________________ 258 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका तत्र पृथिवीत्वाभाव इति ज्ञानं जलज्ञानं भवत्येवेति जलज्ञानं वृत्तमेवेत्यर्थः / दृष्टान्तमाह - प्रत्यक्षेणेति मूलम् / यथा घटाभावज्ञाने घटज्ञानं कारणं न तथा घटाभावाभावज्ञाने घटाभावज्ञानं कारणम् / ननु जीवच्छरीरं सात्मकं प्राणादिमत्त्वात् इत्यत्र का गतिस्तत्राभावसाध्यकत्वाभावात् अत्र तु साध्यप्रसिद्धेरपेक्षा स्यादेवेत्यत आह - एवमिति मूलम् / अन्यत्रेति। जीवच्छरीरं सात्मकं प्राणादिमत्त्वादित्यत्रेत्यर्थः / तथा चात्राप्यभाव एव साध्यस्तत्र चवस्तुगत्या व्यतिरेकव्याप्तिग्रहः कारणं न तुव्यतिरेकत्वेन रूपेणव्यतिरेकव्याप्तिग्रहः कारणं येन साध्यप्रसिद्धेरपेक्षा स्यादित्यर्थः / जीवदित्यादौ व्यतिरेकव्याप्तिग्रहः प्रदर्शयति - अव्याप्येति मूलम्।इच्छा साश्रया साधिकरणा इति साध्यं गुणत्वात् इत्यत्रइच्छाधिकरणे इच्छाऽव्याप्यवृत्तिः आत्मनो व्यापकत्वात्।सर्वत्र इच्छाकार्यं प्रयत्नचेष्टादिकं नोपलभ्यते इति इच्छाया अव्याप्यवृत्तित्वम्. तथा चाव्याप्यवृत्तित्वं नाम स्वात्यन्ताभावसामानाधिकरण्यम्, तथा चैकत्राधिकरणे प्रतियोगितदभावयोर्विरोधात् अवच्छेदकभेदेन वृत्तिर्वक्तव्या। तत इच्छात्यन्ताभावस्य [127 A] किञ्चिदवच्छेदकं वक्तव्यमेव, तच्च यदवच्छेदेन इच्छाकार्यं प्रयत्नचेष्टादिकं नोपलभ्यते तदेव वक्तव्यम् / यतो घटाद्यवच्छेदेन इच्छा नोपलभ्यते अतो घटादिकमेव इच्छात्यन्ताभावा]वच्छेदकम् / तथा च इच्छात्यन्ताभावावच्छेदकत्वमेव नैरात्म्यम्, तत्तुभावरूपं घटादिषु सर्वत्र वर्तते, तस्याभावो जीवच्छरीरेऽप्रसिद्ध एव सिद्धयति, व्यतिरेकव्याप्तिग्रहस्त्वेवं यत्र यत्र इच्छात्यन्ताभावावच्छेदकत्वं तत्र तत्र प्राणादि(द्य)भावो यथा. घटे, अत्रत्विच्छात्यन्ताभावावच्छेदकत्वरूपभावपदार्थज्ञाने नाभावज्ञानापेक्षाभावज्ञानेऽभावज्ञानस्याकारणत्वात् एवं घटादौ व्यतिरेकव्याप्तिग्रहे सति प्राणादिमत्त्वाभावाभावेन प्राणादिमत्त्वेन जीवच्छरीरें इच्छात्यन्ताभावावच्छेदकत्वाभावोऽप्रसिद्ध एव सिद्धयति, यथा घटात्यन्ताभावज्ञानसामग्री घटज्ञानमात्रं न तु घटाभावज्ञानं तद्वत् इच्छात्यन्ताभावावच्छेदकत्वाभावज्ञाने इच्छात्यन्ताभावावच्छेदकत्वज्ञानमेव कारणं न त्वन्यत् / एतदेवाह - तथा चेति मूलम्। तथा च जीवच्छरीरे नैरात्म्याभावएव सात्मकत्वंसाध्यते, नैरात्म्यं नाम इच्छात्यन्ताभावाश्रयतावच्छेदकत्वम्, तत् घटादौ दृष्टं तत्र प्राणादिमत्त्वाभावोऽपि दृष्टः / ततो व्याप्तिः इच्छात्यन्ताभावाश्रयतावच्छेदकत्वस्य नैरात्म्यस्य प्राणादिमत्त्वाभावस्य चघटादौ व्याप्तिर्गृहीता, तथा च जीवच्छरीरे प्राणादिमत्त्वाभावो नास्ति यतः प्राणादिमत्त्वाभावो व्यापकः स च जीवच्छरीरे नास्ति, ततः प्राणादिमत्त्वाभावरूपव्यापकस्याभावेन प्राणादिमत्त्वेन प्राणादिमत्त्वाभावस्य व्याप्यो (प्य) यो(यत्) नैरात्म्यं यथा यत्र यत्रनैरात्म्यं तत्र तत्र प्राणादिमत्त्वाभाव इति नैरात्म्यरूपस्य व्याप्यस्य अभावः सात्मकत्वं सिद्धयति यतो व्यापकाभावेऽवश्यं व्याप्याभाव इति न्यायात् / एवमिच्छात्यन्ताभावावच्छेदकत्वं नैरात्म्यं तस्याभावः सात्मकत्वं साध्यं सिद्धयतीत्यर्थः / एवं प्रकार व्यतिरेक्यन्तरेऽपि दर्शयति - एवमिति मूलम् / यथा प्रामाण्यसाधकं व्यतिरेक्यनुमानं यथा इदं वह्रिज्ञानं पक्षः, वह्नित्वाभाववद्विशेष्यकत्वे सति वह्नित्वप्रकारकं नेति साध्यम्, दाहसमर्थविषयकप्रयत्नजनकत्वे सति वह्नित्व