वेऽनवस्था स्यात् / एतदेवाह - जलत्वत्वेति / तथा च जलत्वत्वज्ञानं विना जलत्वात्यन्ताभावो न निरूप्यते, न तस्य जलत्वान्यन्ताभावस्य प्रत्यक्षत्वमित्यर्थः / कुत इत्यत आह - प्रतियोगितावच्छेदकेति टीका। यतः कारणात् प्रतियोगितावच्छेदकप्रकारकप्रतियोगिज्ञानमभावप्रत्यक्षे कारणम् / अत्र जलत्वात्यन्ताभावस्य प्रतियोगि जलत्वं प्रतियोगितावच्छेदकं च जलत्वत्वं तथा च जलत्वत्वप्रकारकजलत्वज्ञानस्य जलत्वाभावप्रत्यक्षे हेतुत्वात् / ततः किमित्यत आह - तच्चेति टीका। तच्च