________________ 264 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका एव सिद्धयति न तु भेदरूपोऽन्योन्याभावः व्याप्यव्यापकमध्ये प्रवेशादित्याशङ्कार्थः / समाधत्ते - अत्राहुरिति / जलादिव्यापकतया इत्यत्र जलादिपदं जलादितादात्म्यपरम्, तथा च जलतादात्म्यं जलत्वं यत्र यत्र जलत्वंतत्र तत्र पृथिवीत्वाभावो यथा करकासु / अत्र शङ्का - जलत्वव्यापकतया गृहीतस्य हेत्वभावस्य पृथिवीत्वाभावस्य तदभावेन पृथिवीत्वेन हेतुना जलत्वात्यन्ताभावः पृथिव्यां सिद्धयेत् न तु जलान्योन्याभावः, जलान्योन्याभावस्य जलत्वात्यन्ताभावरूपत्वाभावादित्याशयेनाशङ्कते-नचैवमितिटीका। तथा चपृथिव्यां जलत्वादीनामत्यन्ताभाव एव सिद्धः न तु जलान्योन्याभावः सिद्धयेत् / वस्तुगत्याऽन्योन्याभावो भेदपदेन विवक्षित इत्याशङ्कार्थः / समाधत्ते - यथाहीति टीका। यथा हेत्वभावव्याप्यतया गृहीतस्य जलत्वस्यात्यन्ताभावः सिद्धयति। यदा यत्र यत्र जलत्वं तत्र पृथिवीत्वाभाव इति तदा तदवच्छिन्नो जलत्वावच्छिन्नोऽन्योन्याभावो जलान्योन्याभावोऽपि पृथिव्यां सिद्धयेत् / एवं चायं नियमः - यत्पदार्थव्याकतया गृहीतो यो हेत्वभावः तदभावेन हेतुना तदत्यन्ताभाववत् तदवच्छिन्नान्योन्याभावोऽपि सिद्धयति यथा जलत्वव्यापकतया पृथिवीत्वाभावश्चेद् गृहीतस्तदा पृथिवीत्वाभावाभावेन पृथिवीत्वेन यः पदार्थो जलत्वरूपो व्याप्यतया गृहीतस्तदवच्छिन्नो जलत्वावच्छिन्नो जलान्योन्याभावोऽपि पृथिव्यां सिद्धयति / एतदेवाह - तथेति टीका / ननु मूले उक्तं तदत्यन्ताभाव एव सिद्ध्यतीति, मूलेन सह विरोध इत्यत आह - एवं चेति टीका / मूले अत्यन्ताभाव इति यदुक्तं तदुपलक्षणं तदवच्छिन्नो जलत्वावच्छिन्नोऽन्योन्याभावोऽपि द्रष्टव्यः / ननु तथापि व्यापकाभावेन पृथिवीत्वेन व्याप्यं यजलत्वं तदभावज्ञानावश्यंभावादित्यनेन मूलेन सह विरोधो यतो जलत्वरूपव्याप्याभावावश्यंभाव इत्येवोक्तम् न तु व्याप्यावच्छिन्नान्योन्याभाव इत्युक्तमित्यत आह - व्याप्याभावेति टीका / व्याप्याभाव इत्यत्राप्युलक्षणं व्याप्यावच्छिन्नान्योन्याभावोऽपि द्रष्टव्यः। मतान्तरमाह - केचित्तु इति। एतन्मते य एव जलत्वात्यन्ताभावः स एव जलान्योन्याभावः / तथा च य एव जलत्वात्यन्ताभावः स एव चेजलान्योन्याभावस्तत्सिद्धौ विरोधाभावादित्यर्थः / ननु जलत्वात्यन्ताभाव एव जालान्योन्याभावः कथं स्यात् तयोर्भेदादित्यत आह - जलाद्यन्योन्याभाव इति टीका। तथा च जलत्वस्य यथा जलत्वात्यन्ताभावेन सह विरोधः तथा जलत्वस्य जलान्योन्याभावेन सह विरोधस्तिष्ठत्येव / यथा यत्र जलत्वं तत्र जलान्योन्याभावरूपो जलभेदो न भवतीति विरोधात् / जलत्वात्यन्ताभावजलान्योन्याभावयोरन्यूनानतिरिक्तदेशवृत्तित्वनियमात् यत्र यत्र जलत्वात्यन्ताभावस्तत्र तत्र जलान्योन्याभावोऽवश्यं तिष्ठति तथा चैकेनैव[131A]जलत्वात्यन्ताभावेनैव जलान्योन्याभावव्यवहारोपपत्तौ जलत्वात्यन्ताभावातिरिक्तजलान्योन्याभावकल्पनेप्रमाणाभावात्यथा यत्रघटत्वात्यन्ताभावस्तत्रावश्यं घटान्योन्याभावोऽस्त्येव यथा कपाले तदुभयसम्भवः / अत्र साधकमाह - यत्पदार्थेति टीका / अयमाशयः - यदन्योन्याभावास्य] अत्यन्ताभावरूपत्वं यस्य तस्य तत्पदार्थात्यन्ताभावरूपत्वात् / यथा घटान्योन्याभावस्यात्यन्ताभावरूपत्वं