________________ केवलव्यतिरेक्यनुमाननिरूपणम् 239 नीलधूमनिष्ठा व्याप्तिधूमत्वेन रूपेण ग्रहीतुं शक्यत एव तद्वत् सकलभोगाधिकरणवृत्तित्वं सकलाधिकरणवृत्तित्वं वा तयोर्मध्ये सकलभोगाधिकरणवृत्तित्वनिष्ठा व्याप्तिः सकलाधिकरणवृत्तित्वत्वेनाधिकरणवृत्तित्वत्वेन वा ग्रहीतुं शक्यत एव / यनिष्ठेत्यादिनियामकं विनापि केवलं व्याप्याश्रयविकाशकविशेषणस्य व्यर्थत्वं नास्तीत्युच्यते तदा बाधकमाह - अन्यत्वेति / पर्वतो वह्निमान् धूमालोकान्यतरत्वात् इत्यत्र धूमेन केवलेन धूमाधिकरणमात्रमेव लभ्यते धूमालोकान्यतराधिकरणं पर्वतापेक्षयाऽयोगोलकादिकमप्यधिकं लभ्यते व्याप्यो धूमोऽपि आलोकोऽपि भवति / तदुभयाश्रयविकाशकत्वात् धूमालोकान्यान्यत्वस्य तदुभयाश्रयविकाशकत्वात् धूमालोकान्यान्यत्वमपि लिङ्गं स्यादिति तथा च व्याप्याश्रयविकाशकेति व्यर्थमेव / सार्थकं तु व्याप्यतावच्छेदकविकाशकमेव विशेषणम् / तर्हि भोगपदं स्वरूपासिद्धिवारकं विशेषणं व्यर्थमित्यत आह - तस्मादिति / तथा च यथा इदमकर्तृत शरीराजन्यत्वात् इत्यत्र जन्यत्वाभावहेतुरस्तु किं शरीरपदेन ? तत्र चोच्यते - जन्यत्वाभावो गगनादौ भिन्नः शरीरजन्यत्वाभावः पृथिव्यां भिन्नः / यथा घटत्वाभावो भिन्नो नीलघटत्वाभावो भिन्नः तद्वत् जन्यत्वाभावो भिन्नः शरीरजन्यत्वाभावो भिन्नः / तथा च यथा घटत्वावच्छिन्नाभावो भिन्नः नीलघटत्वावच्छिन्नाभावो भिन्नः एवं च घटत्वावच्छिन्नाभावात् इति हेतौ क्रियमाणे घटत्वावच्छिन्नाभावत्वेन नीलघटत्वावच्छिन्नाभावनिष्ठा व्याप्तिर्ग्रहीतुं न शक्यते तद्वत् जन्यत्वाभावात् इति हेतौ क्रियमाणे जन्यत्वावच्छिन्नाभावत्वेनशरीरजन्यत्वाभावनिष्ठाव्याप्तिर्ग्रहीतुंन शक्यते। यथाधूमत्वेन आलोकनिष्ठा व्याप्तिर्ग्रहीतुं न शक्यते धूमत्वस्य आलोकावृत्तित्वात् तद्वत् जन्यत्वावच्छिन्नाभावत्वं शरीरजन्यत्वाभाववृत्ति न भवति। यथा धूमत्वेन रूपेण धूमनिष्ठेव व्याप्तिर्ग्रहीतुं शक्यते यतो धूमत्वं धूमे वर्ततेधूमनिष्ठा व्याप्तिरपिधूमे वर्तते आलोकेनास्तीति नगृह्यते तद्वत् जन्यत्वावच्छिन्नाभावत्वं जन्यत्वावच्छिन्नाभावनिष्ठं परंशरीरजन्यत्वावच्छिन्नाभावनिष्ठं न भवति इति कृत्वा जन्यत्वाभावत्वेन शरीरजन्यत्वाभावनिष्ठा व्याप्तिर्ग्रहीतुं न शक्यते [117 B] तथा च जन्यत्वावच्छिन्नाभावापेक्षया यथा शरीरजन्यत्वाभावोऽखण्डाभावो यत एतन्मध्ये जन्यत्वावच्छिन्नाभावः प्रविष्ट एव नास्ति इति कृत्वाऽखण्डाभाव एव यथा घटत्वमखण्डं तदवच्छिन्नोऽभावोऽप्यखण्डाभाव एव / एवं नीलघटत्वावच्छिन्नप्रतियोगिताकोऽप्यभावोऽखण्डो यतः प्रतियोगितावच्छेदकभेदेनाभावभेदात् / अत्र च प्रतियोगितावच्छेदकंनीलघटत्वं तदवच्छिन्नप्रतियोगिकोऽभावोऽतिरिक्तएव।यथा घटत्वावच्छिन्नाभावोऽखण्ड एव भिन्नः पटत्वावच्छिन्नाभावो यथा भिन्नः तद्वत् नीलघटत्वावच्छिन्नाभावो भिन्नः घटवावच्छिन्नाभावो भिन्नः / यथाऽखण्डाभावे न वैयर्थ्यं यथा घटाभावात् इत्युच्यमाने नीलघटत्वावच्छिन्ना व्याप्तिर्ग्रहीतुं न शक्यते एवं धूमप्रागभावात् इत्युक्ते प्रागभावपदं [न] व्यर्थं यतो धूमत्वेन धूमप्रागभावनिष्ठा व्याप्तिर्ग्रहीतुं न शक्यतेऽतो यनिष्ठेत्युक्तन्यायात् प्रागभावपदं न व्यर्थम् / तद्वत् घटाभावो भिन्नो हेतुर्नीलघटत्वावच्छिन्नाभावो भिन्नो हेतुरिति