________________ 256 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका व्यापकाभाववत्तया ज्ञाते व्याप्याभावज्ञानावश्यम्भावात्। मतान्तरमुपन्यस्यति - अन्ये त्विति मूलम्।व्यतिरेकिणीतिमूलम्। सर्वत्रेति शेषः / तेन सर्वत्र व्यतिरेकिणि अभाव एव साध्यते इत्यर्थः / तेन भावसाध्यकव्यतिरेकिणि साध्याप्रसिद्धौ व्यतिरेकव्याप्तिग्रहासम्भवेन कथं व्यतिरेकित्वमिति दूषणं निरस्तम्, यतोऽस्माकं व्यतिरेक्यनुमानेऽभाव एव साध्यः तस्याप्रसिद्धत्वेऽपिव्यतिरेकव्याप्तिग्रहः सम्भवति। एतदेवाह - यस्येति मूलम् / यस्मिन् अभावसाध्यकव्यतिरेकिणि यस्य भावस्य भावपदार्थस्य व्यापकतया हेत्वभावो गृहीतस्तदभावेन हेतुना तादृशभावपदार्थस्याभावः सिद्धयति।अत्र नियामकमाहव्यापकाभाववत्तयेति मूलम् / तथा च भावपदार्थस्य व्यापकश्चेत् हेत्वभावस्तदा व्यापकाभावरूपहेतुमत्तया ज्ञाते पक्षे व्याप्याभावज्ञानावश्यंभावात् / तथाहिपृथिवी इतरेभ्यो भिद्यते पृथिवीत्वादित्यत्र इतरस्य जलादेर्व्यापकः पृथिवीत्वाभावो गृहीत इति पृथिवीत्वाभावाभावरूपेण पृथिवीत्वेन पृथिव्यामितरान्योन्याभावोऽप्रसिद्ध एव सिद्धयति प्रतियोगिज्ञानस्य वृत्तत्वात् प्रत्यक्षेणभूतले घटाभाववत् / एवमन्यत्राप्यव्याप्यवृत्तीच्छाया:स्वाश्रयत्वे सिद्धेस्वाश्रये योऽत्यन्ताभावस्तदवच्छेदकं घटादि सर्वं तदवच्छेदेनेच्छानुपलम्भात् जीवच्छरीरं तु न तथा तदवच्छेदेन तदाश्रये इच्छोपलम्भात्। तथा च इच्छात्यन्ताभावाश्रयतावच्छेदकत्वरूपस्य नैरात्म्यस्य घटादौ प्राणादिमत्त्वाभावो व्यापको गृहीत इति जीवच्छरीरे प्राणादिमत्त्वेन इच्छात्यन्ताभावाश्रयत्वावच्छेदकत्वस्याभावः सात्मकत्वं साध्यते, एवं प्रामाण्यसाधकव्यतिरेकिण्यपि व्यधिकरणप्रकारावच्छिन्नत्वस्य व्यापकः समर्थप्रवृत्तिजनकत्वाभावोऽप्रमायां गृहीतोऽतो विवादाध्यासितानुभवे समर्थप्रवृत्तिजनकत्वेन व्यधिकरणप्रकारावच्छिन्नत्वस्याभाव: सिद्धयति व्यधिकरणप्रकारानवच्छिन्नत्वमेव प्रमात्वम् / ननु साध्याप्रसिद्धौ कथं साध्यविशिष्टज्ञानं विशेषणज्ञानजन्यत्वात् विशिष्टज्ञानस्येति चेत् / न। पक्षे साध्यानुमितिसामग्रीसत्त्वात् पक्षविशेषणकः साध्यविशेष्यक एव प्रत्ययो जायतेभूतले घटो नास्तीत्यभावविशेष्यकप्रत्ययवत् तथापिसाध्याभावव्यापकाभावाभावरूपहेतुमत्तयापक्षज्ञानं व्यतिरेकिणिगमकतौपयिकम्।नच साध्यप्रसिद्धिं विनापि