________________ केवलव्यतिरेक्यनुमाननिरूपणम् 243 गुणादावपिवर्तते इति साधारणधर्मदर्शनात्। अथइच्छाश्रयो द्रव्यमष्टद्रव्यातिरिक्तंनवेति सन्देहात् अष्टद्रव्यातिरिक्तद्रव्यस्योपस्थितिर्जाता, एतावता सन्देहरूपा साध्यप्रसिद्धिर्जाता, पूर्वम् अष्टद्रव्यातिरिक्तद्रव्यस्योपस्थितौ सत्यां तद्रव्याश्रितत्वमनुमीयते इच्छायाः / यथा इच्छा अष्टद्रव्यातिरिक्तेत्यादिप्रकारान्तरेणापि साध्यप्रसिद्धि शङ्कते - यद्वेति। इच्छा अष्टद्रव्यातिरिक्ताश्रिता न वा इति संशयात् अष्टद्रव्यातिरिक्ताश्रितत्वं गुणत्वादौ प्रसिद्धं पश्चात् तत् इच्छायाम् अष्टद्रव्यातिरिक्ताश्रितत्वस्य सन्देहो भवत्येवोक्तरूपः, तथा चसन्देहात् उक्तरूपात् अष्टद्रव्यातिरिक्तस्याश्रयस्योपस्थितिर्जाता, ननु तथाप्यष्टद्रव्यातिरिक्तोपस्थितौ सत्यामपि अष्टद्रव्यातिरिक्तद्रव्योपस्थितिस्तु न जातेत्यत आह - पश्चादिति मूलम्। तथा चेच्छाश्रयोऽष्टद्रव्यातिरिक्तो द्रव्यं न वा इति सन्देहात् अष्टद्रव्यातिरिक्तद्रव्यस्याप्युपस्थितिर्जातैव एतावताऽयंमर्थः / देवदत्तो रक्तदण्डवान् न वेति सन्देहो जायते तद्वत् प्रकृतेऽपि पूर्वम् इच्छाश्रयो द्रव्यमष्टद्रव्यातिरिक्तं न वेति सन्देहो द्रव्यविशेष्यकोऽष्टद्रव्यातिरिक्तप्रकारकः इत्येवंरूपात् संशयात् [119B] अष्टद्रव्यातिरिक्तद्रव्योपस्थितिरितिप्रथमः पक्षः। यद्वेति द्वितीयपक्षे इच्छाश्रयो योऽष्टद्रव्यातिरिक्तो धर्मी तद्विशेष्यकद्रव्यत्वप्रकारकसंशयात् अष्टद्रव्यातिरिक्तद्रव्योपस्थितिरिति विशेषः / यथा इच्छाश्रयोऽष्टद्रव्यातिरिक्तं द्रव्यं नवापूर्वस्मिन् तुइच्छाश्रयो द्रव्यम् अष्टद्रव्यातिरिक्तं न वेतिभेदः द्वयोः संशययोरिति। तथा चोक्तसन्देहरूपैव साध्यप्रसिद्धिरिति भावः / ततः किमित्यत आह - अथ वेति मूलम् / पूर्ववदिति मूलम् / पूर्ववत् सन्देहस्य स्वरूपं यथा इच्छा अष्टद्रव्यातिरिक्तद्रव्यवृत्तिर्न वा इति सन्देहस्वरूपम्, ततोऽपि किमित्यत आह - अष्टेति / अष्टद्रव्यातिरिक्तद्रव्यवृत्तित्वं सन्देहादुक्तरूपात् प्रसिद्धमिच्छायां साध्यते / ननु तथाप्यनुमाने सन्देहरूपा साध्यप्रसिद्धिर्नाङ्गं किन्तु साध्यनिश्चयरूपैव / तथा च साध्यनिश्चयाभावे कथमनुमानमित्यत आह - संशयप्रसिद्धमपीति मूलम् / तथा च संशयप्रसिद्धमपि साध्यं व्यतिरेकव्याप्त्यादिनिरूपकं भवत्येव / न ह्यभावज्ञाने प्रतियोगिनिश्चयत्वेन कारणता किन्तु प्रतियोगिज्ञानत्वेनैव, प्रतियोगिज्ञाने तु सन्देहरूपमपि भवत्येवेति व्यतिरेकव्याप्तिप्रवृत्तिर्भविष्यत्येवेत्यर्थः / अत्राशङ्कते - नचैवमिति मूलम्। तथा च संशयरूपा या साध्यप्रसिद्धिः सापूर्वोक्तरीत्या पक्षमिच्छारूपमादायैवपर्यवसन्ना। कथम्? यतः पूर्ववत् संशयात् अष्टद्रव्यातिरिक्तद्रव्योपस्थितिः पश्चादिच्छा यद् अष्टद्रव्यातिरिक्तं द्रव्यं तदाश्रिता न वा इति सन्देहात् / अष्टद्रव्यातिरिक्तद्रव्याश्रितत्वरूपसाध्यप्रसिद्धिस्तुपक्षेएव इच्छायामेवसंशयरूपासाध्यप्रसिद्धिः, तथा चपक्षेसाध्यप्रसिद्धौ अनुमानं व्यर्थमित्याशङ्कार्थः / समाधत्ते - निश्चयार्थमिति मूलम् / तथा च यद्यपि पक्षे साध्यसन्देहो जातस्तथापि साध्यनिश्चयस्तु न जात इति साध्यनिश्चयार्थमनुमानमेतदिति स्यादेतदित्यारभ्याशङ्काग्रन्थार्थः। अथ टीका / आश्रितत्वादिति मूले। आश्रितत्वम् अष्टद्रव्यातिरिक्ततद्भिन्नस्य न साधारणो धर्मः, यतोऽष्टद्रव्यातिरिक्तस्यात्मादेर्गुणाश्रयत्वं वर्तते न तु गुणाश्रितत्वम् इत्यसम्भवादन्यथा मूलं व्याचष्टे - आश्रयत्वेति