________________ केवलव्यतिरेक्यनुमाननिरूपणम् 237 ग्रहीतुं शक्यत एवेति। यथा यत्र यत्रोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनःसंयोगाश्रयत्वं तत्र तत्रेन्द्रित्वं यनिष्ठा शब्देतरेत्यारभ्य मनःसंयोगाश्रयत्वेत्येतद्हेतुनिष्ठा या व्याप्तिः साशब्देतरपदाभावेऽपि ग्रहीतुंशक्यत एव, व्यभिचारोऽप्रसिद्धिर्वा कुत्रापि नास्ति। तथा च भागासिद्धिस्वरूपासिद्धिवारकं विशेषणं व्यर्थमेव, तद्वत् पकृते आशङ्कते - न चेति टीका। भोगाधारत्वं भोगसमवायिकारणातिरिक्तवृत्ति सकलभोगाधिकरणवृत्तित्वात्। अत्र सकलाधिकरणवृत्तित्वादित्युक्तेहेतोः स्वरूपासिद्धिः, भोगाधारत्वरूपेपक्षे सकलाधिकरणवृत्तित्वं नास्ति, अतः स्वरूपासिद्धिवारणार्थं भोगपदम् / तथा च भोगाधारत्वे सकलाधिकरणवृत्तित्वं यद्यपि नास्ति तथापि सकलभोगाधिकरणवृत्तित्वं वर्तते एव। तथा च स्वरूपासिद्धिवारकं यद् भोगपदं तद् व्यर्थमेव। कथम्? भोगसमवायिकारणातिरिक्तवृत्तित्वनिरूपिता या सकलभोगाधिकरणवृत्तित्वरूपहेतुनिष्ठा व्याप्तिः सा भोगपदाभावेऽपि ग्रहीतुं शक्यत एव यथा यत्र यत्र सकलाधिकरणवृत्तित्वं तत्र तत्र भोगसमवायिकारणातिरिक्तवृत्तित्वाम्] एवंरूपव्याप्तौ न वाऽप्रसिद्धिर्न वा व्यभिचारः प्रमेयत्वादौ व्याप्तेः प्रसिद्धिवर्तते एव इति [116 A]स्वरूपासिद्धिवारकं विशेषणं व्यर्थमेवेत्याशङ्कार्थः। अत्र कस्यचित् समाधानमाह - व्याप्यतेति टीका / व्याप्यतावच्छेदकस्य विकाशकं यद् विशेषणं तस्मिन् विशेषणे व्यर्थविशेषणता नभवति इत्यक्षरार्थः।अयमर्थः व्याप्यतावच्छेदकविकाशस्यायमर्थः - येन विशेषणेाना यद्धेतुतावच्छेदकापेक्षयास्वगर्भहेतुतावच्छेदकस्य बहुवृत्तित्वंसम्पाद्यते तद् विशेषणं व्याप्यतावच्छेदकविकासकंयथा क्षित्यादिकम् अकर्तृकम् अजन्यत्वात् गगनवत्।यत्र यत्राजन्यत्वंतत्रतत्राकर्तृकत्वमिति व्याप्तिर्गगने वर्तते परंतु क्षित्यादौ पक्षेऽजन्यत्वाभावात् स्वरूपासिद्धम्, तदर्थं हेतौ शरीरपदम्, तथा च शरीराजन्यत्वादिति हेतुः / एवं शरीराजन्यत्वं क्षित्यादौ वर्तते एव / अत्र यद्यपि स्वरूपासिद्धिवारकं विशेषणं पूर्वोक्तरीत्या व्यर्थमिति कृत्वा इदमपि व्यर्थमेवेति वक्तुमुचितं तथापि शरीरपदं व्याप्यतावच्छेदकविकासकं भवति / कथम् ? शरीरपदानन्तर्भावेऽजन्यत्वमेव हेतुः, अजन्यत्वं नाम जन्यत्वाभावो हेतुः / शरीरपदे दत्ते शरीराजन्यत्वंनामशरीरजन्यत्वाभावोहेतः। तथा चजन्यत्वाभावस्त केवलंनित्यमात्रवत्ति.शरीरजन्यत्वाभावस्त पृथिव्यादिनिष्ठोऽपीति। तथाचशरीरपदेनशरीरजन्यत्वाभावस्य बहुवृत्तित्वरूपो विकाशः क्रियते।अतः शरीरपदं व्याप्याश्रये शरीरजन्यत्वाभावाश्रये विकाशकं भवति।जन्यत्वाभावाश्रया गगनादयएव, शरीरजन्यत्वाभावाश्रया गगनक्षित्यादयो बहवो भवन्ति इति / शरीरपदेन व्याप्याश्रया बहव उपदय॑न्त इति शरीरपदं सार्थकं व्याप्याश्रयविकाशकत्वात् / एतत् समाधानं दूषयति - तच्चिन्त्यमिति टीका। व्याप्यतेति टीका। व्याप्यतावच्छेदके विशेषणे उक्तरीत्या व्यर्थत्वाभावेऽपि व्याप्याश्रये विशेषणे व्यर्थत्वमस्त्येव / यथा इयं व्यक्तिर्ब्राह्मणदानयोग्या गोत्वव्याप्यधर्मवत्त्वात् / अत्र व्याप्यपदं किमर्थं गोत्वात् इत्येवास्तु। यत्र यत्र गोत्वं तत्र तत्र ब्राह्मणदानविशेषाहत्वमित्यत्राप्रसिद्धिव्यभिचारौ न स्त इति / यद्वा व्याप्यपदस्य व्यर्थत्वेऽपि व्याप्यतावच्छेदकविकासकत्वात्