________________ केवलव्यतिरेक्यनुमाननिरूपणम् 257 तादृशप्रतिसन्धानंसम्भवति, नचवस्तुगत्यायः साध्याभावस्तद्व्यापकाभावप्रतियोगिमत्तया ज्ञानं मृग्यत इति वाच्यम्। व्यतिरेक्याभासानुपपत्तेरिति चेत्।न। योऽभावो यस्य भावस्य व्यापकत्वेन गृहीत: तदभावाभावेन तस्य व्याप्यस्याभाव: पक्षे साध्यत इत्यनुगतानतिप्रसक्तस्य गमकतौपयिकत्वात्, अयं च व्यतिरेकिप्रकारः स्वार्थ एव, परं प्रति साध्याप्रसिद्धया प्रतिज्ञाद्यसम्भवादिति सर्वं समञ्जसम्। ।तत्त्वचिन्तामणौ सम्पूर्णमिदं केवलव्यतिरेक्यनुमानम् / एतदेव स्पष्टयति : तथाहीति मूलम् / पृथिवीति अत्रेतरभेदः साध्यः, स च जलादिभेद एव, सोऽभाव एव, सचजलादिभेदोऽप्रसिद्ध एव सिद्धयति। कथमित्यत आह - जलादेरिति मूलम्। तथा यत्र यत्र इतरभेदाभावस्तत्र तत्र पृथिवीत्वाभाव इत्येवंरूपव्यतिरेकव्याप्तिग्रहादरो नास्ति / इतरभेदज्ञानाभावे इतरभेदप्रसिद्धेरपेक्षा स्यात् / तथा चव्याप्तिग्रहोऽभावाभावपुरस्कारेण नास्ति किन्तु व्यतिरेकव्याप्तिग्रहो वस्तुगत्याऽपेक्षितो न तु व्यतिरेकित्वेन रूपेण / यथा पर्वतो धूमाभाववान् वह्नयभावात् इत्यत्र व्यतिरेकिणि यत्र धूमाभावाभाव तत्र वढ्यभावाभाव इत्येतादृशव्यतिरेकव्याप्तिग्रहो न कारणं येनभावत्वेन रूपेणधूमाभावाभावज्ञाने धूमाभावरूपसाध्यप्रसिद्धिरपेक्षिता स्याकिन्तु वस्तुगत्यायो व्यतिरेकस्तस्य व्याप्तिग्रहोऽपेक्षितस्तथा च यत्रधूमस्तत्रवह्रिरित्येवव्यतिरेकव्याप्तिग्रहः अत्र धूमाभावप्रसिद्धरपेक्षैव नास्ति, [126 B] तद्वत् इतरेभ्यो भिद्यते इत्यत्र इतरभेदस्याभावो जलादिकम्, तत्र चरूपद्वयं भावरूपत्वमपि तिष्ठति इतरभेदाभावरूपमपि तिष्ठति। तत्र इतरभेदाभावत्वेन रूपेण जलादिज्ञाने इतरभेदज्ञानापेक्षा / यदा तु भावरूपपुरस्कारेण ज्ञानं जलादिज्ञानं तदा न जलादिभेदा(द)ज्ञानापेक्षा येन जलादिभेदरूपेतरभेदप्रसिद्धेरपेक्षा स्यात्, अभावत्वपुरस्कारेण व्याप्तिग्रहोऽङ्गमेव न भवति किन्तु भावपुरस्कारेण व्याप्तिग्रहोऽङ्गम् / तथा च साध्याप्रसिद्धावपि व्यतिरेकव्याप्तिग्रहो भवत्येव। . एतदेवाह - जलादेरिति टीका। पृथिवी जलादिभ्यो भिद्यते इत्यत्र जलादिभेदः साध्यस्तस्य व्यतिरेकव्याप्तिग्रहो यत्र जलं तत्र पृथिवीत्वाभाव इति व्यतिरेकव्याप्तिग्रहो जलादिभेदाप्रसिद्धावपि भवत्येव / न हि जलज्ञाने जलभेदज्ञानस्यापेक्षा अस्ति। तथा च जलादेर्व्यापकः पृथिवीत्वाभावो गृहीतो यथा यत्र जलं तत्र पृथिवीत्वाभाव इति व्यतिरेकव्याप्तिग्रहो वर्तते / तथा च पृथिवीत्वाभावस्य जलादिव्यापकता गृहीता, अतो हि पृथिवीत्वाभावाभावेन पृथिवील्वेन जलादिभेदोऽप्रसिद्ध एव सिद्धयतीत्यर्थः / / ननु जलादिभेदरूपसाध्याप्रसिद्धौ कथं जलादिभेदानुमितिरित्यत आह - प्रतियोगिज्ञानस्येति मूलम् / न हि जलभेदज्ञाने जलभेदज्ञानं कारणं किन्तु जलभेदज्ञाने जलरूपप्रतियोगिज्ञानं कारणं तच्च वृत्तमेव यथा यत्र जलं