________________ 254 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका ताबलान्नित्यमेव सिद्धयतीति दिक् / ननु तज्ज्ञानं नित्यत्वेन सर्वविषयत्वेन च प्रकारेण न सिद्धम् यथा पर्वतीयवह्निः पर्वतीयवह्नित्वेन न सिद्धः किन्तु वह्नित्वेन इत्यत आह - एतदन्यदिति मूलम्। तथा च यत्र पर्वतीयवढ्यभावस्तत्र पर्वतीयधूमाभाव इति पर्वतीयवह्वेरन्यत्राप्रसिद्ध्या व्यतिरेकिणैव सिद्धयति। तथाऽत्रापि यत्र यत्र नित्यसर्वविषयकज्ञानजन्यत्वाभावस्तत्र तत्र कार्यत्वाभावइतिव्यतिरेकिव्याप्त्यैव नित्यत्वेनप्रकारेण तादृशज्ञानसिद्धिः / ननु यथा पक्षधर्मताबलादेव पर्वतीयवह्नित्वेन प्रकारेण पर्वतीयवह्निः सिद्धयति तथा प्रकृतेऽपि पक्षधर्मताबलात् अनाद्यनन्तद्वयणुकोपादानगोचरज्ञानस्य या पक्षधर्मता तिष्ठति सा नित्यसर्वविषयकज्ञानस्यैव वर्तते इति कृत्वा पक्षधर्मताबलेन नित्यसर्वविषयत्वेनैवंप्रकारेण सिद्धयति इत्यत आह - पक्षधर्मतेतिमूलम्। तथा चपक्षधर्मताबलेनापि वस्तुगत्या नित्यसर्वविषयकं तद् ज्ञानं सिद्धयति न तु तस्मिन् ज्ञाने नित्यत्वं सर्वविषयत्वं बा प्रकारो यतो नित्यत्वस्य सर्वविषयत्वस्य वा व्यापकतावच्छेदकत्वाभावात् / यथा पर्वतीयवह्नित्वस्य व्यापकतावच्छेदकत्वं नास्ति किन्तु वह्नित्वमेव व्यापकतावच्छेदकं तेन वह्नित्वेनैव रूपेण वह्निः तद्वत् अत्र व्यणुकोपादानगोचरज्ञानत्वमेव व्यापकतावच्छेदकम् न तु नित्यसर्वविषयकत्वं व्यापकतावच्छेदकमिति कृत्वा न तेन रूपेण व्यणुकोपादानगोचरज्ञानसिद्धिः / एतदेवाह - नन्विति मूलम् / ननु व्यापकतावच्छेदकरूपेणापि कुतो न साध्यभानमित्यत आह - अतिप्रसङ्गादिति मूलम् / तथा च व्यापकतानवच्छेदकपर्वतीयवह्नित्वेनापि रूपेण यदि वर्भानं स्यात् तदा व्यापकतानवच्छेदकचन्दनप्रभववह्नित्वेनापिरूपेण कुतो न वर्भानमिति अतिप्रसङ्गादित्यर्थः / अत्राशङ्कतेनन्विति मूलम्। तथा च इच्छा अष्टद्रव्यातिरिक्तद्रव्याश्रितेति व्यतिरेक्यनुमानं व्यर्थम्। कुतः ? अष्टद्रव्यातिरिक्तद्रव्याश्रितत्वं अन्वय्यनुमानादेव सेत्स्यति / कथम् ? अष्टद्रव्यानाश्रिता इच्छा पक्षः, द्रव्याश्रिता इति साध्यम्, गुणत्वादिति हेतुः, रूपवदिति। तथा चअष्टद्रव्यानाश्रितेच्छायांद्रव्याश्रितत्वं चेत् सिद्धं तदा सा अष्टद्रव्यातिरिक्तद्रव्याश्रिता भवत्येवेति। कुतः ? अन्यथाअष्टद्रव्यातिरिक्तद्रव्याश्रितत्वेन विना अष्टद्रव्यानाश्रिता इच्छा द्रव्याश्रिता इति प्रतिज्ञार्थोऽनुपपन्न इत्याशङ्कार्थः / समाधत्ते - सत्यमिति / यदि अष्टद्रव्यानाश्रिता इच्छा द्रव्याश्रिता] इति प्रतिज्ञातार्थः अष्टद्रव्यातिरिक्तद्रव्याश्रितत्वं विनाऽनुपपन्नः तदा आष्टाद्रव्यानाश्रिता इच्छा द्रव्याश्रिता इत्यनुमित्युत्तरकालिकोऽष्टद्रव्यातिरिक्तद्रव्याश्रितत्वबोधो [125 B] भवतु / ननु अष्टद्रव्यानाश्रिता इच्छा द्रव्याश्रिता एतस्यामनुमितौ इच्छाश्रयस्य द्रव्यस्य अष्टद्रव्यातिरिक्तत्वं कुतो भासते / पक्षे साध्यसंसर्गमात्रमनुमितिविषयः / तथा च अष्टद्रव्यानाश्रिता इच्छा पक्षः, द्रव्याश्रितेति साध्यम्, तयोः सम्बन्धोऽनुमितेविषयः, न त्वन्यत् / तथा चेच्छाश्रयस्य द्रव्यस्य अष्टद्रव्यातिरिक्तत्वंकुतो विषयोऽनुमितेरित्यर्थः / शङ्कते - अद्येति। सामान्याव्यभिचारः, सामान्यरूपेण व्याप्तिज्ञानं यथा यत्र धूमस्तत्र वह्रिरिति, तद्वत् यत्र गुणत्वं तत्र द्रव्याश्रितत्वम्, एवं सामान्यव्याप्त्या मानान्तरोपनीतम् यथा पृथिव्यादीनामिच्छाश्रयद्रव्यत्वे चेष्टाप्रयत्नोपलम्भः स्यादिति बाधकमानोपनीतम्