SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ केवलव्यतिरेक्यनुमाननिरूपणम् 259 प्रकारकनिश्चयत्वात्। यन्नैवं तनैवं यथा वन्यप्रमापदकृत्यं यथा साध्ये वह्नित्वाभाववद्विशेष्यकत्वे सति वह्नित्वप्रकारकत्वमप्रामाण्यं तदभावः साध्यम्। इदमप्रमाण्याभावरूपं यत् साध्यं प्रामाण्यरूपं तदप्यप्रसिद्धमेव सिद्धयति अप्रामाण्याभावरूपसाध्यस्य प्राथमिकाप्रामाण्यग्रहस्थले प्रामाण्यस्याप्रसिद्धत्वात्। अत्राप्रामाण्याभावरूपसाध्यस्य प्रसिद्धयभावेऽपि अप्रामाण्याभावस्याभावोऽप्रामाण्यम्, तस्याप्रामाण्यस्य [127 B] दाहसमर्थविषयकप्रयत्नजनकत्वाभावस्य च व्याप्यव्यापकभावत्वं यथा यत्र यत्र वह्नित्वाभाववद्विशेयके सति वह्नित्वप्रकारकत्वं वर्तते तत्र तत्र दाहसमर्थविषयकप्रयत्नजनकत्वाभावो यथा वन्यप्रमायां वदित्वाभाववान गुन्जापुञ्जः तद्विशेष्यकत्वे सति वह्नित्वप्रकारकत्वं वर्तते / यथा गुञ्जापुञ्जे पुरोवर्तिनि अयं वह्निरिति भ्रमः, तत्र वह्नित्याभाववान गुञ्जापुञ्जः तद्विशेष्यकत्वं वर्तते।अयंशब्दवाच्यो गुञ्जापुञ्ज एवेति, अयंवह्निरिति ज्ञाने वह्नित्वं तत्र प्रकारोऽस्ति परमप्रामाण्याभावः प्रमाण्यं नास्ति। ततो गुञ्जापुलेऽयं वह्निरिति ज्ञाने वह्नित्वाभाववद्विशेष्यकत्वे सति वह्नित्वप्रकारकत्वं वर्तते. दाहसमर्थविषयकप्रयत्नजनकत्वे सति वह्नित्वप्रकारकनिश्चयत्वमपि वर्तते। तथा चानेनानुमानेनाप्रामाण्याभावोऽप्रसिद्ध एव सिद्धयतीत्यनुमानार्थः / अथ व्यावृत्तिर्यथा अप्रामाण्याभावः साध्यते तत्राप्रामाण्यं कीदृशं यथा तद्वह्नित्वप्रकारकमित्येवास्तु तथा वह्नौ सति वह्निज्ञाने वह्निप्रमारूपे वह्नित्वप्रकारकत्वं विद्यते तदेतावत्युक्ते वह्निप्रमारूपं ज्ञानं वह्रिभ्रमः स्यादित(ति) उक्तम्। सत्यम्, वहिप्रमा च वह्नित्वाभाववद्विशेष्यिका न भवति इति तन्निरासः। सत्यन्तमात्र एवोक्ते वाहत्वाभावद्विशेष्यकत्वं यदस्ति तत् गुञ्जापुञ्जविशेष्यकं गुञ्जापुञ्जत्वप्रकारकनिश्चयत्वं वह्रिभ्रमे व्यभिचारि।यत एतादृशो हेतुस्तत्रास्ति परं साध्यं वह्नित्वाभाववद्विशेष्यकत्वे सति वह्नित्वप्रकारकत्वाभावलक्षणं साध्यं नास्तीति व्यभिचारः, तद्वारणाय दाहेत्यादिसत्यन्तम्। अथसत्यन्तमात्रे उक्ते अत्र वह्नित्वमिति ज्ञाने दाहसमर्थविषयकप्रयत्नजनकत्वं वर्तते यतस्तादृशज्ञानात्वह्निविषयिणी प्रवृत्तिर्जायते परंवह्नित्वाभाववत् यद् वह्नित्वं तद्विशेष्यकत्वात् एतस्योक्तज्ञानस्येति व्यभिचारवारणाय वह्नित्वप्रकारकनिश्चयत्वादित्युक्तम्। उक्तमर्थं योजयतिव्यधिकरणेति मूलम् / व्यधिकरणप्रकारावच्छिन्नत्वं नाम यथा वह्नित्वाभाववद्विशेष्यकत्वे सति वह्नित्वप्रकारकत्वमप्रामाण्यम्, तस्य व्यापकः समर्थप्रवृत्तिजनकत्वाभावो नाम दाहसमर्थविषयकप्रयत्नजनकत्वाभावः / यथा यत्र यत्र अप्रामाण्यं पूर्वोक्तं साध्यरूपं तत्र तत्र दाहसमर्थविषयकप्रयत्नजनकत्वाभाव इति अप्रमायां दृष्टान्ते गृहीते इति कृत्वा व्यतिरेकव्याप्तिग्रहः / ततः किमित्यत आह - विवादेति मूलम् / विवादाध्यासितोऽनुभवोऽयं [128 A] वह्निरिति ज्ञानम्, तस्मिन्ननुभवे अप्रामाण्यस्य व्यापको यः समर्थप्रवृत्तिजनकत्वाभावः तस्याभावेन समर्थप्रवृत्तिजनकत्वेन व्याप्यं यदप्रामाण्यं तस्याभावः साध्योऽप्रसिद्ध एव सिद्धयति व्यापकाभावे व्याप्याभावावश्यकत्वनियमात्। नन्वेतावताऽप्रामाण्याभावः सिद्धयतु परंप्रामाण्यं कथं सिद्धयतीत्यत आह - व्यधिकरणेति मूलम् / तथा च यत्र वह्निज्ञानं बालस्य यदा जायते तत्र प्रथममप्रामाण्याभावरूपमेव प्रामाण्यव्यतिरेकिणा
SR No.004316
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorNagin G Shah
PublisherB L Institute of Indology
Publication Year2005
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy