SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ 240 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका घटत्वाभावेन नीलघटत्वाभावनिष्ठा व्याप्तिर्ग्रहीतुं न शक्यते इति नीलपदं सार्थकम्। तद्वत् यथावा जन्यत्वाभावेन शरीरजन्यत्वाभावनिष्ठा व्याप्तिर्ग्रहीतुं न शक्यते जन्यत्वाभावत्वस्य शरीरजन्यत्वाभावावृत्तित्वात् इति शरीरपदं सार्थकमस्ति यद्यपि स्वरूपासिद्धिवारकं तथापीति ज्ञेयम् / तद्वत् अखण्डाभाववत् अखण्डोपाधावपि न वैयर्थ्यम् यथासकलाधिकरणवृत्तित्वं भिन्नं सकलभोगाधिकरणवृत्तित्वमुपाधिभिन्नः तथा च सकलभोगाधिकरणवृत्तित्वावच्छेदकोऽखण्ड एव धर्मो ग्राह्यः / यथा इदं स्नेहवत् चैत्रमैत्रादीनां पिपासोपशमनहेतुत्वात् / अत्र चैत्रमैत्रादीति पदं न व्यर्थं तस्य हेतुमध्ये प्रवेशाभावात् / हेतुस्तु पिपासोपशमनहेतुतावच्छेदको धर्मस्तु जलत्वादिकोऽखण्ड एव, तस्य मध्ये चैत्रमैत्रपिपासादीनां प्रवेश एव नास्तीति अखण्ड एव धर्मस्तत्सकलभोगाधिकरणवृत्तित्वशब्देन सकलभोगाधिकरणवृत्तितावच्छेदकः कोऽपि अखण्ड एव धर्मस्तन्मध्ये भोगादिपदानां प्रवेश एव नास्ति, ततो हेतुमध्ये भोगादिपदानां प्रवेशाभावात् न वैयर्थ्यमिति सूक्तम् अखण्डोपाधौ न वैयर्थ्यम् / मतान्तरमुत्थापयति - यत्त्विति / सकलपदं यत्किञ्चित्सकलपरम्, तथा च यत्किञ्चित्सकलवृत्तित्वं संसार्यात्मत्वे व्यभिचारि तत्र सकलवृत्तित्वं वर्तते, भोगसमवायिकारणातिरिक्तवृत्तित्वं नास्ति तस्य [118 A] भोगाधिरणमात्रवृत्तित्वादिति व्यभिचार इत्यत उक्तं भोगपदमित्यर्थः। दूषयति - सकलेति। न हि तव परिभाषामात्रेण सकलपदं यत्किञ्चित्परं भवति / किन्तु अनादिसिद्धप्रयोगानुसारात् सकलपदस्य यावदर्थ एव विश्रान्तिर्न तु कियदेकदेशसकलपरता। तथा चन संसार्यात्मत्वे व्यभिचारवारणार्थं भोगपदम्, तस्य सकलाधिकरणवृत्तिता नास्ति कथं व्यभिचार इत्यतोऽखण्डोपाधौन वैयर्थ्यमित्येव समाधानं सम्यक्। उत्तरग्रन्थस्तार्किकेतिरूपस्तस्य योजनार्थं शङ्कते - नन्विति टीका। तथा च भोगाधारत्वं भोगसमवायिकारणातिरिक्तवृत्ति सकलभोगाधिकरणवृत्तित्वात् प्रमेयत्ववत् इत्यत्र भोगानधिकरण(णा)वृत्तित्वमत्वो(थो)पाधिः / तथाहियत्रभोगेत्यादिसाध्यं तत्रतत्रभोगानधिकरण(णा)वृत्तित्वमस्तियथा प्रमेयत्वे यत्र यत्रसकलेत्यादिहेतुस्तत्र तत्रभोगानधिकरणावृत्तित्वं नास्तिभोगांधारत्वरूपपक्षे व्यभिचारात् / ननु हेतोः साध्यव्याप्यत्वेनोपाधेः साध्याव्यापकत्वाभावात्। यथापर्वतोधूमवह्निमान् (पर्वतो वह्निमान्) धूमात् इत्यत्र महानसत्वमुपाधिन भवति।कुतः? धूमस्य वह्निव्याप्यत्वेन महानसत्वस्यवहिव्याप्यधूमाव्यापकत्वेन यत्रधूमस्तत्र महानसत्वं नास्तीति वहिव्याप्यधूमाव्यापकत्वेन महानसत्वस्य वह्नयव्यापकत्वं तद्वत् प्रकृते साध्यं भोगेत्यादि तस्य व्याप्यं यत् सकलेत्यादि हेतुः तस्याव्यापकं भवति भोगानधिकरण(णा)वृत्तित्वं यथा यथा(त्र) सकलभोगाधिकरणवृत्तित्वं तत्र भोगानधिकरणावृत्तित्वं नास्ति भोगाधारत्व एव व्यभिचारादिति कृत्वा साध्यव्याप्यहेत्वव्यापकत्वेनोपाधेः साध्याव्यापकत्वात्। तथा चोपाधेरपि साध्याव्यापकत्वान्नायमुपाधिरित्यत आह - अन्यथेति टीका / यदि भोगाधारत्वमपि भोगसमवायिकारणातिरिक्तवृत्ति तदा रूपाधारत्वमपि रूप१. आख्यातुमशक्यत्वेऽपि तस्य प्रत्याख्यातुमशक्यत्वात् अनिर्वचनीयत्वमेव / इति प्रतौ टिप्पणी।।
SR No.004316
Book TitleTattva Chintamani
Original Sutra AuthorN/A
AuthorNagin G Shah
PublisherB L Institute of Indology
Publication Year2005
Total Pages620
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy