________________ 250 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका श्रिता इत्यनुमाने द्रव्यत्वे वृत्तित्वं कथं प्रकारो न भवतीत्यत आह - यदि चेति टीका। इच्छा द्रव्याश्रिता इत्येव चेत् सामान्यतोदृष्टं तदा द्रव्याश्रिता इत्यत्र द्रव्यत्वस्य प्रकारतया द्रव्यत्वाश्रयत्वं द्रव्यवृतित्वलक्षणं वैशिष्टयमर्यादया भासतेयथा घटइतिविशिष्टबोधेघटत्वाश्रयत्वलक्षणं घटवृत्तित्वलक्षणं वैशिष्टयमर्यादया संसर्गमर्यादया भासते / ज्ञाने मर्यादा त्रिविधा, यद्भासते तत् प्रकारत्रयेणैव भासते, किञ्चिद् विशेष्यमर्यादया किञ्चित् प्रकारमर्यादया किञ्चित् संसर्गमर्यादया। यथा घटो विशेष्यमर्यादया, घटत्वं प्रकारमर्यादया, घटत्ववैशिष्टयं घटत्वाश्रयत्वरूपं संसर्गमर्यादया भासते। संसर्गमर्यादा च तेन रूपेणोल्लेखो नास्ति परं भासते यथा घट इत्युच्यमाने घट इति प्रत्यक्षानन्तरं वा घटत्वसमवाय इत्यस्यापि भानं परं नोल्लेख इति, अन्यथा घटत्वसमवायस्य प्रकारतया भाने घटोऽयमिति व्यवसायानन्तरं घटत्वसमवायं जानामीति बोधः स्यात् / तथा च द्रव्यत्वाश्रयाश्रितेत्यत्र द्रव्यत्वाश्रयत्वत्वस्य द्रव्यवृत्तित्वलक्षणस्य द्रव्यत्वे प्रकारतामर्यादया भानेन द्रव्यत्वे साध्यप्रसिद्धिसम्भवात् / इच्छा द्रव्याश्रिता इत्यनुमाने तु द्रव्यांशे द्रव्यत्वस्य प्रकारतया द्रव्यत्वाश्रयत्वलक्षणं वैशिष्ट्यं संसर्गमर्यादया भासते इति साध्यतावच्छेदकरूपेण द्रव्यवृत्तित्वरूपेण नद्रव्यवृत्तित्वप्रसिद्धिर्द्रव्यत्वे इति कारणात् द्रव्यत्वे साध्यप्रसिद्धिर्मूलकृता योक्ता सा व्यर्था स्यादित्यर्थः / एवं चेति टीका / अन्वयिनमित्युपलक्षणम् असाधारण्यमित्यपि द्रष्टव्यम् / तथा च यदि द्रव्यत्वे साध्यप्रसिद्धिरेव नास्ति तदा अष्टद्रव्यातिरिक्तद्रव्यत्वस्य सपक्षत्वाभावात् अन्वयित्वं न भवेत्, न वा द्रव्यत्वमात्रे हेतुव्यावृत्त्याऽसाधारण्यं साध्यस्यैवाप्रसिद्धरित्यर्थः / ननु यदि इच्छा द्रव्यत्वाश्रयाश्रिता इत्यनुमानेभवतु द्रव्यत्वेद्रव्यवृत्तित्वस्य साध्यस्यप्रसिद्धिः।इच्छा द्रव्याश्रिताइत्यनुमाने तुकथं साध्यप्रसिद्धिर्द्रव्यत्वे यतो द्रव्याश्रिता इत्यत्र द्रव्यत्वाश्रयत्वेन रूपेण द्रव्यत्वाश्रयत्वस्य द्रव्यत्वांशे प्रकारतयाऽभानात् / तथा च साध्यस्य द्रव्यवृत्तित्वस्य कथं द्रव्यत्वे प्रसिद्धिरित्यत आह - तस्मादिति / तथा च यथा घटोऽयमिति बोधे घटत्वाश्रयत्वं घटवृत्तित्वलक्षणं घटेऽपि वर्तते यतो घटत्वाश्रयत्वं घटसम्बन्धः सचघटे घटत्वे चसंसर्गमर्यादया भासते / ननु घटवृत्तित्वत्वेन प्रकारेण [123 B] घटत्वं तु प्रकारीभूय भासते। घटत्वाश्रयत्वं घटवृत्तित्वलक्षणं घटसम्बन्धरूपं घटवृत्तित्वरूपप्रकारेण घटत्वे भासते, तद्वत् द्रव्याश्रितेत्यनुमाने द्रव्यत्वाश्रयत्वं द्रव्यवृत्तित्वं द्रव्यसम्बन्धरूपं द्रव्यत्वे प्रकारतया यद्यपि न भासते तथापीच्छा द्रव्याश्रिता इत्यनुमाने इच्छायां तु द्रव्यवृत्तित्वं तुप्रकारोभवत्येवेतीच्छायामेव साध्यप्रसिद्धिर्द्रष्टव्येतिभावः। अतएवेतिटीका।यतइच्छायामेव साध्यप्रसिद्धिरत एव इच्छाविशेष्यकप्रतीत्यर्थमेवव्यतिरेक्यवतारः / यथा इच्छा द्रव्याश्रिता इत्यनुमानं तदनन्तरमिच्छाश्रयो द्रव्यम् अष्टद्रव्यातिरिक्तमत्राष्टद्रव्यातिरिक्ते इच्छाश्रयत्वे भासमाने अष्टद्रव्यातिरिक्तद्रव्यवृत्तित्वलक्षणं साध्यमिच्छायां प्रकारतया भासते परमिच्छाविशेष्यकाष्टद्रव्यातिरिक्तद्रव्यवृत्तित्वप्रकारतया न भासते किन्तु इच्छाया आश्रयविशेषणत्वात् तत्रेच्छायामाश्रयत्वं नाम अष्टद्रव्यातिरिक्तद्रव्यसम्बन्धः प्रकारतया भासते, अत इच्छा आश्रयस्य