________________ 238 तत्त्वचिन्तामणिटिप्पनिका सुखबोधिका सार्थकत्वं यथा गोत्वात् इत्युच्यमाने गोत्वत्वं हेतुतावच्छेदकं तेन यत्र गोत्वत्वं गोत्वे वर्तते इति कृत्वा गोत्वमेकैव जातिर्हेतुत्वेनागता, गोत्वव्याप्यवत्त्वादित्युच्यमाने गोत्वव्याप्यत्वं गोत्वेऽपि वर्तते सास्नादिषु बहुष्वपि वर्तते, तथा च गोत्वत्वापेक्षया गोत्वव्याप्यत्वं हेतुतावच्छेदकं बहुषु व्यक्तिषु वर्तते तत्र व्याप्यपदं सार्थकम् / कथम् ? यतोऽत्र यनिष्ठा यन्निरूपितेत्यादिव्याप्तिर्गोत्वव्याप्यात् इत्यत्र व्याप्यपदानुपादाने सास्नादिनिष्ठा व्याप्तिर्गोत्वत्वेन ग्रहीतुं न शक्यते [116B] गोत्वत्वस्य सास्नाद्यवृत्तित्वात् इति कृत्वा व्याप्यतावच्छेदकविकाशो व्याप्यपदेन क्रियते / तद्वत् प्रकृते भोगपदे दत्ते सति व्याप्यतावच्छेदकविकाशो नास्ति / कथं नास्ति ? सकलाधिकरणवृत्तित्वापेक्षया सकलभोगाधिकरणवृत्तित्वं बहुवृत्ति न भवति। कथम् ? यतः सकलभोगाधिकरणवृत्तित्वनिष्ठा या व्याप्तिः सा सकलाधिकरणवृत्तित्वेनापि ग्रहीतुं शक्यते एव, यथा नीलधूमनिष्ठा या व्याप्तिः सा नीलपदव्यतिरेकेणापिधूमत्वेन रूपेणग्रहीतुं शक्यते एव। तद्वत् भोगपदव्यतिरेकेणापिसकलाधिकरणवृत्तित्वेन व्याप्तिर्ग्रहीतुं शक्यते एव यथा यत्र यत्रसकलाधिकरणवृत्तित्वं तत्र तत्रभोगसमवायिकारणातिरिक्तवृत्तित्वमस्त्येव यथा प्रमेयत्वे / यथा नीलधूमत्वापेक्षया धूमत्वमेव व्याप्यतावच्छेदकविकाशकं भवति तद्वत् सकलभोगाधिकरणवृत्तित्वापेक्षया सकलाधिकरणवृत्तित्वमेव व्याप्यतावच्छेदकविकाशकं भवति / यथा नीलधूमत्वापेक्षया धूमत्वं परमेतावान् विशेषः तत्र व्याप्याश्रयाणां विकाशो नास्तिअत्रतुव्याप्याश्रयाणां सकलाधिकरणवृत्तित्वरूपव्याप्याश्रयापेक्षया सकलभोगाधिकरणवृत्तित्वाश्रयाणां बहुत्वं वर्तते। कथम्? सकलाधिकरणवृत्तित्वाधिकरणानि तु केवलान्वयिन्येव, सकलभोगाधिकरणवृत्तित्वाधिकरणानि तु आत्मत्वज्ञानादीनि व्यतिरेकिधर्मा अपिभवन्ति इति / स व्याप्याश्रयविकाशोऽनुपयुक्तः / कथम् ? यनिष्ठा यनिरूपितेत्यादिव्याप्तौ व्याप्याश्रयविकाशस्यानुपयुक्तत्वात्। एतदेवाह - व्याप्यतावच्छेदकविकाशेऽपीतिटीका। तथा चव्याप्यतावच्छेदकविकाशकविशेषणे पूर्वोक्तरीत्या व्यर्थत्वाभावेऽपि व्याप्याश्रयविकाशकविशेषणे व्यर्थत्वं वर्तते एवेत्यर्थः / व्याप्यतावच्छेदकविकाशकविशेषणे व्यर्थत्वं नास्ति, तथा व्याप्याश्रयविकाशकविशेषणे व्यर्थत्वमस्तीत्यत्रबीजं नास्तीत्याशङ्कतेन चेति / तथा च यथा व्याप्यतावच्छेदकविकाशकविशेषणस्य वैयर्थ्यं नास्ति तथा व्याप्याश्रयविकाशकविशेषणस्या(स्य) वैयर्थ्यं नास्ति।यदि चव्याप्याश्रयविकाशकविशेषणेवैयर्थ्यं तदा व्याप्यतावच्छेदकविकाशकविशेषणेऽपिवैयर्थ्यं स्याद् विनिगमकाभावादित्याशङ्कार्थः / समाधत्ते - तत्रेति। इदमेव विनिगमकं यथा यादृशेन विकाशकेन विशेषणेन यनिष्ठेत्यादिका व्याप्तिर्ग्रहीतुं न शक्यते तदेव विकाशकं विशेषणं सार्थकम्, प्रकृते च व्याप्यतावच्छेदकविशेषणाभावे यन्निष्ठा यन्निरूपितेत्यादिव्याप्तिर्ग्रहीतुं न शक्यते। यथा गोत्वे[117 A]व्याप्यादित्युच्याने व्याप्यपदानुपादाने सास्नादिनिष्ठा व्याप्यिर्ग्रहीतुं न शक्यते इति कृत्वा व्याप्यतावच्छेदकविकाशकविशेषणं व्याप्यपदं सार्थकम्, व्याप्याश्रयविकाशकं तु विशेषणं न सार्थकम् / कुतः ? यथा नीलपदव्यतिरेकेणापि