________________ केवलव्यतिरेक्यनुमाननिरूपणम् 249 गन्धाभावोवा सिद्धयति।तथाचघटोगन्धवान् घटत्वात् इत्यत्रगन्धगन्धाभावोभयनिरूपितव्यतिरेकव्याप्तिमत्तया घटत्वेन गन्धो वा साधनीयो गन्धाभावो वा साधनीयो यतो नैकस्यापि निश्चयः परस्परप्रतिबन्धात्, अत: [122 B] प्रकृतेऽष्टद्रव्यानाश्रितत्वे सति गुणत्वं हेतुः सपक्षात् द्रव्यत्वात् व्यावृत्तमिति कृत्वा साध्याभावस्य व्यतिरेकव्याप्तिःसाध्यम् अष्टद्रव्यातिरिक्तद्रव्यवृत्तित्वंतदभाववत्रूपादिकमस्तीतिविपक्षात्रूपादेया॑वृत्तमतः सपक्षात् व्यावृत्तमतः साध्याभावसाधकं विपक्षाच्चरूपादिकात्व्यावृत्तमतः साध्यसाधकंव्यतिरेकव्याप्त्यनुमानमितिप्रकारान्तरेणासाधारणस्य तुल्यबलत्वज्ञानदशायामेवदोषत्वम्।यदि तुल्यबलत्वं नास्तिकिञ्चैकत्रानुकूलतर्क एकत्रानुकूलतर्कावतारो नास्ति तदा तुल्यबलत्वज्ञानाभावात् सत्प्रतिपक्षो न भवति / तथा च प्रकृते किमित्यत आह - प्रकृते चेति मूलम् / प्रकृते इच्छाया अष्टद्रव्यातिरिक्तद्रव्यवृत्तित्वसाधनेऽनुकूलतर्कोऽस्ति। यथा इच्छा यदि अष्टद्रव्यातिरिक्तद्रव्याश्रिता न स्यात् तदा अष्टद्रव्यानाश्रितत्वे सति गुणोऽपि न स्यात् इति कृत्वा साध्यसाधकोऽनुकूलतर्कोऽस्तिपरंसाध्य(ध्या)भावसाधकोऽष्टद्रव्यातिरिक्तद्रव्यवृत्तित्वाभावसाधनेऽनुकूलतर्को नास्ति। यथा इच्छा यदि अष्टद्रव्यातिरिक्तद्रव्यवृत्तित्वाभाववती न स्यात् तदा अष्टद्रव्यानाश्रितत्वे सति गुणोऽपि नस्यादित्येतादृशोऽनुकूलतर्कः साध्याभावसाधको नास्ति।कुतः? साध्यसाधने व्यतिरेकव्याप्तिग्रहेऽनुकूलतर्कस्य पृथिव्यादाविच्छाधारत्वे प्रयत्नचेष्टाद्युपलम्भः स्यादिति रूपस्य सत्त्वात् / तथा च यदि पृथिव्यादाविच्छा स्यात् तदा प्रयत्नचेष्टादिकमपि तत्र स्यादिति कृत्वा साध्यसाधकानुमानेऽनुकूलस्तर्कस्तिष्ठति। एतदेवाह - अतएवेति मूलम् / तथा च यदि उभयत्रानुकूलतर्कावतारो दैवाजायते ना(नी)रूपै(प ए)व तत्रैकतरासायनिश्चयः / यदि च साध्यांशेऽनुकूलतर्कावतारस्तदा साध्यानुमितिः, अतो होकत्रानुकूलतर्कावतारे एकतरनिश्चय उभयत्र तदवतारेऽसाधारण्यं दूषणमित्यर्थः / ननु तुल्यबलत्वज्ञानदशायामेव सद्धेतोरप्यसाधारण्यं यदि तदाऽसाधारण्यं दशाविशेष एव दोषः स्यात् इत्यनित्यदोषत्वमस्य स्यादिति चेन इत्यत आह - दशाविशेष इति मूलम् / तथा चेष्टापत्तिरितिभावः / ननुतर्हि तुल्यबलत्वज्ञानदशायां सद्धेतोरपिचेदसाधारण्यं तदाशब्दोऽनित्यः शब्दत्वादिति प्रसिद्धानुमानेऽपि सत्प्रतिपक्षत्वं दोषः स्यात् / कथम् ? साध्यसाध्याभावोभयसाधकव्यतिरेकव्याप्तिग्रहदशायां तुल्यबलत्वज्ञानदशायां यथायत्रानित्यत्वाभावस्तत्रशब्दत्वाभावोयथा आकाशेइयमनित्यत्वसाधिकाव्यतिरेकव्याप्तिः, अनया व्याप्त्या किमनित्यत्वं सिद्धयति किं वा यत्र यत्रानित्यत्वं तत्र तत्र शब्दत्वाभावो यथा घटादौ इति कृत्वाऽत्र व्यतिरेकव्याप्तेस्तुल्यबलत्वदशायामयमप्यसाधारणः स्यादित्यत आह - शब्दोऽनित्य इति मूलम् / तथा चात्रापीष्टापत्तिरिति तथा शब्दार्थः। ___ अथ टीका / इच्छा द्रव्याश्रिता इत्यत्र सामान्यतोदृष्टानुमाने भवेत् [123 A] तदा द्रव्यत्वे वृत्तित्वं प्रकारो भवति ।आश्रये द्रव्यत्वाश्रयत्वे भासमाने द्रव्यत्वेऽपिआश्रयवृत्तित्वंभासेत समानेतिन्यायात्। ननु इच्छा द्रव्या