________________ 248 तत्त्वचिन्तामणिटिप्पनिका सुखबोंधिका नचेत्यारभ्याशङ्कार्थः। पूर्वपक्षी दूषयति-साध्येतिमूलम्।तथाचसाध्यनिश्चयाभावेसाध्यव्यतिरेकनिश्चयमूलको यथाअष्टद्रव्यातिरिक्तद्रव्याश्रितानस्यादितिसाध्याभावनिश्चयोनस्यादित्यर्थः। ननु उक्ततर्कसहकृतात् संशयादेव साध्यव्यतिरेकनिश्चयो भविष्यतीत्यतआह - अन्यथेति। यदि उक्तरूपतर्कसहकृतादेव साध्यव्यतिरेकनिश्चयस्तदा साध्यव्यतिरेकनिश्चये सतिव्यतिरेकव्याप्तिज्ञानद्वाराअष्टद्रव्यातिरिक्तद्रव्यवृत्तित्वरूपनिरूपणे सति तर्कोदयस्तर्कोदये चसति तर्कसहकृतात्साध्यसंशयात्साध्यव्यतिरेकनिश्चयस्तथाचपूर्वं यदि केनापिप्रकारेण साध्यव्यतिरेकनिश्चयो भवति तदा उक्तरूपस्तर्कोदयस्तर्कोदये च सति साध्यव्यतिरेकनिश्चय इत्यन्योन्याश्रय इत्यर्थः / सिद्धान्ती वदतिउच्यत इति / इच्छाश्रयेति / इच्छा द्रव्याश्रिता गुणत्वात् इत्यनेन पूर्वमिच्छाया द्रव्याश्रितत्वं सिद्धं तत इच्छा न पृथिव्याश्रिता तदाश्रितत्वे[122A)बाधकात् बाधकं चघटे इच्छासद्भावे चेष्टा स्यादिति। तद्र्व्यमिति मूलम् / तथा च पृथिव्यादाविच्छाधारताबाधे सति इच्छाश्रयो द्रव्यं पृथिव्याद्यष्टद्रव्यातिरिक्तम् अष्टद्रव्यावृत्तिधर्म इच्छा तद्वत्त्वात् / अथवा तद् द्रव्यमिच्छाश्रयरूपं द्रव्यं पृथिव्यादिभिन्नम्, तस्य पृथिवीरूपत्वे बाधकवत्त्वात् इत्यनुमानेनाष्टद्रव्यातिरिक्तद्रव्यसिद्धौ पश्चात् इच्छा अष्टद्रव्यातिरिक्तद्रव्यकाअथवाअष्टद्रव्यातिरिक्तद्रव्यवृत्तिरिति साध्यम् / नन्वत्राप्यष्टद्रव्यातिरिक्तद्रव्यवृत्तित्वरूपं साध्यं कुत्रापि न प्रसिद्धमित्यत आह - साध्यप्रसिद्धिरिति मूलम् / साध्यस्योक्तरूपस्य सिद्धिर्द्रव्यत्वेऽस्ति न त्विच्छाश्रये द्रव्ये, अष्टद्रव्यातिरिक्तद्रव्यत्वे साध्यमानेऽष्टद्रव्यातिरिक्तद्रव्याश्रितत्वमपीच्छायाः सिद्धमेव यथा वः पर्वतवृत्तित्वे सिद्धे पर्वतस्यापि वह्निमत्त्वं सिद्धमेव / तथा चकिमर्थं व्यतिरेक्यादर इत्यत आह - इच्छेति मूलम्। तथा च इच्छाविशेष्यकाष्टद्रव्यातिरिक्तद्रव्यवृत्तित्वप्रकारिका अनुमितिळतिरेकिसाध्येत्यर्थः / अत्राशङ्कते - तथापीति मूलम् / इच्छा अष्टद्रव्यातिरिक्तद्रव्याश्रिता इत्यत्र पूर्वोक्तरीत्या यदि साध्यप्रसिद्धिस्तदा मूलस्थैतादृशानुमानादेव प्रसिद्धिर्वर्तते, तथा चपूर्वोक्तरीत्या साध्यं यत्र प्रसिद्धं तद् द्रव्यमष्टद्रव्यातिरिक्तमिति पूर्वोक्तानुमानादेव साध्यप्रसिद्धिसम्भवे नाष्टद्रव्यातिरिक्तद्रव्यत्वं दृष्टान्तीकृत्य [आन्वयी हे(ए)व हेतुः स्यादित्याशङ्कार्थः / समाधत्ते - अन्वयव्याप्तीति मूलम् / तथा चान्वयव्याप्तिर्यदा न स्फुरति तदैव व्यतिरेक्यनुमानमित्यर्थः / आशङ्कते - न चेति। द्रव्यत्वरूपो यः सपक्षस्तत्र हेतुरष्टद्रव्यवृत्तित्वमपि द्रव्यत्वे वर्तते अष्टद्रव्यातिरिक्तद्रव्यवृत्तित्वमपि वर्तते यथा घटत्वस्य नीलघटवृत्तित्वमप्यस्ति नीलघटातिरिक्तपीतघटादिवृत्तित्वमप्यस्ति इति कृत्वा साध्यं तत्र वर्तते / हेतुरष्टद्रव्यानाश्रितत्वे सति गुणत्वं नास्तीत्यसाधारण इत्याशङ्कार्थः।समाधत्ते - तद्धीति।न तदसाधारण्यम्।साध्येतिमूलम्।साध्यसाध्याभावोभयसाधकं यत् सत्प्रतिपक्षरूपमनुमानं तदुत्थापकतया दूषणं यथा घटो गन्धवान् घटत्वात् / अत्रान्वयव्याप्तिास्ति घटमात्रपक्षीकरणात्। ततो यत्र गन्धवत्त्वाभावस्तत्र घटत्वाभावो यथा जले।अत्र गन्धसाध्यकानुमाने व्यतिरेकव्याप्त्यागन्धवत्त्वंवा सिद्धयति किंवायत्रगन्धाभावास्तवघटत्वाभाव इतिगन्धाभावसाध्यकव्यतिरेकव्याप्त्या