SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ 262 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका कुत इत्यत आह - वन्यभावेति / तथा च यदा पर्वतो वह्निमान् धूमात् इत्यत्र भावरूपो वह्निः साध्यते यत्र वढ्यभावस्तत्रधूमाभाव इति व्यतिरेकव्याप्त्या वह्नयभावव्यापकधूमाभावाभावेन धूमेन वह्नयभावाभावरूपस्य वह्वेरनुमितिसम्भवे विरोधाभावादित्यर्थः / एवं पूर्वोक्तरीत्या यदि सात्मकत्वरूपसाध्यप्रसिद्धिर्जाता तदा यत्र सात्मकत्वाभावस्तत्र प्राणादिमत्त्वाभावो यथा घटे इति व्यतिरेकव्याप्त्या प्राणादिमत्त्वाभावाभावेन सात्मकत्वाभावाभावरूपसात्मकत्वसिद्धौ विरोधो नास्तीत्याह - भावरूपसात्मकत्वादेरिति टीका। ननु तथापि सात्मकत्वरूपसाध्यप्रसिद्ध्यभावे कथं व्यतिरेक्यनुमितिरित्यत आह - इयानेवेति / तथा च यत्र यत्र भावरूपसाध्यस्य[129B]वढ्यादेर्व्यतिरेक्यनुमितिस्तत्र साध्यप्रसिद्धिरङ्गम्, यत्र चाभावरूपस्याप्रामाण्याभावस्य नैरात्म्याभावस्य चव्यतिरेक्यनुमितिस्तत्र साध्यप्रसिद्धिर्नाङ्गमित्यर्थः / अत्रेतिभावरूपसाध्यस्य व्यप्तिरेक्यनुमितावित्यर्थः / योऽभाव इति मूलं व्याचष्टे - यदात्मतयेति टीका / यदात्मतया येन प्रकारेण गृह्यमाणस्य पदार्थस्य व्यापकतया हीनो यो हेत्वभावस्तेन हेत्वभावाभावेन हेतुना तत्प्रकारावच्छिन्नप्रतियोगिकाभाव एव सिद्धयति / कुत इत्यत आह - तेनेति टीका। अन्यथा यथाश्रुते सुखस्य दुःखाभावत्वेन प्रकारेण गृहीतस्य व्यापकतया यत्र हेत्वभावः शरीरित्वाभावो गृहीतस्तदभावेन शरीरित्वेन दुःखाभावाभावो दुःखं तद्विशिष्टानुमितिर्न स्यात् किन्तु सुखानुमितिरेव स्यात् येन सुखं भ्रमेण दुःखाभावत्वेन गृहीतं तत्र दुःखानुमितिर्जायते सा न स्यात् किन्तु सुखानुमितिरेव स्यात् / कथम् ? / यथाश्रुतव्याप्तिनियमस्तत्रापि तिष्ठति / तथाहि यत्पदार्थः सुखं तद्व्यापकतया गृहीतो यः दुःखसामग्रीविशेषविशिष्टशरीरित्वाभावो यत्र यत्रसुखं तत्र तत्र दुःखसामग्रीविशेषविशिष्टशरीरित्वाभावो यथा इन्द्रादौ तथा च तेन शरीरित्वाभावाभावेन विशिष्टशरीरित्वेन सुखाभावानुमितिरेव स्यात् न तु दुःखानुमितिः, वस्तुगत्या दुःखानुमितिस्तेन वर्तते सा न स्यात् / यदा च यदात्मतयेति व्याख्यातं तदा तत्प्रकारतया गृहीतस्य पदार्थस्य व्यापकतया गृहीतो हेत्वभावस्तत्र दुःखाभावाभावस्य दुःखस्यैवानुमितिर्जायते न सुखस्य / एवं च यत्र जलत्वत्वेन रूपेण वह्नयभाव एव गृहीतो यत्र जलत्वं तत्र धूमाभावो यत्प्रकारक एव पदार्थग्रहस्तत्प्रकारिकेव व्याप्तिः तथा च जलत्वत्वेन रूपेण वह्नयभावव्यापकतया गृहीतो यो धूमाभावस्तदभावेन धूमेन या जलत्वाभावत्वप्रकारिकानुमितिर्भवति साऽनुमितिर्न स्यात् वस्तुगत्या च जलत्वत्वेन प्रकारेण गृहीतस्य वढ्यभावस्य व्यापकतया गृहीतो यो धूमाभावो यत्र जलत्वं तत्र धूमाभावः कुतः ?, यतो वह्नयभावस्यैव जलत्वात्मतया गृहीतत्वात्, तत्र या जलत्वाभावानुमितिः सा वर्तत एवेत्यर्थ / अयमर्थः / व्याख्यानबीजमिदमेव / यत्र सुखमेव भ्रमेण दुःखाभावात्मतया गृहीतं सुखे एव दुःखाभावस्य भ्रमो जातस्तद्व्यापकतया गृहीतो यो विशिष्टशरीरित्वाभावो यथाऽयं दुःखवान् विशिष्टशरीरित्वात् यत्र यत्र दुःखाभावस्तत्र दुःखसामग्रीविशिष्टशरीरित्वाभावो यथेन्द्रादौ तथा चएतादृशव्याप्तिज्ञानं यस्य विद्यते तस्य विशिष्टशरीरित्वाभावभावेन विशिष्टशरीरित्वेन या दुःखस्यैवानुमितिर्जायते
SR No.004316
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorNagin G Shah
PublisherB L Institute of Indology
Publication Year2005
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy