________________ 255 केवलव्यतिरेक्यनुमाननिरूपणम् अष्टद्रव्यातिरिक्तद्रव्याश्रितत्वमनुमितौ विषयो भविष्यति किमर्थं व्यतिरेकीत्यर्थः / ननु मानान्तरोपनीतस्य ज्ञानान्तरे भानं कुत्र दृष्टमित्यत आह - ज्ञानान्तरेति मूलम् / तथा च सुरभि चन्दनमिति घ्राणजन्यो बोधः, ततो घ्राणेन्द्रियोपनीतं सौरभं यथा चाक्षुषबोधे भासते तद्वत् बाधकप्रमाणोपनीतं पृथिव्याद्यष्टद्रव्यभिन्नत्वं पृथिव्यादौ चेच्छाश्रये चेष्टाप्रसङ्गो बाधकं ज्ञानान्तरेऽनुमितौ भासते यथा इच्छा द्रव्याश्रिता इत्यस्यामनुमितौ भासते किमर्थं व्यतिरेक्यादर इत्यर्थः / समाधत्ते - मानान्तरेति / मानान्तरानवतारदशायां व्यतिरेकी भविष्यति / यदा बाधकं पूर्वोक्तं नावतीर्णं तदा व्यतिरेकिणैव साध्यसिद्धिरित्यर्थः / नैयायिकैकदेशिमतान्तरमाह - ये चेति / तथा च अष्टद्रव्यानाश्रिता इच्छा द्रव्याश्रिता इत्यत्र इच्छायामष्टद्रव्यानाश्रितत्वज्ञानं वर्तते परं यदा इच्छाश्रये द्रव्येऽष्टद्रव्यातिरिक्तत्वज्ञानं नास्ति तदा अष्टद्रव्यातिरिक्तद्रव्यवृत्तित्वसिद्धये व्यतिरेक्यनुमानं सार्थकमित्यर्थः / नानुमानमिति मूलम् / पृथिवी नेतरभिन्ना प्रमेयत्वात् जलवत् इत्यनुमानात् सत्प्रतिपक्ष इत्याशङ्कार्थः / समाधत्ते - विपक्षेति / पृथिवी यदीतरभिन्ना न स्यात् तदा पृथिवीत्वमपि न स्यात् / व्याप्तिर्दृढतरं गृहीतत्वात् यत्रेतरभेदाभावस्तत्र पृथिवीत्वाभाव इतियथा जले इति / प्रकृते हेतोर्व्यभिचारित्वं विद्यते इतरभेदाभाववति जले प्रमेयत्वस्य वर्तमानत्वात् जले व्यभिचारिणि दुर्बलत्वमित्यर्थः / : अथमानान्तरादित्यत्रटीका।यदिअनुमितेः पूर्वंबाधकमानान्तरोपस्थितिश्चेन्नास्तितदाअष्टद्रव्यातिरिक्तद्रव्यवृत्तित्वरूपसाध्यप्रसिद्धिरपि कथं स्यात्। तस्माद् व्यतिरेक्यनुमानात् पूर्वं मानान्तरोपस्थितिस्तथापि मानान्तरोपस्थितस्यापि नानुमितौ भानम् / कुतः ? अनुमितेर्व्यापकतावच्छेदकप्रकारातिरिक्तः प्रकारो न भासते / यथा वह्निमान् इत्यत्र वह्नित्वमेव प्रकारो वह्निमत्त्वं तु संसर्गमर्यादया न तु चन्दनप्रभववह्नित्वं तद्वत् प्रकृते व्यापकतावच्छेदकं यत् द्रव्याश्रितत्वं तेनैव रूपेण द्रव्याश्रितत्वानुमितिः न तु अष्टद्रव्यातिरिक्तद्रव्याश्रितत्वरूपेण तस्य [126 A]व्यापकतानवच्छेदकत्वात्। तथा च यदिमानान्तरोपनीतमेवानुमितौभासते तदा महानासा]तिरिक्तत्वम् उष्णस्पर्शवत्त्वादीनामपि पर्वतो वह्निमान् इत्यनुमितौ स्यादित्यर्थः / तथा चानुमितौ मानान्तरोपनीतं न भासते एव प्रत्यक्षमेव तद् भानमिति सिद्धान्त इति भावः इत्यप्याहुरिति मूले यदुक्तं मूलकारेण तद् दुषितं नास्ति परं तत्र सम्प्रतिपन्नताबुद्धिः स्यादित्यत आह - अपीत्यस्वरसोद्भावनमिति टीका।अपिशब्दोऽनादरे, तद्बीजं दर्शयतियदीति। यदि इच्छाश्रयद्रव्यस्य अष्टद्रव्यभिन्नत्वेन चेद् ज्ञानं नास्ति तदा साध्यप्रसिद्ध्यभावे व्यतिरेक्यवतारोऽपि कथंस्यात्व्यतिरेकव्याप्तिग्रहाभावात्। तथा चसाध्यप्रसिद्धयर्थमिच्छाश्रयद्रव्येऽष्टद्रव्यभेदोऽवश्यं ज्ञातव्य इत्यर्थः / अन्ये तु व्यतिरेकिण्यभाव एव साध्यः, स चाप्रसिद्ध एव सिद्धयति, यस्याभावस्य व्यापको हेत्वभावो गृहीतस्तस्याभावः पक्षे व्यापकाभावाभावरूपेण हेतुना सिद्धयति