________________ 260 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका साध्यत इत्यर्थः / अत्राशङ्कते - नन्विति मूलम् / तथा चेतरभेदरूपसाध्याप्रसिद्धौ साध्यरूपविशेषणज्ञानाभावेन कथं साध्यविशिष्टज्ञानानुमितिरित्यर्थः / पृथिवी इतरभेदवतीत्यनुमितिर्न स्यादित्यर्थः / समाधत्ते - पक्षे इति। तथा मास्तु / साध्यविशेषणकः पक्षविशेष्यको विशिष्टबोधः पृथिवी इतरभेदवतीति विशेषणविशेष्यभावो न किन्तु पक्षविशेषणकसाध्यविशेष्यक एव बोधः यथा पर्वते वह्रिरित्यादिवत्, अयमपि यथा पृथिव्यामितरभेदस्तथा च पृथिव्या विशेषणत्वं यत् साक्षात्क्रियान्वयि तद् विशेष्यमितरद् विशेषणं क्रियाश्रययोग्यत्वं यतः पृथिव्यामितरभेदस्तिष्ठति। अत्रास्थानलक्षणक्रियया सह साक्षादितरस्यैवान्वयः / न तु पृथिव्या इति विशेषणमित्यर्थः। अत्रार्थे दृष्टान्तमाह - भूतले इति मूलम् / भूतले घटो नास्तीत्यत्राभावविशेष्यकभूतलविशषेणकोऽत्रास्तीति क्रियाया नअर्थेन सहान्वयात् प्रतियोगित्वेन घटो विशेषणं भूतलमधिकरणत्वेन विशेषणं प्रतियोगित्वानुयोगित्वे स्वरूपसम्बन्धविशेषौ प्रतीतिरूपफलबलकल्पः(ल्प्यः) स्वरूपसम्बन्ध इत्यर्थः / अभावेति मूलम् / न हि सर्वत्राभावविशेषणकभूतलविशेष्यक एव बोधः किन्तु प्रत्यक्षे भूतले घटो नास्तीति स्थले भूतलविशेषणकघटाभावविशेष्यकोऽपि बोधो जायते / नियमो नास्ति। भूतलं घटाभाववत् इत्यत्र भूतलमपि विशेष्यम्, तद्वत् अनुमितावपि कदाचित् पक्षविशेषणकसाध्यविशेष्यको बोध: कदाचिच्च पक्षविशेष्यकसाध्यविशेषणकोऽपि बोधो भवति। यत्र च साध्यप्रसिद्धिस्तत्र साध्यविशेषणको बोधः, यत्र साध्यमप्रसिद्धं तत्र साध्यविशेष्यको बोधः इत्युक्तसामग्रीवशात् तादृशबोधवैचित्र्यम् / यदा साध्यं विशेषणत्वेन भासते तदैव साध्यप्रसिद्धिरपेक्ष्या, यदा तु साध्यं विशेष्यं तदा न इति स्पष्टोऽर्थः। शङ्कते - तथापीति मूलम् / तथा च व्यतिरेकानुमितिसामग्री साध्याभावव्यापकाभावाभावरूपः साध्याभावस्य व्यापको योऽभावो [128 B] हेत्वभावो यथा यत्र यत्र साध्याभावस्तत्र तत्र हेत्वभावः इति रूपः तस्याभावो नाम प्रतियोगी हेतुरेव, तद्वान् यः पक्षस्तस्य ज्ञानमनुमितौ कारणम् / तथा च साध्यज्ञानं यदा नास्ति तदा साध्याभावज्ञानमपि नास्ति / अतः साध्याभावव्यापकाभावाभावरूपे हेतुमत्तया पक्षज्ञानाभावेऽनुमितिः कथं स्यादित्याशङ्कार्थः / मध्ये शङ्कते - नचेति। तथा च वस्तुगत्या यः साध्याभावस्तस्य व्यापको योऽभावो हेत्वभावस्तत्प्रतियोगिमत्तया पक्षज्ञानं कारणं नतु साध्याभावत्वेनरूपेण साध्याभावव्यापकाभावप्रतियोगिमत्ताज्ञानं कारणं किन्तु वस्तुगत्या साध्याभावेत्यादि कारणम् / तथा च साध्याभावत्वप्रकारकसाध्याभावज्ञाने एव साध्यज्ञानमेव कारणं न तु वस्तुगत्या साध्याभावज्ञाने साध्यज्ञानं कारणम् / यथा घटाभावाभावत्वेन रूपेण घटज्ञाने घटाभावज्ञानं कारणं न तु घटत्वेन रूपेण घटज्ञाने घटाभावज्ञानं कारणं तद्वत् अत्रभेदाभावत्वेन रूपेण यत्र जलादिज्ञानं तत्र इतरभेदज्ञानापेक्षा यत्र चजलत्वेन रूपेणेतरभेदाभावज्ञानं तत्र नेतरभेदज्ञानापेक्षेत्याशङ्कार्थः / दूषयतिमूलं व्यतिरेक्याभासेति। तथा वन्यभावत्वेन घटाभावो ज्ञातस्तत्र घटाभावव्यापकाभावप्रतियोगी यो धूमस्तत्प्रतियोगिमत्तया व्यतिरेकिणो भ्रमरूपाऽनुमितिर्न स्यात्। पर्वतो वह्निमान् धूमात् इत्यत्र