________________ केवलव्यतिरेक्यनुमाननिरूपणम् 247 साधकत्वे तत्सत्त्वात्, अत एव यावदेकत्रानुकूलतर्को नावतरति तावदेव दशाविशेषेऽसाधारण्यं दोष इत्युक्तं सुवर्णतैजसत्वसाधकव्यतिरेकिणि शब्दोऽनित्यः शब्दत्वात् इत्यादावपि तथा। ___ अथ मूलम्।साध्यप्रसिद्धयर्थं प्रकारान्तरमप्याशङ्कते-नचेति। इच्छेत्यादिआपादकम्, येनापाद्यते साध्यते तदापादकं साधकम्।अष्टद्रव्यानाश्रितेत्यादिआपाद्यम्।आपाये सत्यन्तम्। तथाइच्छा अष्टद्रव्यातिरिक्तद्रव्याश्रिता नस्यादित्येवास्तु इत्युच्यमाने रूपादौ व्यभिचारः।कुतः ? रूपादेरष्टद्रव्यातिरिक्तद्रव्याश्रितत्वाभावेऽपि यथाऽष्टद्रव्यातिरिक्तं द्रव्यमात्मा तदाश्रितत्वाभावेऽपि द्रव्यं यत् पृथिव्यादि तदाश्रितत्वस्य विद्यमानत्वात् व्यभिचार इत्यत उक्तं सत्यन्तम् / सत्यन्तमात्र एवोक्ते यत्र यत्र अष्टद्रव्यातिरिक्तद्रव्याश्रितत्वाभावस्तत्र तत्र अष्टद्रव्यानाश्रितत्वाभाव एवं व्याप्तिर्नास्ति रूपत्वादौ व्यभिचारात् / अत उक्तं द्रव्याश्रिता न स्यादिति / रूपत्वादौ तु यद्यप्यष्टद्रव्यानाश्रितत्वाभावो नास्ति तथाप्यष्टद्रव्यानाश्रितत्वे सति द्रव्याश्रितत्वाभावस्तु वर्तते।रूपत्वादिकं तु द्रव्याश्रितं न भवत्येवेति, एतावताऽष्टद्रव्यातिरिक्तद्रव्याश्रितत्वरूपसाध्यप्रसिद्धिः कथमागतेत्यत आह - साध्यविपर्ययेति।प्रकृतानुमानेऽष्टद्रव्यातिरिक्तद्रव्याश्रितत्वरूपं यत् साध्यं तस्य विपर्ययोऽष्टद्रव्यातिरिक्तद्रव्याश्रितत्वाभावरूपः / तद्रूपा या संशयकोटिर्यथाऽष्टद्रव्यातिरिक्तद्रव्याश्रिता न वेति संशये वह्नयभावकोटौ प्रतिकूलतर्कस्तिष्ठति / यथा वह्नयभावे [121 B] धूमो न स्यादिति तर्कवत् प्रकृते इच्छाऽष्टद्रव्यातिरिक्तद्रव्याश्रिता न स्यात् तदा अष्टद्रव्यानाश्रिता सती द्रव्याश्रितापि न स्यात् इति साध्यविपर्ययकोटौ प्रतिकूलस्तर्कोऽयमेव / एतत्सहकृतसाध्यसंशय एव साध्यनिश्चयकार्यं व्याप्तिज्ञानादि करोति / यथा स्थाणुत्वांशे बाधकावतारसहायेन स्थाणुर्वा पुरुषोवेतिसंशयेनैव यथा निश्चयकार्यप्रवृत्त्यादिकंभवति तद्वत्प्रकृते साध्याभावांशे उक्तरूपप्रतिकूलत सहकृतेनसंशयेनैवसाध्यनिश्चयकार्यव्यतिरेकज्ञानादिकंक्रियते, तथाचसाध्यनिश्चयाभावेऽपि उक्तरूपव्यतिरेकव्याप्तिज्ञानादिकं भविष्यतीत्यर्थः / ननु अनयैव रीत्याऽप्रसिद्धडित्थाद्यनुमानमपि स्यादित्यत आह - अत एवेति मूलम् / यत एव तर्कसहकृतः संशयोऽपि निश्चयकार्यं करोति अत एवेत्यर्थः / एवं च संशयरूपसाध्यप्रसिद्धि• मूलकडित्थाद्यनुमानमपि स्यादित्यर्थः / तथा च यथा संशयमूलकं यथाऽष्टद्रव्यातिरिक्तद्रव्याश्रितत्वस्यानुमानं तथा संशयमूलकेनानुमानेन डित्थोऽपि कथं न साध्यत इति भावः / कथमपास्तमित्यतस्तदेव स्पष्टयति - तद्विपर्ययेति।डित्थाद्यभावकोटिके संशये यथाऽयं डित्थोनवेतिप्रतिकूलतर्को नास्तिडित्थत्वस्य व्याप्यानिर्णयात् / इदमापाततो वस्तुतस्तु डित्थस्याप्रसिद्धया डित्थकोटिकः संशय एव न सम्भवति / अष्टद्रव्यातिरिक्तद्रव्याश्रितत्वरूपसाध्यस्य घटका ये पदार्था द्रव्यम् अथाश्रितत्वमित्यादयस्तेषां तु प्रसिद्धिवर्तते इत्येवं परं विशेषः /