SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ केवलव्यतिरेक्यनुमाननिरूपणम् 253 द्रव्यातिरिक्तद्रव्यवृत्तित्वप्रकारिकैव कुतो नानुमितिरित्यत आह - अनुमितेरितिमूलम्। तथा चानुमितेरयं नियमः - येन रूपेण साध्यस्य व्यापकताग्रहः तेनैव रूपेण साध्यानुमितिर्न तु प्रकारान्तरेण, यथा वह्नित्वेन रूपेण चेत् व्यापकताग्रहो वह्नस्तदा वह्नित्वप्रकारिकैवानुमितिः न तु चन्दनखण्डप्रभववह्नित्वप्रकारिकेति / [124 B] एतदेवाह - अनुमितेर्व्यापकतेत्यादिना। तथा च प्रकृते अष्टद्रव्यातिरिक्तद्रव्यवृत्तित्वेन रूपेण साध्यस्य व्यापकताग्रहाभावात् न सामान्यतोदृष्टानुमाने अष्टद्रव्यातिरिक्तद्रव्यवृत्तित्वप्रकारिकानुमितिः किन्तु द्रव्यवृत्तित्वप्रकारिकानुमितिः / ननु अष्टद्रव्यातिरिक्तद्रव्यवृत्तित्वेनापि प्रकारेण द्रव्याश्रितत्वरूपसाध्यस्य व्यापकताग्रहः कुतो न भवति इत्यत आह - नन्विति मूलम् / तथा इच्छा द्रव्यश्रिता इत्यनुमानात् पूर्वमष्टद्रव्यातिरिक्तद्रव्यवृत्तित्वप्रकारेण व्यापकताग्रहाभावात् न सामान्यतोदृष्टानुमानेन अष्टद्रव्यातिरिक्तद्रव्यवृत्तित्वसिद्धिः किन्तु व्यतिरेकेणैवेत्यर्थः / ननु तर्हि अनाद्यनन्तद्वयणुकादिपक्षीकरणेऽपि नित्यज्ञानजन्यत्वासिद्धिः पक्षधर्मताबलान्न सिद्धयेदित्यत आह - अनादीति। तथा चानाद्यनन्तं व्यणुकादि। अयमर्थः - अनादित्वं च स्वाश्रयध्वंसव्याप्यप्रागभावप्रतियोगिवृत्तित्वम् / स्वशब्देन व्यणुकत्वं तदाश्रयो द्वयणुकं तस्य योध्वंसस्तस्य यो व्याप्यः प्रागभावो यथा(दा) यदा द्वयणुकप्रागभावस्तदा तदा व्यणुकध्वंसइतिरूपस्तत्प्रतियोगिद्व्यणुकंतद्वृत्तित्वम् अनादित्वम् / इदमेव अनादित्वं यदा यदा व्यणुकप्रागभावस्तदा तदा व्यणुकध्वंस इति रूपम्, तथा चाद्यागामिद्वयणुकानां प्रागभावस्तदा पूर्वपूर्वोत्पन्नानां व्यणुकानां ध्वंस एवेत्यनादित्वम् / अनन्तत्वं चात्र इयत्ताशून्यत्वम् अगणितत्वमित्यर्थः / तथा च अनाद्यनन्तद्वयणुकाधुपादानगोचरज्ञानं सिद्धयत् एवं नित्यसर्वविषयकमपि सिद्धयति। कथम् ? अनादीनां व्यणुकानामुपादानानि परमाणवः तद्गोचरं यज्ज्ञानं तज्ज्ञानं न लौकिकप्रत्यासत्तिजन्यं परमाण्वादीनामतीन्द्रियत्वात्, नाप्यलौकिकप्रत्यासत्तिजन्यं तज्ज्ञानं विनिगमकाभावात् / यदि व्यणुकोपादानगोचरं ज्ञानं योगजन्यप्रत्यासत्त्या जन्यते योगस्तु पतञ्जलिमते चित्तवृत्तिनिरोधः नैयायिकमते तु श्रवणमननादिजन्यो यः सकलवस्तुविषयको ज्ञानविशेषो यद्बलेन भूमिस्थो वर्तमानकालवर्ती योगी अतीन्द्रियासनिकृष्टान् पदार्थान् प्रत्यक्षेण घटवत् पश्यति यथा चक्षुषा सुरभि चन्दनमिति बोधे पूर्वं घ्राणजन्यानुभवस्मरणमेव ज्ञानं सन्निकर्षस्तद्वत् दूरस्थातीतादिपदार्थसाक्षात्काररूपं चाक्षुषमेव ज्ञानं योगस्तत्र सन्निकर्ष इति / तथा चद्व्यणुकाद्युपादानगोचरज्ञानं योगजप्रत्यासत्तिजन्यं न भवतिपारम्पर्येण योगिशरीरारम्भाकाव्यणुकोत्पत्तिकाले योगिनामभावात्। न च तत्र योग्यन्तरमेवेति वाच्यम्, तथा चैतद्योगिशरीरारम्भककाले योग्यन्तरं वक्तव्यमिति गौरवं भवतीत्यन्यत्र विस्तरः / तथा च सकलद्वयणुकोपादानगोचरं यज्ज्ञानमायाति तद् वस्तुगत्या नित्यं सर्वविषयकमेवायाति / [125 A] यथा पर्वते वह्निः पर्वतीयवह्निः न तु पर्वतीयवह्नित्वेन प्रकारेण सिद्धयति। एवमनाद्यनन्तद्वयणुकोपादानगोचरं यज्ज्ञानं तत् नित्यत्वसर्वविषयत्वं विना ज्ञानमेव न सम्भवति इति पक्षधर्म
SR No.004316
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorNagin G Shah
PublisherB L Institute of Indology
Publication Year2005
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy