________________ 241 केवलव्यतिरेक्यनुमाननिरूपणम् / समवायिकारणातिरिक्तवृत्ति स्यात्, तत्रापि रूपाधारत्वं रूपसमवायिकारणातिरिक्तवृत्ति सकलरूपाधिकरणवृत्तित्वात् प्रमेयत्ववत् इति अनुमानसम्भवात् / तथा च यथा रूपाधारत्वं रूपसमवायिकारणातिरिक्तवृत्ति न भवति तद्वत् भोगधारत्वमपिभोगसमवायिकारणातिरिक्तवृत्ति न भवति इत्याशङ्कार्थः / मूले तार्किकरीतिरित्यनेन किमप्युत्तरं नास्तीत्यतः पूरयति - तथा चेति। एवं च शरीरे सुखमिति प्रत्ययवत् वायौ रूपमिति प्रत्ययाभावात् भोगाधारत्वस्यैव भोगसमवायिकारणातिरिक्तं यच्छरीरं तद्वृत्तित्वम्, न तु रूपाधारत्वस्य रूपसमवायिकारणातिरिक्तवृत्तित्वंतथा प्रतीतेरभावात्।इत्यनुकूलतर्कसहकारादेव हेतोः साध्यव्याप्यत्वे उपाधेः साध्याव्यापकत्वादत एवरूपाधारत्वप्रतिबन्धपिनभवेत् तत्र हेतोः सकलरूपाधिकरणवृत्तित्वस्य[118B]रूपसमवायिकारणातिरिक्तवृत्तित्वरूपसाध्यव्याप्यत्वग्राहकानुकूलतर्काभावात् तत्रोपाधी रूपानधिकरणवृत्तित्वं भवत्येव प्रकृतेऽनुकूलोक्ततर्कस्य विद्यमानत्वान्नोपाधिरित्यर्थः / अत एवाह - तर्केणेति टीका।शरीरे सुखमितिप्रतीतिरूपतर्केणेत्यर्थः / तथा च यदि सकलभोगाधिकरणवृत्तित्वं भोगसमवायिकारणातिरिक्तवृत्ति न स्यात् तदा शरीरे सुखमिति प्रत्ययो न स्यात् / रूपाधारत्वमित्युक्तप्रतिबन्दी निरस्यति। अत एवेति टीका / तत्रैतादृशतर्काभावादिति / यथा भोगासमवायिनि शरीरे सुखमितिप्रत्ययोजायते तद्वत् रूपासमवायिनिआकाशादौ नीलपीतादिप्रत्ययाभावात्नरूपसमवायिकारणातिरिक्तवृत्ति रूपाधारत्वमिति / व्याख्यान्तरमुद्भावयति - केचित् त्विति टीका / संसारीति टीका। संसार्यात्मत्वे सन्दिग्धव्यभिचारः प्राप्तः तदर्थं तार्किकरीतिरित्युक्तम् / कथम् ? संसार्यात्मत्वे भोगसमवायिकारणातिरिक्तवृत्तित्वं नास्ति। कथम् ? यतो यावत्संसारी आत्मा तावत् भोगवानेवेत्येव / भोगसमवायिकारणातिरिक्तवृत्तित्वं नास्तीति हेतोः साध्याभाववत्तया निर्णीते हेतोः यदासकलभोगाधिकरणवृत्तित्वस्य सन्देहो जातस्तदाव्यभिचारोऽपि सन्दिग्धः, अतएवाह - साध्याभाववत्तयेति टीका। तथा चसाध्याभाववत्तया निर्णीतेऽधिकरणे हेतुसन्देहस्यैव सन्दिग्धव्यभिचारत्वादित्यर्थः / तथा च तार्किकरीतिरित्यनेन किमुक्तमित्यत आह - तथा चेति टीका। उक्ततर्कः शरीरे सुखप्रत्ययो न स्यादिति रूपः / तथा च सकलभोगाधिकरणवृत्तित्वस्य भोगसमवायिकारणातिरिक्तवृत्तित्वस्य च व्याप्तिर्यदिनस्यात् तदा शरीरे सुखमिति प्रत्ययो न स्यात्, ततोऽनेनाकुलतर्केणोक्तव्यभिचारसन्देहे निरस्ते सुकर एव हेतुःसाध्ययोर्व्याप्तिग्रहो भवतीति समाधानान्तरार्थः / इति टीकायां समाप्तो द्वितीयो व्यतिरेकी। - अथेच्छा अष्टद्रव्यातिरिक्तद्रव्याश्रिता अष्टद्रव्यानाश्रितत्वे सति गुणत्वात् यत्नवं तन्नैवंयथानाश्रितमष्टद्रव्याश्रितं वेतिकथं व्यतिरेकी अष्टद्रव्यातिरिक्तद्रव्यस्य तद्वृत्तित्वस्य चाप्रतीतेर्व्यतिरेकाद्यनिरूपणात् / स्यादेतत् इच्छाया द्रव्याश्रितत्वेऽनुमिते पृथिव्यादौ