SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ केवलव्यतिरेक्यनुमाननिरूपणम् 261 व्यतिरेकिणि वह्निप्रतियोगिकत्वेन घटाभाव एव ज्ञातस्तदा घटाभावव्यापकाभावप्रतियोगिधूमवत्त्वज्ञानात् घटाभावाभवस्य घटस्य या भ्रमरूपाऽनुमितिर्जायते स्या(सा) न स्यात् / यतो वस्तुगत्या वढेरभावो घटाभावो न भवति ततो वस्तुगत्या साध्याभावव्यापकाभावप्रतियोगिमत्तया पक्षज्ञानं कारणं न भवतीत्यर्थः / समाधत्ते - य इति मूलम् / साध्याभावत्वेन रूपेण साध्याभावस्य अथवा वस्तुगत्याऽपि वा साध्याभावस्य न प्रवेशः किन्तु यत्पदार्थस्य व्यापकत्वेन योऽभावो गृहीतः तदभावाभावेन तत्पदार्थस्य व्याप्यस्याभावः पक्षे सिद्ध्यति। एवं च सति यथा जलादिव्यापकत्वेन पृथिवीत्वाभावो गृहीतो यत् जलं तत्रपृथिवीत्वाभाव इति कृत्वा पृथिवीत्वाभावाभावेन पृथिवीत्वेन जलादिभेद एव सिद्धयति यथा यजलादिकं तत्र तत्र पृथिवीत्वाभाव इति जलादीनां पृथिवीत्वाभावो व्यापकः तत्प्रतियोगिमत्त्वेन पृथिवीत्वेन व्याप्यरूपो यत्पदार्थो जलं तदभाव एव न सिद्धयतीति न साध्याभावत्वेन रूपेण साध्याभावप्रवेश: किन्तु यत्त्वेनैव रूपेण साध्यभावस्य [129 A]प्रवेशः / एतदेवाह - तस्येति मूलम् / यस्य तस्येत्यनेन सम्बन्धः / एवं च व्यतिरेक्याभासमपि समर्थयति / इतीति मूलम् / तथा च व्यतिरेक्याभासस्थलेऽपि यदि घटाभावव्यापकत्वेन पटादिव्यापकत्वेन वाधूमाभावो गृहीतस्तदा धूमाभावाभावेनधूमेन घटाभावः घटादीनामप्यभाव एव सिद्धयतीति व्यतिरेक्यभावोऽप्युपपन्न एवेति।अनतिप्रसक्तस्येतिमूलम्।यद्यपि साध्याभावसमानाधिकरणाभावप्रतियोगिमत्त्वं व्यभिचारिणि धूमवान् वह्नः इत्यत्र धूमाभावसमानाधिकरणो यो वह्नयभावस्तत्प्रतियोगिमत्त्वं यद्यपि वह्नौ तिष्ठति तथापि धूमाभावव्यापकाभावप्रतियोगित्वं वह्नौ नास्ति। कथम् ? यतो यत्र धूमाभावस्तत्र वह्नयभाव इति व्याप्तेरभावात्। इति कृत्वा व्यभिचारिणि नातिव्याप्तिः / ननु साध्या प्रसिद्धौ परार्थानुमानं कथं स्यात् यतः साध्याप्रसिद्धौ परं प्रति प्रतिज्ञाद्यसम्भवात् इत्यत आहअयं चेति मूलम् / सर्वोऽप्यप्रसिद्धसाध्यको व्यतिरेकिप्रकार: स स्वार्थानुमानमेव स्वार्थानुमाने पञ्चावायव]प्रयोगाभावात् / स्वयमेव यजलादि तत् पृथिवीत्वाभाववदिति व्याप्तिं गृह्णाति, तदा व्यतिरेकी सिद्ध एवेति दिक् / - अथ टीका / अन्ये त्विति मतं योजयितुं भूमिकामाह - व्यतिरेकिणीति टीका / ये च वास्तवं साध्याभावव्यापकाभावप्रतियोगित्वमेव गमकम् / अत्र वास्तवत्वमापाततः किन्तु यस्य व्यापकत्वेन हेत्वभावो गृहीतस्तदभावेन हेतुना तस्याभाव एव सिद्धयतीत्यर्थः / अत्र एवकारः व्यावृत्त्यर्थमाह - नन्विति टीका / ननु साध्याभावत्वेन तस्योपस्थितिः येन साध्यप्रसिद्धेरपेक्षा स्यादित्यर्थः / साध्याभावत्वप्रवेशे किं बाधकम् इत्यत आह - गौरवादिति टीका / तथा च साध्याभावत्वेन रूपेण साध्याभावव्यापकाभावप्रतियोगिज्ञानं किमर्थं साध्याभावत्वांशप्रवेशे गौरवम् / लाघवात् यद्व्यापकतया हेत्वाभावो गृह्यते तादृशहेत्वभावाभावेन हेतुना तस्याभावः सिद्धयतीति लाघवमित्यर्थः / अत्र प्रथम एवास्वरसबीजमाह - अभाव एवेति टीका / मूले यदुक्तं व्यतिरेकिणि अभाव एव सिद्धयतीत्युक्तं(सिद्धयतीति युक्तं) परं भावरूपं साध्यं न भवतीति यदुक्तं तन्न युक्तम्,
SR No.004316
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorNagin G Shah
PublisherB L Institute of Indology
Publication Year2005
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy