________________ केवलव्यतिरेक्यनुमाननिरूपणम् 263 सा न स्यात् / कुतः ? यतो वस्तुगत्या सुखव्यापकतया विशिष्टशरीरित्वाभावो गृहीतः / कुतः ? यतः कारणात सुखस्यैव दुःखाभावत्वेन ग्रहणात्। तथा च तत्र सुखस्य व्यापकतया यदि हेत्वभावो गृहीतस्तदा हेत्वभावाभावेन विशिष्टशरीरित्वेन सुखव्यापकत्वेन हेत्वभावो गृहीत इति चेत् [130 A] सुखाभावस्यैवानुमितिः स्यात् न तु दुःखानुमितिः / यदि यदात्मतया गृह्यमाण इति चेत् व्याख्यायते तदा दुःखानुमितिरेव समर्थिता भवति। कथमिति चेत् सुखं दुःखाभावात्मकत्वेन गृहीतं यदा यदात्मकतया गृहीतं तदा तदात्मकतयाऽभावस्यैव सिद्धिरिति / सुखं यदि दुःखात्मतया गृहीतमतो यदात्मकतया गृहीतं तदात्मकतयाऽभावः सिद्धयति, तथा च दुःखाभावात्मकतया सुखव्यापकता यदि हेत्वभावे गृहीता तदा दुःखाभावाभावो दुःखं तस्यैवानुमितिः स्यात् / यदा धूमाभावस्य घटात्मकतया वयभावव्यापकता यदि धूमाभावे गृहीता तदा धूमाभावाभावेन धूमेन घटाभाव एव सिद्धयति न तु वह्नयभाव इति दिक्। एतदेवाह - अन्यथेति। यदि यदात्मकतयेति न व्याख्यायते तदेत्यर्थः / इतरस्येतीति टीका। इतरस्य जलादेरित्यत्र यत्र यत्र जलं तत्र पृथिवीत्वाभाव इत्येवं व्याप्यव्यापकभावो नास्ति। संयोगसम्बन्धेन जलं वर्तते पृथिव्याम् तत्र पृथिवीत्वाभावो नास्तीत्यन्याभिप्रयेणाशङ्कते - नन्विति टीका। तथा च जलादीनां वृत्तिमत्तया कदाचित् केनापि सम्बन्धेन पृथिवीत्वाभावेन व्याप्तिर्भविष्यति परम् आत्मादीनां सर्वथाऽवृत्तित्वात यत्रात्मा तत्र पृथिवीत्वाभाव इत्येवं नास्ति / आत्मनोऽवृत्तित्वात् व्याप्यव्यापकभावाभावेन कथमात्मादीनामन्योन्याभावः पृथिव्यां सिद्धयति / न चाकाशात्मादीनाम् इह आकाशात्मादीति प्रतीत्या वृत्तिमत्त्ववादिमते व्याप्तिर्भविष्यति यत्रात्मांशस्तत्र पृथिवीत्वाभाव इत्यत आह - सम्भवे वेति / यस्य व्यापकतया हेत्वभावो गृहीतस्तदभावाभावेन हेतुना तदत्यन्ताभाव एव सिद्धयति न तु तदन्योन्याभावः, यथा जलत्वव्यापकतया धूमाभावश्चेद्गृहीतस्तदाधूमाभावाभावेन धूमेन जलत्वात्यन्ताभाव एव सिद्ध्यति। यत्र जलत्वंतत्रधूमात्यन्ताभाव इति त्वया या व्याप्तिरुक्ता यद्व्यापकतयेत्यादिना तत्रान्योन्याभावः प्रविष्ट एव नास्ति / तथा चात्मादीनां यदि पृथिवीत्वात्यन्ताभावेन सह व्याप्तिर्गृहीता तदा आत्मादीनामत्यन्ताभाव एव पृथिव्यां सिद्धयति, न त्वात्मादीनामन्योन्याभावः पृथिव्यां सिद्धयति / यद्यपि पृथिव्यामात्मादीनामन्योन्याभावोऽस्ति तथापि स एतादृशव्याप्तिबलान्न सिद्धयति. व्याप्तिमध्येऽभावरूपतयाऽत्यन्ताभावस्यैव प्रवेशात् / यत्र वह्नयभावस्तत्र धूमाभाव इत्यनया व्याप्त्या वह्नयभावस्यात्यन्ताभावो वह्निर्यथा सिद्धयति तथा घटोऽपि कुतो न सिध्यति ? तंत्र च वह्नयभावाभावरूपतया वह्वेरेव प्रवेशात् वह्रिसिद्धिर्न तु पर्वतरूपादीनां तेषां वन्यभावाभावरूपत्वाभावात् / तथा चात्मादीनामत्यन्ताभाव एव पृथिवीत्वाभावाभावेन पृथिवीत्वेन सिद्धयतु न तु आत्मादीनामन्योन्याभाव इति / तथा चात्मादीनामन्योन्याभावस्यासिद्धत्वात् कथं त्रयोदशान्योन्याभावसिद्धिरिति / एतदेवाह [130 B] - हेत्वभावेति टीका।हेत्वभावः पृथिवीत्वाभावस्तद्वयाप्यतया गृहीतस्यात्मादेरत्यन्ताभाव