________________ केवलव्यतिरेक्यनुमाननिरूपणम् 245 समवधाने सतियाघटस्यानुपलब्धिः घटादर्शनं सा योग्यानुपलब्धिः।यथाघटग्राहकाणिआलोकचक्षुरिन्द्रियादीनि वर्तन्ते परं घटस्तु नोपलभ्यते इति कृत्वा सा योग्यानुपलब्धिरिति पारिभाषिकी संज्ञा / व्यावृत्तिरत्र यथा अनुपलब्धिरित्युक्ते पृथिवीपरमाणौ जलपरमाणौ जलपरमाणुरूपाभावोऽपिप्रत्यक्षः स्यादनुपलब्धिसत्त्वादित्यत उक्तंप्रतियोगिग्राहकसमवधान इति तत्रचप्रतियोगिनोजलरूपस्यातीन्द्रियत्वात् तत्प्रतियोगिग्राहकसमवधानमेव नास्ति।अथ प्रतियोगिग्राहकसमवधाने सति याऽनुपलब्धिः सायोग्यानुपलब्धिरित्येवास्तु, तर्हि अन्धकारे प्रतियोगिग्राहकशरीरात्मादेः सत्त्वात् या घटानुपलब्धिः साऽपि योग्यानुपलब्धिः [120 B] स्यादित्यत आह - सकलेति / अथ सकलप्रतियोग्युपलम्भकसमवधाने याऽनुपलब्धिः सा योग्यानुपलब्धिः इत्युक्तेऽसम्भवः सकलप्रतियोग्युपलम्भकसमवधानेऽनुपलब्धेरभावात्, अत उक्तम् - प्रतियोगिप्रतियोगिव्याप्येतरेति। तथा च सकलप्रतियोग्युपलम्भकं कीदृशं विवक्षितम् ? तथा चप्रतियोगिव्याप्यः प्रतियोगीन्द्रियसन्निकर्षः तस्य सत्त्वेऽनुपलब्धिरेवाप्रसिद्धाऽत आह - प्रतियोगिव्याप्येतरेति। तथा च सकलप्रतियोग्युपलम्भकं कीदृशं विवक्षितम् ? प्रतियोगिव्याप्येतरद्विवक्षितम्। तथा च प्रतियोगिव्याप्यः प्रतियोगीन्द्रियसन्निकर्षः तदतिरिक्तसकलप्रतियोग्युपलम्भकसमवधानेऽनुपलब्धिर्भवत्येव / ननु तथाप्यभावग्रहो यत्र जायते तत्र प्रतियोगिव्याप्येतरसकलप्रतियोग्युपलम्भकसमवधानमेव नास्ति प्रतियोगिनोऽभावादित्यसम्भवः स्यादित्यत आह - प्रतियोगीति। तथा च प्रतियोगिप्रतियोगिव्याप्येतरसकलतदुपलम्भकसमवधाने याऽनुपलब्धिः सा योग्यानुपलब्धिरिति सम्पूर्णेऽपि लक्षणे प्रतियोगिप्रतियोगिव्याप्येतरसकलसंशयरूपप्रतियोग्युपलम्भजनकसमवधाने संशयरूप एवोपलम्भो भविष्यतिअनुपलम्भएवनभविष्यतीति।यथावस्तुगत्यापुरुषत्वाभाववतिस्थाणौ पुरुषपुरुषत्वव्याप्येतरसकलानि यानि पुरषत्वस्य प्रतियोगिनः संशयरूपोपलम्भजनकसांशयिकानि तेषां समवधानेऽनुपलब्धिरेव नास्ति / * सांशयिकानि संशयसामग्रीरूपाणि, तत्समवधाने संशय एव भविष्यतीत्यतः सकलनिश्चायकसमवधाने इति / तथा चप्रतियोगिव्याप्येतरसकलनिश्चायकसमवधाने याऽनुपलब्धिः सा योग्यानुपलब्धिः, संशयस्थले पुरुषत्वनिश्चायकसामर यभावान तत्रपुरुषत्वानुपलम्भः किन्तु तत्र पुरुषत्वोपलम्भ एवेति। एवं चेत् साध्यनिश्चयः कुत्रापि नास्ति, तदा प्रतियोगीत्यादिसकलनिश्चायकैतद्रूपाऽनुपलब्धिरेव नास्ति कथं तत्र साध्याभावनिश्चयः स्यादिति टीकार्थः / तस्येति टीका / योग्यानुपलम्भस्य क्वचिदधिकरणान्तरे निश्चायकसद्भावे निश्चयजनकसमवधाने आत्मलाभो योग्यानुपलब्धिलाभः सम्भवति। यदि च कुत्रापि साध्यनिश्चयो न स्यात् तदा साध्यनिश्चयाप्रसिद्धौ साध्यनिश्चायकस्याप्यप्रसिद्धा(द्धिः) नु(अतः) योग्यानुपलब्धिस्वरूपं न सम्भवत्येवेत्यत आह - अन्यथेति / यदि साध्यनिश्चयः कुत्रापि नास्तीत्यन्यथेत्यस्यार्थः / ननु किमर्थं निश्चयघोटता विवक्षा [121 A] कर्तव्या ? प्रतियोगितद्व्याप्येतरभ्रमरूपप्रतियोग्युपलम्भजदोषजनकदोषसमवधाने प्रतियोग्यनुपलब्धिरेव नास्ति, दोषे सति