________________ 252 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका प्रसिद्धिर्भवति / यथा द्रव्यं वह्निमत् धूमात् इत्यत्र ह्रदादौ बाधकावतारसहायेनानुमानेनानेन यथा ह्रदातिरिक्तद्रव्यवृत्तित्वं वहेः सिद्धयति तद्वत् पृथिव्यादाविच्छाया बाधकावतारसहायेन पूर्वोक्तानुमानेन अष्टद्रव्यातिरिक्तद्रव्यवृत्तित्वं सिद्धयत्येव / अत्र नियामकमाह - पक्षधर्मतेति मूलम्। यथा पर्वतो वह्निमान् धूमात् इत्यत्र यत्र धूमस्तत्र वहिरिति व्याप्त्या धूमाधिकरणे वह्निना भवितव्यम् / पर्वते कथं वह्रिरत्रोच्यते - पक्षेति। यतो धूमस्य पर्वतरूपपक्षस्य धर्मत्वं तदनुरोधेन पर्वतीयवह्निः सिद्धयति, तथा प्रकृतेऽपि अष्टद्रव्यातिरिक्तद्रव्यवृत्तित्वस्य इच्छायां गुणत्वे पक्षधर्मताबलेन तद्व्याप्त्या साध्यसिद्धिर्भविष्यति इत्यर्थः / ननु पक्षधर्मताबलादपीच्छाया द्रव्याश्रयत्वमात्रं सिद्धयतु द्रव्याश्रयत्वस्यैव पक्षधर्मत्वात् कथमष्टद्रव्यातिरिक्तद्रव्याश्रयत्वसिद्धिस्तेन रूपेण व्याप्त्यग्रहादित्यत आह - प्रसिद्धविशेषेति मूलम् / [124 A] तथा च इच्छा द्रव्याश्रिता एतस्मिन्ननुमाने अष्टद्रव्यातिरिक्तद्रव्यवृत्तित्वसिद्धौ त्रीण्यङ्गानि - व्याप्तिः 1, पक्षधर्मता 2, विशेषबाधावतार 3 श्चेति / तथा च यत्रं गुणत्वं तत्र द्रव्याश्रयत्वमिति व्याप्त्या द्रव्याश्रितत्वमात्रमिच्छायाः सिद्धम् / पक्षधर्मता च द्रव्याश्रितत्वस्य इच्छायाविद्यमानत्वात् इच्छायांद्रव्याश्रितत्वसिद्धिः। विशेषबाधस्तु पृथिव्यादिष्विच्छानास्तीतिरूपः तेन अष्टद्रव्यातिरिक्तद्रव्यवृत्तित्वसिद्धिः / तथैतैस्त्रिभिर्मिलित्वाइच्छायां सामान्यतो(त) इच्छा द्रव्याश्रिता इति दृष्टानुमान एव अष्टद्रव्यातिरिक्तद्रव्यवृत्तित्वसिद्धिः / तदेवाह - प्रसिद्धेति मूलम् / तथा च पृथिव्यादिषु प्रसिद्धेषु विशेषेषु इच्छाया वृत्तित्वबाधे सामान्यं द्रव्याश्रितत्वमात्रं तज्ज्ञानस्य, तदतिरिक्तं प्रसिद्धविशेषातिरिक्तम् आत्मरूपं विशेषद्रव्यं तद्वृत्तित्वनियमादित्यर्थः / अत्रैव दृष्टान्तमाह - अतएवेतिमूलम्।यथा क्षितिरुपादानगोचरापरोक्षाज्ञानजन्या कार्यत्वात् घटवत् इत्यनुमानेऽपरोक्षज्ञानजन्यत्वरूपं सामान्यं सिद्धयत् संसार्यपरोक्षज्ञानानामनित्यानामसर्वविषयाणामनाद्यनन्तद्व्यणुकादिपक्षीकरणे जन्यत्वबाधात्अनित्यज्ञानातिरिक्तज्ञानजन्यत्वमेव सिद्धयति / अन्यथा नित्यज्ञानजन्यत्वेन सह घटादौ व्याप्तिग्रह एव नास्तीति नित्यज्ञानं न सिद्धयत्येवेत्यर्थः। एतदेव स्पष्टयति -अनित्यज्ञानबाधानन्तरमिति।तथा च सामान्यतोदृष्टानामानेन] व्यणुकादिकमपरोक्षज्ञानजन्यमित्यादिरूपेण ज्ञानजन्यत्वं सिद्धयत् अनित्यासर्वविषयकज्ञानातिरिक्तज्ञानजन्यत्वमेव सिद्धयति, तद्वत् पूर्वोक्तसामान्यतोदृष्टान्तुमानेन अष्टद्रव्यातिरिक्तद्रव्यवृत्तित्वसिद्धिर्भविष्यति, ततः पूर्वोक्तसामान्यतोदृष्टानुमानेनैवच्छाया आत्मवृत्तित्वे सिद्धे किंव्यतिरेकिणेत्याशङ्कार्थः। प्राचीनाशकां दूषयति- बाधानन्तरमिति। यद्यपिद्रव्यवृत्तिरिति सामान्यतोदृष्टेऽपिह्रदादिवृत्तित्वबाधेऽपिवस्तुगत्या हृदाद्यतिरिक्तद्रव्यवृत्तित्वं द्रव्यवृत्तित्वेनैवप्रकारेण सिद्धयति / यथा वा पर्वतो वह्रिमान् इत्यत्र अपर्वतीयवहिबाधे पर्वतीयवहिरेव सिद्धयति वह्नित्वेनैव प्रकारेण स(न) तु पर्वतीयवह्नित्वेन प्रकारेण, तद्वत् वस्तुगत्या प्रसिद्धविशेषबाधसहायेन अष्टद्रव्यातिरिक्तद्रव्यवृत्तित्वस्य द्रव्यवृत्तित्वेनैव प्रकारेण सिद्धिर्भवतु न तु अष्टद्रव्यातिरिक्तद्रव्यत्वेन प्रकारेण / ननु प्रसिद्धविशेषबाधसहायेन अष्ट